________________
अन्यापोहार्थनेर्मूल्यम्]
द्वादशारनयचक्रम् भवति ततः स न भवति, अथ स भवति अन्यो न भवतीयर्यादापन्नं तदन्ययोरुभयोरपि तत्त्वं, तश्च स्वत एव सिद्धम् , तस्मात् स्यादप्यनयो:-तदन्ययोरन्यापोहप्रत्ययः स चोपसर्जनो विधिर्न भवितुमर्हति, कस्मात् ? असयोपाधिसत्यशब्दार्थत्वात् , इत्थमन्यप्रतिपत्तिबिधिरेव न व्यावृत्तिः। ____ अथान्यो न भवतीति तस्याप्यन्यस्य यदि व्यावृत्तिरेव स्वरूपम् , ततोऽपि प्रश्नाव्यवस्था, सर्वत्रास्याक्षेपस्य तुल्यत्वादुक्तवत् , अन्यत्वस्य चोभयविषयत्वात् तदग्रहणे कोऽसावन्यः । यदपोहादन्यापोहः स्यात् , कुतो वान्यो न भवतीत्युच्यते ? यतोऽस्यान्यस्यान्यत्वं सिद्ध्येत् निर्धार्यमेतदन्यत्वम् ।
(अथेति) अथान्यो न भवति-अथ मा भूदेष दोष इत्यन्यो न भवतीति तस्याप्यन्याख्यस्यार्थस्य व्यावृत्तिरेव अभ्यो न भवतीति स्यात् स्वरूपम् , ततः किं ? ततोऽपि प्रश्नाव्यवस्था-सोऽपि योऽन्यो न भवतीत्युच्यमानोऽर्थः किं स एव भवति, उतान्यो न भवतीति पृच्छयसे त्वम् , तत्र यदि स एव भवतीति ब्रूयास्त्वं 10 पूर्ववद्विधिरर्थः, अथान्यो न भवति सोऽप्यन्यः तथा प्रष्टव्यः योऽन्यो न भवतीत्युच्यते ततोऽप्यन्यः प्रष्टव्य इति प्रश्नानवस्था । कस्मात् ? सर्वत्रास्याक्षेपस्य तुल्यत्वादुक्तवत् , किञ्चान्यत्-अन्यत्वस्य चोभयविषयत्वात्अन्य इति स उच्यतेऽन्यापेक्षया, सोऽप्येतदपेक्षया, अयमस्मादन्यो यमस्मादन्य इति, तयोर्द्वयोरपि स्वरूपतः सिद्धौ द्विष्ठं तदन्यत्वं सिद्ध्यति ततस्तस्यान्यत्वस्योभयविषयत्वात् तदग्रहे कोऽसावन्यः ? तयोरन्ययोविधि. रूपेणाग्रहणे कोऽसावन्यो नाम ? यदपोहादन्यापोहः स्यात् , कुतो वाऽन्यो न भवतीत्युच्यते ? यतोऽस्या- 15 न्यस्यान्यत्वं सिद्धयेत् यतोऽन्यः, योऽन्य इत्येतद् द्विष्ठत्वादन्यत्वस्य निर्धार्यमेतदन्यत्वम्-नान्यथा 'निर्धारयितुं शक्यमित्यभिप्रायः ।
एवन्तु न स कश्चिदर्थों भविता, उभयतोऽप्यभावप्रसङ्गात् स्वार्थस्यांशोऽपि न दृश्यत एव, अन्यो न भवतीत्युच्यमाने उभयतोऽपि न भवति न भवतीत्यन्यस्याव्याऽन्यताविज्ञानकाले तत्तदन्ययोरुपस्थितौ परस्परमेदप्रत्ययः पश्चादर्थतो भवति सोऽन्यस्माद्भिन्नः, अन्यश्च तस्माद्भिन्न इत्यन्योन्यमन्या-30 पोहप्रत्ययो जायते स उपसर्जन एव, असत्योपाधिसत्यशब्दार्थत्वादिति शब्दादन्यप्रतीतिर्विधिरूपत एव न व्यावृत्तिरूपत इति भावः। एवमन्यापोहवैयर्थ्यप्रसङ्गे तद्वारणाय वादी प्राह-अथान्य इति । व्याचष्टे-अथ मा भूदिति, द्वितीयो विकल्प एषः, अन्यापोह इत्यत्रान्याख्याऽर्थो न विधिरपि तु सोऽप्यन्यापोहरूप एवेति न पूर्वदोष इति भावः । अत्रानवस्थामापादयितुमाह-ततोऽपीति, अन्यस्य यद्यन्यो न भवतीति स्वरूपमुच्यते तत्राप्यन्यपदार्थः स एव, उतान्यापोहः, आधे विधित्वप्रसक्तिरन्ये सोऽप्यन्यः किं स एवोतान्यो न भवतीत्येवं प्रश्नस्याविरतिरिति भावः । हेतुमाह-सर्वत्रेति । अन्यत्वस्य प्रतियोग्य नुयोगिविषयत्वात् प्रतियोग्यनु 25 योगिनोश्च विधिरूपेशाग्रहणे तत्स्वरूपापरिज्ञानात् कस्य कस्मादन्यत्वमित्याशयेनाह-अन्यत्वस्य चेति । सोऽन्यापेक्षयाऽन्य .. इत्युच्यत इति तस्मिन्नन्यप्रतियोगिकान्यता, अन्योऽपि तच्छब्दवाच्यार्थप्रतियोगिकान्यतावानिति प्रतियोगिनोऽन्यस्यानुयोगिनस्तस्य च विधिरूपतः सिद्धौ सत्यां प्रतियोग्यनुयोगिनिष्ठमन्यत्वं सेत्स्यति नान्यथा, तयोहि तदन्ययोरसिद्धी व कस्मादन्यता स्यादिति नान्यापोह इति भावः । उभयविषय-वमेवाह-अन्य इतीति तस्मिन्नन्यत्वमन्यापेक्षमिति भावः । सोऽपीति अन्यस्मिन्नपि तत्त्वमेतदपेक्षमिति भावः । तत्त्वान्यत्वयोः स्वतःसिद्धौ अयम यस्मादन्य इत्युभ ापेक्षमन्यत्वं सिद्ध्यति नान्य- 30 थेयाह-तयोद्वयोरपीति । अन्यताया निर्धायतामह-यतोऽस्येत । अन्यताया अनिर्णीतत्वेन्यापोहवान काश्चद्भवति, .. तदन्ययोस्तत्त्वान्यत्वानिर्णयात्तस्मिन् तत्त्वस्यान्यस्मिन्नन्यत्वस्य चाभावः प्रसज्यत इत्याह-एवन्तु नेति । तदेव व्याचष्टे
-सि.क्ष. छाडेर्थस्यानव्या
...सि.क्ष. छाडे..मिर्धारित । ...
.
.
'
_Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org