________________
८७६
न्यायागमानुसारिणीव्याख्यासमेतम् [उभयनियमारे इति, यदिद मुक्तमर्थान्तरापोहेन स्वार्थाभिधानमिति, अत्रार्थान्तरं नामाऽन्योऽर्थ इति यस्माद्भवति तस्मात्तत्तावद्विचार्यते, स किमन्योऽर्थः स एव भवति विधिना? उतान्यो न भवतीत्यपोहेन ? . एतदयुक्तं यत इत्यादि । यावन्न घटेते इति, यस्मात्तावदन्वयव्यतिरेकावपीह न घटेते दूरत 5 एव यावर्थाभिधान हेतू तुल्यातुल्यवृत्त्यवृत्तिभ्यां भवत इत्यभिमतौ, तस्मादयुक्तं सम्बन्धसौकर्यमिति प्रतिज्ञातं तदुपपादनार्थमाह-अन्यापोहार्थनैर्मूल्यात्' इत्यादि श्लोकः, अपोहाथ[f]भावात् सम्बन्धाभावः स्वार्थगन्धस्याप्यदर्शनात् संशयबीजमपि नास्ति कुतो व्यभिचाराऽऽशङ्केत्युपन्न्यासः, ततो यदिदमुक्तं चोद्यपक्ष एवार्थान्तरापोहेन स्वार्थाभिधानमित्यत्रार्थान्तरं नामान्योऽर्थ इति यस्माद्भवति तस्मात्तत्तावद्विचार्यते-स किमन्योऽर्थः
स एव भवति विधिना अन्याख्योऽर्थ उच्यते ? उतान्यो न भवतीत्यपोहेन ? इति द्वयी कल्पना स्यात् । 10
तत्र यदि तावन्मतमन्य इति स एव भवतीति ततः तच्छब्दोत्पाद्यविज्ञानविषयत्वात् स इति शब्देन यद्विज्ञानं तस्य स्वार्थ एवान्याख्यार्थो विषयः संवृत्तः, ततश्च स्वार्थे तस्मिन्नव्यावृत्त्या विधिनैव प्रतिपन्ने किमपोहेन क्रियते ? अर्थप्रतीतेवृत्तत्वात् , अथापि स्यादन्यापोहेन प्रयोजनमित्थं तदा तस्मिन् विधिनाऽन्यविज्ञानकाले यद्यन्यो भवति ततः
स न भवति, अथ स भवत्यन्यो न भवतीत्यर्थादापन्नं तदन्ययोरुभयोरपि तत्त्वतश्च स्वत एव 10 सिद्धम् , तस्मात् स्यादप्यनयोरन्यापोहप्रत्ययः उपसर्जनो विधिर्न भवितुमर्हति, असत्योपाधि. सत्यशब्दार्थत्वात् , इत्थमन्यप्रतिपत्तिविधिरेव न व्यावृत्तिः।
- (तत्रेति) तत्र यदि तावन्मतमन्य इति स एवान्याख्यो भवतीति ततः स इति शब्देनोत्पद्यते यद्विज्ञानं तस्य विज्ञानस्य स्वार्थोऽभिधेय एवान्याख्यार्थो विषयः संवृत्तः स एव, ततश्च तस्मिन्नव्यावृत्याऽन्याख्येऽर्थे विधिनैव प्रतिपत्तेः किमन्यापोहेन क्रियते ? नार्थोऽपोहेनेत्यर्थः, कस्मात् ? अर्थप्रतीतेर्वृत्तत्वात् 20 अर्थप्रतीत्यर्थो हि शब्दप्रयोगः, अन्यापोहकल्पना च तदभिधानस्वरूपपरिज्ञानार्था तदर्थप्रतीतौ व्यर्था सा,
अथापि स्यादन्यापोहेन प्रयोजनमित्थं स्यात् , नान्यथा, तद्यथा-तदा तस्मिन् विधिनाऽन्यविज्ञानकाले यद्यन्यो यस्मात्तावदिति, शब्दस्यार्थाभिधानेऽन्वयव्यतिरेको द्वारमिति यदुक्तं तदेव न घटत इति भावः । दूषणं कारिकयाऽऽहभन्यापोहार्थेति, अन्यापोहरूपार्थस्य निर्मूलतयाऽसम्भवात्, शब्देन केनापि रूपेणार्थस्यानभिधानादभिधेयबहुत्वासम्भवेन संशयासम्भवात् व्यभिचाराभावाच्च श्रुतिसम्बन्धदौष्कर्यमिति भावः । तत्रान्यापोहार्थनमूल्यं दर्शयितुमाह-ततो यदिदमुक्त25 मिति, अर्थान्तरापोहेन खार्थाभिधानं त्वयोक्तं तत्रान्योऽर्थोऽर्थान्तरमुच्यते, अन्यश्वासावर्थः किं विधिरूपेण उत प्रतिषेधरूपेण प्रोच्यत इति भावः । तत्र प्रथम पक्षं दूषयितुमाह-तत्र यदि तावदिति । तद्व्याचष्टे-तत्र यदि तावन्मतमिति । यद्यन्याख्यार्थः स एव स्यात्तर्हि तच्छब्दजन्यविज्ञानविषयः अन्याख्योऽर्थः स एवाभिधेयो जातः स च नान्यव्यावृत्तो विधिना च प्रतिपन्न इति तत्प्रतिपत्त्यर्थोऽन्यापोहो निरर्थक इति भावः । अन्यापोहवेयर्थे हेतुमाह-अर्थप्रतीतेरिति, अर्थविषयप्रतिपत्तिजनकत्वप्रकारकेच्छाविषयत्वेन शब्दप्रयोगस्यान्यापोहव्यतिरेकेणापि शब्देनार्थविषयप्रतीते॥तत्वाद्वैयर्थ्यमिति भावः । 30 अन्यापोहप्रकल्पना च शब्दवाच्यार्थस्वरूपपरिज्ञानाय भचेत्, तढिनव तदर्थप्रतिपत्तौ तु तत्वल्पना व्यथेवेत्याह-अन्यापोहेति । एवमपि यद्यन्यापोहस्य प्रयोजन मिष्यते तर्हि वक्ष्यमाणप्रकारेणैव स्यादित्याह-अथापीति | शब्देनाभिधेये विधिना१क्ष. भाव इ. सि, भावत इ० । २ सि. क्ष. वैर्मल्मात् । ३ सि. ग्रंथस्या० क्ष. यथस्या० । सि. भ. नाव्याख्योऽर्थ ।
Jain Education International 2010_04.
For Private & Personal Use Only
www.jainelibrary.org