Book Title: Dvadasharnaychakram Part 3
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 329
________________ ८९८ न्यायागमानुसारिणीव्याख्यासमेतम् [उभयनियमारे वसिद्धिः, हेतुतदाभासव्यवस्थानियमस्य पक्षादिव्यवस्थाश्रयत्वात् , पक्ष एव तावदव्यवस्थितः, उभयतोऽप्यभवनपरमार्थत्वादित्युक्तत्वात् , सपक्षस्त्वनन्तरन्यायो नास्ति, असपक्षस्तु स एव पक्षः त्वन्मताभ्युपगमात् स्यात् सपक्षाभवामात्रत्वात्, इतरथा नैव स्यादुक्तवदेव, तस्माद्धेत्वपवादनियमादसपक्षवृत्तिगतदोषापत्तिस्तदवस्थैव, आपत्त्यभ्युपगमे त्वित्यादि, यद्येवमापत्तिदोषमभ्युपैष्यसपक्षवृत्तिगतं ततोऽन्यापोहान्यथात्वं दोषः5 अन्यापोहोऽपि त_न्याभावात्तदपोहाभावाच्च स्वार्थापोह एव स्यात्, कस्मात् ? सपक्षावच्छिन्नस्यापि सपक्षत्वात्-पक्षादन्यः सपक्षः, ततोऽवच्छिन्नोऽसपक्षो वा स एव पक्षः, ततः[स]पक्षादन्यः पक्ष एंव पक्षादन्यः, सपक्षादन्यत्वात्, ततोऽन्यापोहः पक्षापोहः स्वार्थापोह इत्यापन्नः। किश्चान्यत् सपक्षापक्षेपणक्षीणशक्तेश्च पक्षापक्षयोर्विशेष गमयितुं नालम्, साध्यनिर्देशवत्, तद्विषय10 पक्षधर्मत्वादेव तुल्ये वृत्तिरिति चेत् , अननुमानं तर्हि शब्दोऽद्विलक्षणत्वात्, असाधारणवत् विरुद्धोऽपि तद्विषयमात्रार्थत्वादन्यापोहशब्दार्थत्वस्य, व्यतिरेकस्य स्वार्थासम्भवादपि व्यर्थतैव वा, पक्षमात्रस्याप्यलक्षणत्वात्, अव्यक्तश्रुतिवत् ।। mom इति युक्तम्, तत्र तत इत्यनेन त्रिलक्षणयुतस्य हेतोरेव ग्रहणात्तझ्यवस्थाधीनत्वं हेत्वाभासस्य, 'अनुमेयेऽथ तत्तुल्ये सद्धावो नास्तिताऽसति । निश्चितानुपलम्भाऽऽत्मकार्याख्या हेतवस्त्रयः ।' पक्षसत्त्वसपक्षसत्त्वविपक्षासत्त्वरूपौलक्षण्ययुतो हेतुरुक्तः, 15 तस्मात् पक्षादिव्यवस्थाश्रया हेतुतदाभासव्यवस्थेति भावः। इत्थं तद्व्यवस्थायां तव मतेन पक्ष एव न व्यवस्थितः, स्वान्ययोर्न भवति न भवतीत्यभावविषयत्वेनाभवनपरमार्थत्वात् तयोरभावेन तस्यैव चाभावस्यान्यापोह निबंधनत्वान्न कश्चिच्छब्दार्थ इति पक्षाव्यवस्थेत्याशयेनाह-पक्ष एव तावदिति । सपक्षोऽपि नास्ति, वृक्षाणां पक्षत्वस्योक्तत्वादित्याह-सपक्षस्त्विति । सपक्षाभावरूपोऽसपक्षः पक्ष एव, स चाव्यवस्थित इत्याह-असपक्षस्त्विति. साध्यधर्मसामान्येन समानः सपक्षभिन्नः पक्षव्यतिरिक्तश्च नास्ति कश्चित्, सपक्षादन्यः किन्तु पक्ष एवासपक्षः, यदि स्यात् सपक्षादन्यः सोऽप्यभवनपर20 मार्थत्वादसन्नेवेति भावः । भवत्वसपक्षवृत्तिगतदोषापत्तिरित्युच्यते तर्हि अन्यापोहस्यान्यथात्वं स्यात् , यथा त्वयाऽन्यापोह इप्यते तद्विपरीतार्थो भवेदित्याह-यद्येवमिति, अन्यत्वं हि पक्षादन्यः सपक्षः, सपक्षादन्यः पक्ष इत्युभयं विषयीकरोति, सपक्षस्य पक्षादन्यत्वात् पक्षस्य सपक्षादन्यत्वाच्च, पक्षसपक्षयोद्वयोः स्वरूपतो ग्रहणाभावेऽन्यत्वस्य तन्निष्ठस्याग्रहात् कोऽसौ पक्षादन्यो यदपोहादन्यापोहः सपक्षापोहः सिद्ध्येत् , कस्माद्वा सपक्षोऽन्यः, यतोऽन्यस्यान्यत्वं सिद्धयेत् , तदेवं परस्परापेक्षया परस्परस्यान्यत्वे च पक्षोऽप्यन्यो न भवति, सपक्षोऽप्यन्यो न भवतीत्युभयतोऽयभवनमेव परमार्थः स्यादित्यादिरूपतोऽन्यापोहः स्वार्थापोहो भवतीति 26 भावः । कथमन्यापोहः स्वार्थापोह इत्यत्राह-सपक्षेति । प्रथममन्यापोहं दर्शयति-पक्षादम्य इति, पक्षादन्यः सपक्षो भवति तघ्यावृत्तश्च पक्षो भवतीति भावः । तदन्यथात्वमाह-ततःसपक्षादन्य इति, पक्ष एव पक्षादन्यः स्यात् , तस्य सपक्षादन्यत्वात्, तथा चान्यशब्देन पक्षग्रहणात् पक्षापोह एवान्यापोहः संवृत्तः स तु स्वार्थापोह एव नान्यापोहः परापोहरूपस्त्वदिष्ट इति भावः । किञ्च पक्षशब्दोऽपक्षनिवृत्तिमात्रं विधत्ते न तु पक्षं गमयितुं समर्थः, तत्रैव पक्षशब्दसामर्थ्यस्यापक्षीणत्वादित्याह-सपक्षापक्षे. पणेति । असपक्षशब्दस्य यः प्रतिपक्षः सपक्षस्तस्यापक्षेपणे शक्तेः क्षीणत्वात् सपक्षव्यावृत्तिमात्रे वृत्तेन तव्यावृत्तं पक्षं अपक्षं वा .सि. क्ष. छा. तस्माद्धे त्वादिरिति । २ सि.क्ष. छा. डे. भपत्हन भ्युः। ३ सि. क्ष. डे. छा. °भ्युपेत्य७० ७क्ष. एवऽप०। Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430