________________
mmmmmam
९०० न्यायागमानुसारिणीव्याख्यासमेतम्
[उभयनियमारे लक्षणत्वादव्यक्तश्रुतिवत् , यथा म्लेच्छप्रयुक्तशब्दार्थो व्यावृत्तिमात्रार्थत्वात् स्वार्थमात्रस्याप्यलक्षणात्, व्यर्थो हिस्तमिश्र[?]इत्यादि तथा वृक्षशब्दः स्यादिति।
तदर्थाभावप्रदर्शनार्थमाह
गुणसमुदायो हि वृक्षार्थः उक्तवत् , संवृतिसतः सामान्यसमुदायाख्यस्यासत्त्वात् विशे5षाणामृजुवक्रविवरकोटरादीनामवाच्यत्वात् तदेकलक्षणतापि नास्ति कुतः स्वार्थाद्भिन्नस्याभूतस्य प्रतिपत्तिः? अन्यस्य यतोऽपोहः सिद्ध्येत् , स तु नास्ति, तदभावात् , यश्च वृक्षशब्दस्तस्य वृक्षार्थाभावात् पक्षधर्मत्वाभावः, तत्कथं वृक्षार्थो नास्ति ? गुणसमुदायसंवृत्त्यर्थत्वात् सेनाशब्दवत् वृक्षशब्दस्य समुदायार्थवृत्तितैवेति चेन्न, अभ्युपगतमूलादीनां तदात्मत्वेनैकत्वे तदतुल्यत्वात्
वृक्षार्थस्य तुल्यातुल्यवृत्त्यवृत्त्यादिवचनवैयर्थ्यमेव ।। 10 गुणसमुदायो हीत्यादि, तस्मात्तद्वारेणानुमानासम्भव[ इति ] उक्तवदिति प्रागुक्तं तन्मतमेव
स्मारयति-संवृतिसतः सामान्यसमुदायाख्यस्यासत्त्वाद्विशेषाणामृजुवकविवरकोटरादीनामवाच्यत्वादिति, तस्मात्तदेकलक्षणताऽपि नास्ति कुत एव स्वार्थाद्भिन्नस्याभूतस्य प्रतिपत्तिः ? अन्यस्य यतोऽपोहः सिद्ध्येत् , स तु नास्त्यन्यः, तदभावात्-तत्प्रतिपत्तिनिश्चयलभ्यप्रतिपत्तिलभ्यो अन्यो नास्ति, तत्प्रतिपत्तिनिश्चयलभ्यो हि तुल्यातुल्यविवेकात्मेति, यश्च वृक्षशब्द इत्यादि, वृक्षार्थस्य पक्षस्याभावात् पक्षधर्मत्वाभावो वृक्षशब्द15 स्येति तद्भावनाग्रन्थः, तत्कथमित्यादि यावत् सेनाशब्दवदिसि गतार्थः, गुणसमुदायसंवृत्यर्थत्वादिति हेतुः, वृक्षशब्दस्य समुदायार्थवृत्तितैवेति चेत्-स्यान्मतं वृक्षशब्दः समुदायेनार्थेनार्थवान्, मूलादीनाञ्च समुदायो वृक्ष उच्यते, तस्मात् समुदायार्थवत्त्वाददोष इत्येतच्च न, अभ्युपगतेत्यादि, अभ्युपगतानां मूलादीनां तदात्मपक्षधर्ममात्रस्यापीति । दृष्टान्तमाह-अव्यक्तश्रुतिवदिति, असंस्कृतपुरुषप्रयुक्तशब्दवदित्यर्थः । वृक्षशब्दस्य स्वार्थाभावमेव
दर्शयति-गुणसमुदायो हीति । तुल्ये वृत्तिस्वरूपान्वयद्वारेणानुमानासम्भवः पूर्वमुक्तस्तन्मतमेवोक्तवदिति स्मारयतीत्याह-तस्मा20 दिति। अर्थस्यानन्त्यात्तुल्ये सर्वत्र वृत्तेराख्यानासम्भवादित्यर्थः । वृक्षादयोऽर्था गुणसमुदायरूपाः समुदायः सामान्यमिति पर्यायौ,
समुदायो न परमार्थभूतो गुणेभ्यो व्यतिरिक्तः, अवयविवादापत्तेः, स्थैर्यवादापत्तेश्च, किन्तु स्थिरत्वेन व्यतिरिक्तत्वेन चानादिवासनापरिकल्पितत्वात् केवलं संवृत्यैव सन् , अत एव परमार्थतोऽसन् , गुणभूता ऋजुवककोटरादयो न केनचित् प्रमाणेन बाध्यन्त इति त एव परमार्थसन्तः तेषाचानन्त्येनावाच्यत्वं नहि वृक्षशब्देन ऋजुवकादय उच्यन्ते, तस्मादृक्षार्थाभावात् पक्षमात्रस्य वृक्षस्य धर्मो वृक्षशब्द इति पक्षवृत्तित्वरूपैकलक्षणताऽपि नास्तीति स्वार्थस्यैवाप्रतिपत्त्या कुतस्तदन्यस्य प्रतिपत्तिर्यस्मादपोहः स्यादित्याह25 संवृतिसत इति । अन्यस्तु नास्ति, स्वार्थाभावात् , खार्थप्रतिपत्तिजन्यप्रतिपत्तिविषयोऽन्यो नास्ति, ततोऽपोहोऽपि नास्ति,
खार्थतदन्यप्रतिपत्तावेव हि सपक्षस्तुल्योऽसपक्षोऽतुल्य इत्येवं विवेकः कर्तुं शक्यते नान्यथेति व्याचष्टे-स तु नास्तीति। वृक्षशब्दस्य पक्षधर्मत्वाभावं भावयति-वृक्षार्थस्येति । गुणसमुदायेति, अवयवसमुदाय एव संवृतिविषयीभूतोऽर्थः शब्दस्य, अनादिकालीनवासनाप्रभवविकल्पप्रतिभास्यर्थस्यैव विषयत्वेन शब्दैरात्मसात्करणात् , समुदायस्य चासत्त्वादिति भावः । समुदायः सन्नसन्
वा भवतु, किन्तु समुदायस्य प्रतिभासमात्, प्रतिभासमानार्थ प्रतिपिपादयिषया च शब्दप्रयोगात् समुदाय एव शब्दस्यार्थ इति 30 न वृक्षशब्दस्य स्वार्थाभावाद्व्यर्थतेत्याशङ्कते-वृक्षशब्दस्येति । व्याचष्टे-स्यान्मतमिति। मूलादीनां समुदायो वृक्षपदार्थः, समुदायसमुदायिनोश्चाभेदः, अतो मूलादीनां वृक्षात्मकत्वमिति मूलादयः सपक्षाः साध्यधर्मसामान्येन समानत्वात् , अत एव सपक्षादन्यत्वरूपः पक्षश्च, मूलादयः पारमार्थिकसन्तः वृक्षस्तु समुदायरूपत्वात्संवृतिसन् तस्मात् सपक्षादतुल्यो वृक्षार्थः, वृक्षशब्दस्य च अतुल्यवृत्तित्वाव्यभिचारात् तुल्ये वृत्तिरतुल्ये चावृत्तिरित्यादिविभागवचनं व्यर्थमेवेत्याह-अभ्युपगतानामिति । ननु सेनेत्युक्ते
_Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org