Book Title: Dvadasharnaychakram Part 3
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 338
________________ अनुमानाप्रामाण्यम् ] द्वादशारनयचक्रम् ९०७ यच्च धूम इत्यादि, समासदण्डको यावद्गुणसमुदायोऽसौ नाग्निदेशौ नाम कौचिदपि स्त इति तमेव तदुक्तन्यायं दर्शयति, तज्ज्ञानाभ्यां त्विति-अग्निदेशज्ञानाभ्यां तदर्थाध्यारोपणेनेत्यादिना तमेवाशेषमतीतं ग्रन्थमतिदिशति यावदन्योपादानमात्मनश्च त्याग इति ग्रन्थावधिश्च दर्शयति समानप्रचर्चत्वादिति, एवं तावत् पक्षधर्मस्य चानुपपत्तिाख्याता, किं भवदेव भवति ? उताभवत् अन्यापोहश्च mm गुणसमुदायपरमार्थश्च स्वार्थ इत्यादिविकल्पैरात्मापोहात् सपक्षासपक्षयोरप्येवमेवेत्यतिदिशति-तैरेव विकल्पै- 6 विचार्यमाणयोः सपक्षासपक्षयोरप्यभावात्-सपक्षासपक्षावपि भवन्तावेव भवतः ? उताभवन्तावन्यापोह्यौ गुणसमुदायस्वार्थों वेत्यादिविकल्पैरात्मापोह इति समानत्वात् , आ-कुत आरभ्य ग्रन्थ इति चेदुच्यते किम[न्य त्वेन सामान्यभेदपर्यायवाच्युत विधिः, नन्वित्येतस्माद्न्थावधेरारभ्य ततो ग्रन्थो योज्यः, कियदवधेरिति चेदुच्यते इयद स्मिन्नन्तरे यावदात्मनश्चेत्येतस्य ग्रन्थस्योपर्युपसंहारग्रन्थः प्रागुक्तन्यायप्राण एव, यथा कृतकत्वादेः न पक्षोऽनित्यः शब्दोऽग्निरत्रेति वा स्वार्थपरार्थयोतेनैव न्यायेन न पक्षोऽग्निविशिष्टो देशोऽनित्यत्व- 10 विशिष्टः शब्दो वाऽन्योपोहवादिनः, न भवति न भवतीत्यभवनपरमार्थत्वादुभयतोऽप्यभावमात्रत्वात् तस्मिंश्चासति प्रदेशशब्दादिधर्मिणि पक्षे कुतस्तस्य पक्षधर्मः ? इति पक्षधर्मों न स्तः, एवं नास्य सपक्षो नासपक्ष इति तथा भावितार्थमेव बहुधा, एवमनुमानमप्रमाणमेव, अतत्तत्प्रत्ययात्मकत्वात् , अलातचक्रधीवदिति, पक्षसपक्षासपक्षव्यवस्थानाद्धि त्रैलक्षण्यव्यवस्था ततश्चानुमानप्रामाण्यम् । ...............[१] स्पष्टमन्यत् । अथ पक्षधर्माद्यनुपपत्तिमाह-यच्चेति । समासदण्डक इति, ग्रन्थोऽत्रास्पष्ट इति न व्याख्यायते । 15 अग्नितदाधारदेशस्य च धूमवद्गुगसमुदायरूपतयाऽसत्त्वात् पक्षधर्माद्यनुपपत्तिरिति भावः प्रतिभाति । नन्वमिदेशज्ञानयोरनिदेशावमेदेन प्रतीयेते, तस्मात्तत्र तावध्यारोप्येते, यथा स्वरूपं शब्दोऽर्थात्मसु अध्यारोपयति अयमों गौरिति चेन्न, अविद्यमानतद्रूपत्वेनाध्यारोपासम्भवात् , अनग्निव्यावृत्त्यादितोऽम्यादीनामाक्षेपोऽपि