Book Title: Dvadasharnaychakram Part 3
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 339
________________ ९०८ न्यायागमानुसारिणीव्याख्यासमेतम् [उभयनियमारे प्रत्यक्षाग्निसामान्यसाध्यत्वे सपक्षाभावादसाधारणत्वमत्रेत्यभिधानवैयर्थ्यश्च स्यात् , तन्माभूदित्यत्रशब्दवाच्यस्यामिविशिष्टस्य धूमविशिष्टत्वेन स्वयमात्मनैवाऽऽत्मनः साध्यत्वात् साधनत्याच्च लिङ्गित्वं लिङ्गत्वञ्चेत्यत आह अत्रेत्यभिधेयस्य लिङ्गित्वाल्लिङ्गत्वाच्चाग्निमद्धमवत्तयोश्च विभागविवक्षायां साध्यसाधनधर्मभावाल्लिङ्गिनि लिङ्गस्यासम्भवो न सम्भवति, तयोस्तत्रैव प्रधानोपसर्जनभावेन परस्परं नियतभावत्वात् , तौ देशस्यैकस्य भेदविवक्षायां साध्यसाधने भवतः। अत्रेत्यभिधेयस्य लिङ्गित्वात् [ लिङ्गत्वाश्च ] अग्निमद्भूमवत्तयोश्च विभागविवक्षायां साध्यसाधनधर्मभावादिति, स एव हि प्रदेशोऽग्निमत्त्वेन साध्योऽप्रत्यक्षाग्निकत्वात् धूमवत्त्वेन साधनं प्रत्यक्षधूमकत्वात् तस्माद्विशिष्टदेशसाध्यसाधनधर्मभावात्-लिङ्गिनि साध्ये लिङ्गस्य साधनस्यासम्भवो न सम्भवति 10 सम्भव एव सम्भवतीत्यर्थः कस्मात् ? तयोस्तत्रैव प्रधानोपसर्जनभावेन परस्परं नियतभावत्वात्-अग्निः प्रधानं धूमनिर्वृत्ती, धूमस्याग्निपरिणामत्वात् तन्निर्वर्त्यत्वात् धूम उपसर्जनं अग्निनिर्वृत्तौ, तत्परिणामत्वाभावात्-अतन्निर्वय॑त्वात् , धूमः प्रधानम् अग्निगतौ तल्लिङ्गत्वात् , तमन्तरेणानिवृत्तेः-अनुपपत्तेः अविनाभावात् , उपसर्जनमग्निः, धूमगतावप्रत्यक्षत्वात्तत्कालदेशयोः, अन्यथा भवत्येवेत्युक्तत्वात् , तेनान्योऽन्य प्रधानोपसर्जनभावेन नियमेन भवन्तौ तौ-अग्निधूमाख्यौ देशस्यैकस्य भेदविवक्षायां साध्यसाधने भवतः । 15 तव्याख्या अग्निमत्पक्षोपरि विचिकित्सायां................ ...तत्सम्बन्धिमत्प्रतिपत्तिश्च, यदि च तस्य देशस्य..................... तयोरेकवस्तुधर्मत्वात्, न चेदिच्छसि ततो नासम्भवभाति । प्रत्यक्षेति, अग्निरत्र धूमादित्यत्र नाग्निसामान्यं साध्य, प्रतीतत्वात् , सपक्षाभावात्, अत्रपदवैयर्थ्याच्च, नापि धूमो हेतुः, अग्निमद्देशेन सहाविनाभावासम्भवादतः प्रत्यक्षविषयीभूतधूमाधारप्रदेशात् परोक्षभूतोऽग्याधारप्रदेशः साध्यते, 20 तस्मात्तस्यैव देशस्य साध्यत्वं साधत्वञ्चेति भावः । इममेव साध्यासाधनभावमाह-अत्रेत्यभिधेयस्येति, एतत्प्रदेशस्यानिमत्त्वेन विवक्षायां तद्रूपेण तस्याप्रत्यक्षत्वात् साध्यत्वम्, धूमवत्त्वेन विवक्षायाञ्च तद्रूपेण तस्य प्रत्यक्षत्वात् साधनत्वम् , तस्मात् सर्वत्र लिजिनि लिङ्गस्य नासम्भव इति भावः । हेतुमाह-तयोरिति, विशिष्टदेशस्य साध्यसाधनभावादेव अग्निधूमयोः साध्यसाधनभाव इति भावः । हेतुं व्याचष्टे-अग्निः प्रधानमिति, धूमोत्पत्तावग्निः प्रधानम् , धूमो हि अग्नेः परिणामः, अग्निश्च धूमनिवृत्ती योग्य इति भावः । धूम इति, अग्निनिर्वृत्तौ धूमो गौणः, नहि धूमपरिणामोऽग्निः, अग्निनिर्वृत्तियोग्यत्वाभावादिति भावः । कार्यकारणभावाश्रयेग प्रधानोपसर्जनभावमुक्त्वा ज्ञाप्यज्ञापकभावाश्रयेण तमाह-धूमः प्रधानमिति, अग्निज्ञानज्ञापकत्वात् , अग्निना विना धूमस्यानुत्पत्तेः, अनुपपन्नत्वाच्चाम्यविनाभावादिति भावः । उपसर्जनमग्निरिति, धूमे ज्ञातेऽपि तस्याप्रत्यक्षत्वात् तद्विशिष्टदेशकालयोरपि तथात्वादिति भावः । तदेवं प्रधानोपसर्जनभावनियमेन देशस्यैकस्यैव अग्निमद्धमवत्तया भेदविवक्षायां साध्यसाधनभावो भवत इत्याह-तेनान्योऽन्येति, लोके हि प्रदेश एवाग्निः प्रतिपद्यते, देशकालाद्यपेक्षयैव कार्यहेतुर्गमकः, यत्र यदा धूमः तत्र तदा ह्यग्निः साध्यते, न त्वग्निशून्यदेशे भस्मकाले वा, अन्यथा हेतुर्व्यभिचारी स्यात्, तस्माद्देशाद्यपेक्षया 30 धूमवत्तयाऽग्निसाधने गृह्यमाणस्य देशस्य साध्यता न विरुद्ध्यत इति भावः। तदेव व्याचष्टे-अग्निमदिति । पूर्व मयोदितक्रमण १ सि. क्ष. छा. डे. साध्ये प्रत्यक्षाग्निसामान्यसाध्यत्वे सपक्षाभावादसाधारणत्वमत्रेत्यभिधानवैयर्थं च स्यात्तन्माभूदित्यत्रशब्दवाच्यस्याग्निविशिष्टस्य धूमविशिष्टत्वेन स्वयमात्मनैवात्मनः साध्यत्वात् साधनत्वाञ्च लिङ्गित्वं लिङ्गत्वं चेत्यत आह अत्रेत्यभिधेयस्य लिङ्गित्वादग्निममवत्तयोश्च विभागविवक्षायासाध्यसाधनधर्माभावादिति,स एव हि प्रदेशोऽग्निमत्वेन साध्यो प्र०॥ Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430