Book Title: Dvadasharnaychakram Part 3
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 333
________________ www mmmmmmm ९०२ न्यायागमानुसारिणीव्याख्यासमेतम् [उभयनियमारे अथवा शब्दस्याप्रामाण्यं प्रतिपन्नमेव त्वया, यस्मादेतत्त्वन्मतानुसार्येव ज्ञापकं 'शास्त्रेषु प्रक्रियाभेदैः' (वाक्य० का० २, श्लो० २३५) इत्यादिश्लोको गतार्थः, एवं सर्वत्रातुल्य इत्यादि लिङ्गवच्छब्दोऽनुमानं भवति प्रमाणमेव वा नभवतीत्युक्तस्यार्थस्य यथाप्रतिज्ञं प्रतिपादितस्योपसंहारः । प्रोक्तार्थक्रमसङ्ग्रहात्मकेन लिङ्गमपि शब्दवन्न भवतीत्युपपादयिष्यामीत्यत आह - 6 शब्दवत्तु लिङ्गाद्वैलक्षण्यमेव स्यादनुमानत्वात् , अननुमानं वाऽद्विलक्षणत्वादसाधारणवत्, अन्वयव्यतिरेकाभावात् पक्षधर्मत्वमानं विरुद्धवत्, सपक्षवृत्त्यभावात्, किमुक्तं भवति अन्यत्र वृत्त्यसम्भवात्, अत एवान्वयाभावाव्यतिरेकव्यापारावकाशाभावस्तस्मादेकलक्षणं शब्दवदिति, सन्निधानमप्यनुमानत्वार्थप्रतिपत्तावकारणम्, तावन्तरेणापि तदुपपत्तेः, साध्यधर्मसाधनव्याप्तिवत्, ततस्तयोरकारणत्वात् पक्षधर्मत्वमात्रकारणत्वादेकलक्षणं शब्द10 वल्लिङ्गमपि, अनुमानत्वात्, एकलक्षणत्वाच्च विरुद्धमपि, उक्तवत् । __ शब्दवत्तु लिङ्गाद्वैलक्षण्यमेव स्यादित्यादि, प्रथममेव तावदनुमानत्वाच्छब्दव[द]द्वि. लक्षणं लिङ्गमिति साधयति, ततोऽद्विलक्षणत्वादसाधारण[वत् ]इत्यादि यदुक्तमनन्तरं शब्दे दोषजातं तत्सर्वं लिङ्गस्य शब्दवदित्येवोक्तक्रमेण ज्ञेयमेकलक्षणत्वम् , अन्वयव्यतिरेकाभावात् पक्षधर्मत्वमानं विरुद्धवदिति शब्दे यदुक्तं तल्लिङ्गे, अस्य व्याख्या-सपक्षवृत्त्यभावात्, किमुक्तं भवति-अन्यत्र वृत्त्यसम्भवात् 16 पक्षादन्यत्रावृत्तेरित्यर्थः, अत एवान्वयाभावाद्व्यतिरेकव्यापारावकाशाभावः, तस्माद्व्यतिरेकव्यापारावकाशाभावात् एकलक्षणं शब्दवदिति लिङ्गमपि शब्दस्येवैकलक्षणं प्रागुक्तं विरुद्धवदन्वयव्यतिरेकाभावादिति, सैन्निधानमप्यनुमानत्वार्थप्रतिपत्तावकारणम् , तावन्तरेणाप्यनुमानत्वोपपत्तेः विनापि ताभ्यामर्थगतेस्तयोः विकल्पप्रतिभास्यर्थविषयतायाः शब्दस्य त्वया स्वीकृतत्वाच्छब्दप्रतिभास्यर्थस्य च विपरीताकाराभिनिवेशितार्थान्तरीयप्रत्ययेषु भावादतथाविधे तथाविधप्रत्ययजनकत्वाच्छब्दोऽप्रमाणमेवेत्याशयेनाह-अथ वेति । शब्दात् परस्परविरुद्धार्थप्रतिभासो भवतीत्य20 त्रमतान्तरीयसंवादमाह-शास्त्रेष्विति । एवं सर्वत्रेत्यादिग्रन्थो पूर्व प्रतिज्ञातस्य लिङ्गवच्छब्दोऽनुमानमित्यस्य सर्वत्रातुल्य एव वृत्तिः शब्दस्येत्यनेनोपसंहारः, अननुमानं तर्हि शब्द इत्यस्य चोपसंहारोऽप्रामाण्यं वेत्यनेन कृत इत्याह-एवं सर्वत्रेति । पूर्वोदितार्थान् क्रमेण संगृह्य शब्दवल्लिङ्गमपि अनुमानत्वेनाद्विलक्षणं यद्वा प्रमाणं न भवतीति निरूपयिष्यामीत्याचष्टेप्रोक्तार्थेति। शब्दस्यैकलक्षणत्वेऽपि यथाऽनुमानत्वमिष्टं तथैव लिङ्गस्याप्यनुमानत्वादद्वैलक्षण्यं स्यादिति निरूपयति-शब्द वत्त्विति, शब्द इव लिङ्गमप्यद्विलक्षणं स्यात् , अनुमानत्वादिति भावः । व्याचष्टे-प्रथममेवेति । अद्विलक्षण25 त्वसिद्धावननुमानं वा तर्हि लिङ्गमद्विलक्षणत्वादसाधारणवदित्यादिग्रन्थं योजयित्वैकलक्षणत्वमुपपादनीयमित्याह-तत इति । तदेव दर्शयति-अन्वयव्यतिरेकाभावादिति, पक्षादन्यत्रावृत्तेस्सपक्षवृत्त्यसम्भवेनान्वयाभावः, ततश्च व्यतिरेकोऽपि नास्ति, सपक्षवृत्तित्वं ह्यसपक्षावृत्तित्वरूपं तत एव सपक्षवृत्तित्वाभावेऽसपक्षावृत्तित्वरूपो व्यतिरेकोऽपि नास्तीति दर्शयति-किमुक्तमिति। तात्पर्यमाह-लिङ्गमपीति, पक्ष एव वृत्तेः पक्षस्यासपक्षत्वाच विरुद्धत्वं तन्मात्रवृत्तिलिङ्गस्येति भावः । यत्र क्वचिल्लिङ्गे पक्षधर्मत्वस्येवान्वयव्यतिरेको सन्निहितौ तत्रापि तावकिञ्चित्करावेव, अन्तरेणापि ताभ्याम 30 नुमानस्य शब्दाचार्थगतेः सम्भवादित्याह-सन्निधानमपीति, अन्वयव्यतिरेकयोः सन्निधानमपीत्यर्थः । तयोरकिञ्चित्करत्वे १क्ष. छा. यथार्थप्रतियादितः । २ सि. छा. क्ष. डे. सङ्ग्रहात्मकलिङ्ग। ३ सि.क्ष. छा. डे. सन्निहिसामप्पनुमानत्वं अर्थप्रतिपत्तावकारणत्वं । Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430