Book Title: Dvadasharnaychakram Part 3
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah
View full book text
________________
शब्दस्यातुल्य एव वृत्तिता] द्वादशारनयचक्रम्
९०१ कत्वेनैकत्वे सपक्षत्वं सपक्षादन्यत्वं पक्षत्वं, तेनातुल्यमन्यत्वं सपक्षाद्वृक्षार्थस्य तदतुल्यत्वात् तुल्यातुल्यवृत्त्यवृत्त्यादिवचनवैयर्थ्यमेव ।
किश्चान्यत्
संवृतिसत्यत्वाच्च समुदायस्यापि वृक्षवदनर्थत्वात् सेनावनादेरपि व्यर्थत्वमेव, मूलादिखरूपसत्तामात्रत्वेनाप्यतुल्य एव वृत्तिः, रूपादिभेदसमुदायसंवृत्यर्थत्वात् , रूपादिसत्यत्व- 6 प्रतिपादनार्थेऽपि च डित्थाद्युदाहरणे त्वयैव समुदायाभावोत्याऽन्यापोहप्रयासे रूपादिपरस्परव्यावृत्त्याऽभवनपरमार्थत्वान्न किञ्चित्सत्यम् , सजातीयासजातीयव्यावृत्तस्वरूपत्वात् , तत्सत्यस्यापि क्षणातिपातित्वादत्यन्तापूर्वत्वादनिर्देश्यस्वलक्षणत्वात् कतमद्रूपम् ? एवं सर्वत्रातुल्य एव वृत्तिः शब्दस्य, अप्रामाण्यं वा ।
__ (संवृतीति) संवृतिसत्यत्वाच्च समुदायस्यापि वृक्षवदनर्थत्वात् सेनावनादेरपि व्यर्थत्वमेव । अवृक्षो 10 न भवति वृक्ष इत्यस्य मूलादिस्वरूपसत्तामात्रत्वेनाप्यतुल्य एव वृत्तिः, रूपादिभेदसमुदायसंवृत्यर्थत्वात् , रूपादिसत्त्वादर्थवान् स्यादिति चेत्तदपि न, रूपादिसत्यत्वप्रतिपादनार्थेऽपि च डित्थायुदाहरणे त्वयैव काणकुण्टादिगुणसमुदायाभावोत्याऽन्यापोहप्रयासे क्रियमाणे रूपादिपरस्परव्यावृत्त्याऽन्वयाभावेव्यतिरेकस्याभावान्न भवति न भवतीत्यभवनपरमार्थत्वान्न किञ्चित् सत्यम् , तत्कारणमाह-सजातीयासजातीयव्यावृत्तस्वरूपत्वादिति, तत्सत्यस्यापि पुनः क्षणातिपातित्वात्-क्षणे क्षणेऽत्यन्तान्यत्वात् द्वितीयक्षणे तदभावात् कतमद्रूपम् ? 15 अत्यन्तापूर्वत्वात् , निर्बीजत्वात्, अनिर्देश्यस्खलक्षणत्वात् 'स्वलक्षणमनिर्देश्य रूपमिन्द्रियगोचरः' (प्रमा० स० प्रत्य०) इति ह्युक्तम् , तस्मादतुल्ये पक्षसपक्षव्यावृत्त्या तत्रैव वृत्तिः शब्दस्य, नास्त्येव चार्थे वृत्तिः, वनमिति वोक्ते प्रत्येकं गजतुरगादेवखदिरादेर्वा नोपजायते प्रतिपत्तिः, किन्तु समुदायेन ते प्रतीयन्त इति सेनावनादिशब्दाः समुदायेनार्थनार्थवन्तो दृष्टा इत्याशङ्कायामाह-संवृतिसत्यत्वाच्चेति । तुल्यातुल्यवृत्त्यवृत्तिवचनसार्थक्याय संवृतिसतः समुदायस्य वृक्षशब्दार्थत्वासम्भवो यथा तथैव सेनावनादिशब्दानामपि नास्ति कश्चित्स्वार्थ इत्याशयेन व्याकरोति-संवृतीति । ननु वृक्षशब्दार्थ- 20 स्यावृक्षो न भवति वृक्ष इत्यस्य न मूलादिसमुदायोऽर्थः, तस्यासत्त्वात् , किन्तु स्वरूपसन्मूलादिरेव तथा च नातुल्य एव वृत्तिवृक्षशब्दस्येत्याशङ्कायामाह-अवृक्षो न भवतीति, मूलादिस्वरूपसत्तामात्रत्वेनार्थवत्त्वेऽपि वृक्षशब्दोऽतुल्य एव वर्तते, मूलादेरपि रूपरसादिगुणसमुदायात्मकसंवृतिसत्त्वात् तदर्थत्वादृक्षशब्दस्येति भावः । ननु न रूपादिसमुदायोऽर्थः तस्यासत्त्वात्, किन्तु खरूपसद्रूपादिरेवेत्याशङ्कायामाह-तदपि नेति, रूपादीनां गुणानामेव सत्त्वं प्रतिपादयितुं त्वयैव डित्थायुदाहरणमुपन्यस्य समुदायाभावः प्रतिपादितः नहि सर्वे काणकुण्टादयो डित्थशब्दाद्गम्यन्त इति, ततश्चाभिधानाभिधेययोः सम्बन्धनिर्णयबीजभूतान्या- 25 पोहविचारे क्रियमाणे सति रूपापेक्षया रसस्यान्यत्वेनाभवनरूपतया रूपस्यापि रसापेक्षया व्यावृत्तत्वेनाभवनरूपत्वात्तद्भावे तद्भावरूपस्यान्वयस्याभावेन तदभावेऽभावरूपस्याप्यभावाच न किञ्चिद्वस्तु सेत्स्यतीति कथं रूपादयः सद्रूपाः स्युरिति भावः । उक्तभावार्थकं हेतुमाह-सजातीयेति, तुल्यादतुल्याच्च व्यावृत्तरूपत्वाद्रूपादीनां गगनकुसुमादिवदसत्यत्वमिति भावः । ननु नीलोत्पलमित्यादावनीलोत्पलात् सजातीयादनुत्पलाद्विजातीयाद्व्यावृत्तस्वरूपस्यैकस्य नीलोत्पलस्य सत्यत्ववद्रूपादेः कथं न सत्यतेत्या. शङ्कायामाह-तत्सत्यस्यापीति, सतां रूपादीनामपि क्षणातिपातित्वेन क्षणमात्रस्थितित्वात्तद्वस्तु रूपमिति कथमुच्यते रूपणाद्धि 30 रूपम् , नहि क्षणिकं रूपितुं शक्यम् , अत्यन्तापूर्वत्वात् , पूर्व पूर्वकालसंबन्धः यस्य सुतरां नास्त्यसावत्यन्तापूर्वः, तद्भावस्तस्मान्निकारणत्वादित्यर्थः, तच्च वस्तु, अनिर्देश्यं तस्मादपि न तद्रूपम्, एवञ्चात्यन्तापूर्वत्वेन सङ्केतासम्भवात् शब्दप्रवृत्तिबीजाभावात् रूपमिति निर्देशासम्भवात् कथं तद्वस्तु शब्दार्थः स्यात्तस्मादतुल्य एव शब्दस्य वृत्तिन पक्षे न वा सपक्ष इति भावः । तद्वस्तुनो रूपणाविषयत्वे हेतुमाह-अत्यन्तापूर्वत्वादिति, सङ्केतव्यवहारकालाव्यापित्वादिति भावः । उपसंहरति-तस्मादतुल्य इति ।
_Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430