Book Title: Dvadasharnaychakram Part 3
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 331
________________ mmmmmam ९०० न्यायागमानुसारिणीव्याख्यासमेतम् [उभयनियमारे लक्षणत्वादव्यक्तश्रुतिवत् , यथा म्लेच्छप्रयुक्तशब्दार्थो व्यावृत्तिमात्रार्थत्वात् स्वार्थमात्रस्याप्यलक्षणात्, व्यर्थो हिस्तमिश्र[?]इत्यादि तथा वृक्षशब्दः स्यादिति। तदर्थाभावप्रदर्शनार्थमाह गुणसमुदायो हि वृक्षार्थः उक्तवत् , संवृतिसतः सामान्यसमुदायाख्यस्यासत्त्वात् विशे5षाणामृजुवक्रविवरकोटरादीनामवाच्यत्वात् तदेकलक्षणतापि नास्ति कुतः स्वार्थाद्भिन्नस्याभूतस्य प्रतिपत्तिः? अन्यस्य यतोऽपोहः सिद्ध्येत् , स तु नास्ति, तदभावात् , यश्च वृक्षशब्दस्तस्य वृक्षार्थाभावात् पक्षधर्मत्वाभावः, तत्कथं वृक्षार्थो नास्ति ? गुणसमुदायसंवृत्त्यर्थत्वात् सेनाशब्दवत् वृक्षशब्दस्य समुदायार्थवृत्तितैवेति चेन्न, अभ्युपगतमूलादीनां तदात्मत्वेनैकत्वे तदतुल्यत्वात् वृक्षार्थस्य तुल्यातुल्यवृत्त्यवृत्त्यादिवचनवैयर्थ्यमेव ।। 10 गुणसमुदायो हीत्यादि, तस्मात्तद्वारेणानुमानासम्भव[ इति ] उक्तवदिति प्रागुक्तं तन्मतमेव स्मारयति-संवृतिसतः सामान्यसमुदायाख्यस्यासत्त्वाद्विशेषाणामृजुवकविवरकोटरादीनामवाच्यत्वादिति, तस्मात्तदेकलक्षणताऽपि नास्ति कुत एव स्वार्थाद्भिन्नस्याभूतस्य प्रतिपत्तिः ? अन्यस्य यतोऽपोहः सिद्ध्येत् , स तु नास्त्यन्यः, तदभावात्-तत्प्रतिपत्तिनिश्चयलभ्यप्रतिपत्तिलभ्यो अन्यो नास्ति, तत्प्रतिपत्तिनिश्चयलभ्यो हि तुल्यातुल्यविवेकात्मेति, यश्च वृक्षशब्द इत्यादि, वृक्षार्थस्य पक्षस्याभावात् पक्षधर्मत्वाभावो वृक्षशब्द15 स्येति तद्भावनाग्रन्थः, तत्कथमित्यादि यावत् सेनाशब्दवदिसि गतार्थः, गुणसमुदायसंवृत्यर्थत्वादिति हेतुः, वृक्षशब्दस्य समुदायार्थवृत्तितैवेति चेत्-स्यान्मतं वृक्षशब्दः समुदायेनार्थेनार्थवान्, मूलादीनाञ्च समुदायो वृक्ष उच्यते, तस्मात् समुदायार्थवत्त्वाददोष इत्येतच्च न, अभ्युपगतेत्यादि, अभ्युपगतानां मूलादीनां तदात्मपक्षधर्ममात्रस्यापीति । दृष्टान्तमाह-अव्यक्तश्रुतिवदिति, असंस्कृतपुरुषप्रयुक्तशब्दवदित्यर्थः । वृक्षशब्दस्य स्वार्थाभावमेव दर्शयति-गुणसमुदायो हीति । तुल्ये वृत्तिस्वरूपान्वयद्वारेणानुमानासम्भवः पूर्वमुक्तस्तन्मतमेवोक्तवदिति स्मारयतीत्याह-तस्मा20 दिति। अर्थस्यानन्त्यात्तुल्ये सर्वत्र वृत्तेराख्यानासम्भवादित्यर्थः । वृक्षादयोऽर्था गुणसमुदायरूपाः समुदायः सामान्यमिति पर्यायौ, समुदायो न परमार्थभूतो गुणेभ्यो व्यतिरिक्तः, अवयविवादापत्तेः, स्थैर्यवादापत्तेश्च, किन्तु स्थिरत्वेन व्यतिरिक्तत्वेन चानादिवासनापरिकल्पितत्वात् केवलं संवृत्यैव सन् , अत एव परमार्थतोऽसन् , गुणभूता ऋजुवककोटरादयो न केनचित् प्रमाणेन बाध्यन्त इति त एव परमार्थसन्तः तेषाचानन्त्येनावाच्यत्वं नहि वृक्षशब्देन ऋजुवकादय उच्यन्ते, तस्मादृक्षार्थाभावात् पक्षमात्रस्य वृक्षस्य धर्मो वृक्षशब्द इति पक्षवृत्तित्वरूपैकलक्षणताऽपि नास्तीति स्वार्थस्यैवाप्रतिपत्त्या कुतस्तदन्यस्य प्रतिपत्तिर्यस्मादपोहः स्यादित्याह25 संवृतिसत इति । अन्यस्तु नास्ति, स्वार्थाभावात् , खार्थप्रतिपत्तिजन्यप्रतिपत्तिविषयोऽन्यो नास्ति, ततोऽपोहोऽपि नास्ति, खार्थतदन्यप्रतिपत्तावेव हि सपक्षस्तुल्योऽसपक्षोऽतुल्य इत्येवं विवेकः कर्तुं शक्यते नान्यथेति व्याचष्टे-स तु नास्तीति। वृक्षशब्दस्य पक्षधर्मत्वाभावं भावयति-वृक्षार्थस्येति । गुणसमुदायेति, अवयवसमुदाय एव संवृतिविषयीभूतोऽर्थः शब्दस्य, अनादिकालीनवासनाप्रभवविकल्पप्रतिभास्यर्थस्यैव विषयत्वेन शब्दैरात्मसात्करणात् , समुदायस्य चासत्त्वादिति भावः । समुदायः सन्नसन् वा भवतु, किन्तु समुदायस्य प्रतिभासमात्, प्रतिभासमानार्थ प्रतिपिपादयिषया च शब्दप्रयोगात् समुदाय एव शब्दस्यार्थ इति 30 न वृक्षशब्दस्य स्वार्थाभावाद्व्यर्थतेत्याशङ्कते-वृक्षशब्दस्येति । व्याचष्टे-स्यान्मतमिति। मूलादीनां समुदायो वृक्षपदार्थः, समुदायसमुदायिनोश्चाभेदः, अतो मूलादीनां वृक्षात्मकत्वमिति मूलादयः सपक्षाः साध्यधर्मसामान्येन समानत्वात् , अत एव सपक्षादन्यत्वरूपः पक्षश्च, मूलादयः पारमार्थिकसन्तः वृक्षस्तु समुदायरूपत्वात्संवृतिसन् तस्मात् सपक्षादतुल्यो वृक्षार्थः, वृक्षशब्दस्य च अतुल्यवृत्तित्वाव्यभिचारात् तुल्ये वृत्तिरतुल्ये चावृत्तिरित्यादिविभागवचनं व्यर्थमेवेत्याह-अभ्युपगतानामिति । ननु सेनेत्युक्ते _Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430