________________
श्रुतिसम्बन्धनिरासः ]
द्वादशारनयचक्रम्
wwwww
( अथेति ) अथ बहुषु पलाशादिष्वपि दृष्ट इति संशयो भवति, एवं सति वृक्षार्थे पार्थिवत्वद्रव्यत्वसत्तार्थाः सन्ति तेषु वृक्षशब्दस्य समानत्वात् संशयः स्यात्, निश्चयस्तु दृष्टः शब्दात्, वृक्षशब्दोऽवृक्षनिवृत्त्यैव[स्वः ]र्थकोऽपार्थिवव्यावृत्त्यापि स्वार्थे वर्तते तथापि वृक्षपार्थिवद्रव्यसच्छब्दा [आ] नुलोम्येन त्रिद्व्येकार्थनिश्चयहेतवः, एवमर्थान्तरव्युदासेनार्थान्तराभिधानमुपपन्नम्, न च सम्बन्धद्वारं मुक्त्वा शब्दस्येति यथा भेदाद्यनभिधानं पूर्वमुक्तं तद्दर्शयति-आह चेति, एतमेवार्थं लोकद्वयेनापि दर्शयति- ' बहुत्वेऽप्य - 5 मिधेयस्ये'ति, शिंशपादिभेदा अन्त्राभिप्रेताः, न द्रव्यादय:, तथा हि वृक्षवद्भेदेषु संशयो दृष्टः, अर्थतस्तु द्रव्यादिषु निश्चयः, 'स्वसम्बन्धानुरूप्यात्त्विति यस्मादसौ तज्जातीये दृश्यमानोऽर्थान्तरनिवृत्तिद्वारेणैव दृष्टोऽभिधायकः प्रागेवान्यत्रादृश्यमानः, तस्मात् सम्बन्धानुरूप्यात् तद्विशिष्टमेवार्थमाह, 'अनेकधर्मा शब्दोऽपि सामान्यधर्मैकगुणत्वादिभिः वृक्षार्थं तस्मिन् वस्तुनि नाभिधत्ते, तथा हि ते विनापि वृक्षार्थेन रसादिषु दृष्टाः, न तु वृक्षशब्दोऽन्यत्र दृष्टः, तस्माद्वृक्षशब्देनैव प्रत्यायनमनुपपन्नमित्युक्त्वा स्वपक्षसि - 10 द्धावुपपत्तिः पूर्वदोषाभावश्च यस्माच्छ्रुतेः सम्बन्धसौकर्य [म् ] बहुत्वेऽपि तुल्यातुल्ययोर्वृत्त्यवृत्ती सम्बन्धसौकर्यात् न चापि व्यभिचारिता भेदानभिधानात् एवं तावद्भेदानभिधाने येऽपि दोषा उक्ताः ते परिहृता इति अन्यापोहवादिपक्षः |
"
आचार्योप दूषणं वक्तुकामः प्राक् तावत् तत्र यदिदं श्रुतिसम्बन्धसौकर्यमुच्यत इति परिहारबीजमेव दूषयितुमाह
एतदयुक्तं यतोऽन्वयव्यतिरेकावपीह न घटेते, 'अन्यापोहार्थनैर्मूल्यात् स्वार्थस्यांशेऽप्यदर्शनात् । श्रुतेः सम्बन्धदौष्कर्यात् तथापि व्यभिचारिता ॥' ( ग्रन्थकृतः )
Jain Education International 2010_04
८७५
सति वृक्षशब्दस्यावृक्षनिवृत्तिरप्यर्थो न स्यात्, अवृक्षव्यावृत्तितदभावसहचरितत्वाद्वृक्षशब्दस्यावृक्षनिवृत्तिर्वाऽपृथिव्यादिनिवृत्तिर्वाऽर्थः स्यादिति संशय एव स्यात्, न तु दृष्टो निश्चयो भवेदिति भावः । एवञ्च वृक्षशब्दस्यावृक्षनिवृत्त्यैवार्थवत्त्वम्, अपृथिव्या दिव्यावृत्तिनिश्चयश्चार्थतः, अत एव वृक्षशब्दः पार्थिवद्रव्यसदर्थनिश्चय हेतुः पार्थिवशब्दो द्रव्यसदर्थनिश्चयहेतुः सच्छब्दः 20 सदर्थनिश्चयहेतुरित्याह-वृक्षशब्द इति । अर्थान्तरव्युदासेनार्थान्तराभिधानमपि स्वसम्बन्धिभ्योऽन्यत्रेत्यादिप्रकारेण सम्बन्धद्वारं मुक्त्वा न भवतीत्याशयेनाह - न च सम्बन्धद्वारमिति । ननु वृक्षशब्दवाच्येषु बहुषु पलाशादिषु वृक्षोऽयमिति प्रत्ययो दृष्टः, एषां मध्ये कतमो विवक्षित इति सामान्यात् संशयो भवतीत्याशङ्कते - बहुत्वेऽपीति, अभिधेयस्य बहुत्वादिति भावः । मेदशब्देन विवक्षितमाह - शिंशपादीति । द्रव्यादयः कुतो न विवक्षिता इत्यत्राह - अर्थतस्त्विति, अर्थापत्त्या द्रव्यादौ निश्चय एव भवति, वृक्षस्य द्रव्यादिनैयत्यादिति भावः । अर्थान्तरनिवृत्तिद्वारेणाभिधायकत्वमादर्शयति-यस्मादसाविति । वृक्षादिशब्दो 25 वृक्षजातीये दृश्यमानो घटादावन्यन्त्रादृश्यमानोऽवृक्षनिवृत्तिद्वारेणाभिधायको दृष्ट इत्यर्थः । यस्मात्तथा दृष्टस्तस्मादर्थान्तरनिवृत्तिविशिष्टमर्थ शब्द आहेत्याह- तस्मादिति । वृक्षशब्दोऽवृक्षनिवृत्तिविशिष्टमेवाह, न तु अपार्थिवत्वा दिव्य | वृत्तिविशिष्टम्, तज्जातीये दृश्यमानोऽन्यत्रादृश्यमानोऽर्थान्तरनिवृत्तिद्वारेणाभिधायक इति सम्बन्धानुरूपताया अभावादित्यादशयति- अनेकधर्मेति । ते - गुणत्वादयः, प्रत्यायनं - अपार्थिवादिव्यावृत्त्या वृक्षादिबोधनम् अर्थान्तरापोहेन स्वार्थाभिधानमिति खपक्षसिद्धौ सम्बन्धानुरूप्यतोपपत्तिः, आनन्त्यव्यभिचारादयः पूर्वदोषा भेदानभिधानेन परिहृता इति बोध्यम् । एतदेवादर्शयति - यस्माच्छ्रुतेरिति । 30 एबमन्यापोहवादिपक्षं प्रदर्श्य प्रथमं श्रुतिसम्बन्धसौकर्यं बीजभूतमेवाचार्यो दूषयति - तत्र यदिदमिति । तत्र कारणमाह
१ क्ष. ० । २ सि. क्ष. छा. वृक्षार्थी । ३ सि. क्ष. 'सिद्धानुपप० ।
For Private & Personal Use Only
15
www.jainelibrary.org