न सम्भवति, आक्षेपे हि यद्यव्यभिचारो निबन्धनं तर्हि द्रव्यत्वादीनप्याक्षिपेत्, अतद्भेदत्वाच्च नाक्षेपः, न ह्यनग्निव्यावृत्त दोऽम्यादय इत्यादिदोषप्रसङ्गेनान्यापोहकृष्छ्रतिरिति लक्षणस्यापवाद आरभ्यते त्वया शब्दान्तरार्थापोहं हि स्वार्थे कुर्वती श्रुतिरभिधत्त इति, इदमपि वचन- 20 मनिर्वाहकमेव, सामान्यादिशब्दान्तरार्थापोहानिष्टेः, तस्मात्त्यक्तोऽन्यापोहः, अनिष्टविधिशब्दार्थत्वप्रसङ्गश्चेत्याद्युक्तमत्र भाव्यमित्यतिदिशति-अग्निदेशज्ञानाभ्यामिति । तदेवमन्यापोहाभावादपक्षो न भवतीत्येवं रूपस्य पक्षार्थस्याभावेन पक्षधर्मोऽप्यनुपपन्न इत्याह-एवं तावदिति । अर्थान्तरापोहेन स्वार्थमभिधत्त इति मताश्रयेणानुपपत्तिमाह-किं भवदेव भवतीति, उक्तपक्षद्वयविचारेणार्थान्तरापोहासम्भवो गुणसमुदायपरमार्थत्वात् खार्थासम्भव इत्यादिप्रागुदितविकल्पैः पक्षाद्यपोह इति भावः । अनेनैव न्यायेन सपक्षासपक्षावपि न स्त इत्याह-सपक्षासपक्षयोरिति । अतिदिश्यमानग्रन्थारम्भमर्यादामाह-कुत 25 आरभ्येति, किं त्वं मन्यसे अन्यत्वे न सामान्यमेदपर्यायवाची वृक्षशब्दः, अविरोधात् , विरोधाच्च पटादीनपोहते इत्याशका नन्विदमेव विधिना वाचकत्वेऽनुमानमित्यादि पूर्वोदितग्रन्थमारभ्येत्यर्थः । पर्यन्तावधिमाह-इयदिति । नन्वेवं कृतकत्वाद्यनुमान स्वार्थमात्मापोहेन नाशयेदेव, अन्यापोहेन स्वार्थप्रतिपत्त्यगमकत्वात् , अन्यापोहशब्दार्थवदिति खार्थानुमानेऽनित्यः शब्द इति न पक्षः, अग्मिरत्र धूमादिति पराथोनुमानेऽग्निरत्रेति च न पक्षः, अभवन परमार्थत्वात् , तस्माच्छब्दप्रदेशयोरभावे कृतकत्वधूमयोः कथं पक्षधर्मत्वमित्याह-यथा कृतकत्वादेरिति । एवं सपक्षासपक्षावपीत्याह-एवं नास्येति । एवञ्च पक्षाद्यत-30 थार्थत्वादतस्मिंस्तदिति प्रत्ययात्मकत्वादनुमानमप्रमाणमेव, अलातचके चक्रमिति प्रत्ययवदिति दर्शयति-एवमिति । व्यवस्थिते हि पक्षादौ लिङ्गे त्रैलक्षण्यसम्भवादनुमान प्रमाणं स्यात् , न चैवं तस्मादप्रमाणमेवेति भावः । अतः परं कियान् ग्रन्थस्युटित इव सि.क्ष.छा.डे. तं ज्ञान ।२ सि.क्ष. छा. डे. भवनानैव भवत उताभवत्तावन्यावन्यापोह्यौ। ३ सि.क्ष.छा.हे. यवाध्यनुत् विधिः । ४ सि.क्ष. छा. डे. 'भ्यातातो ग्र०। ५ सि.क्ष. छा. डे. प्रामाण्यमविशिष्टत्वेन स्वमात्मनैबा। Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430