Book Title: Dvadasharnaychakram Part 3
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 313
________________ mwomammam ९८२ न्यायागमानुसारिणीव्याख्यासमेतम् [उभयनियमारे कोऽनन्यः ? कोऽपोहः ? कोऽनपोहः ? इति विचारणायामनन्याभाव एव, उक्तवदनवधारणात् विधिवादापत्तेः सर्वथाऽन्यापोहनैर्मूल्यमिति स्थितमेतत् , अनन्याभावस्यापोहो न भवतीति । ___ यथाऽपोह इत्यनपोहो न भवतीति, तथाऽन्यविशेषणापोहप्रदर्शनार्थमित्यादिदार्टान्तिकम् , किमुक्तं भवति यथाऽपोह इत्युक्तेऽनपोहो न भवतीति पदार्थे द्विःप्रतिषेधः प्रकृत्यापादनात् अपोह एवार्थो 5 भवति तथान्यविशेषणविशिष्टस्यापोहस्य प्रदर्शनार्थमन्यापोह इत्युक्तेऽन्यस्याभावः-अनन्यः, सोऽर्थोऽस्येति अन्याभावार्थोऽन्यशब्दः, तद्भावोऽन्याभावार्थान्यशब्दता, सत्याञ्च तस्यां-अन्याभावार्थान्यशब्दतायामन्यापोह इत्यनन्याभावस्यानन्यापोहस्य तद्व्यावृत्तेरपोहो भवतीत्यन्यायोहार्थः संवृत्तः, तस्य चेदनन्याभावस्यान्यस्यापोहो न भवति न तद्दनन्यस्यानपोहः न भवति, तत्प्रतिपक्षत्वादानन्यानपोहस्येति यथा विशेष्यविपक्षव्यावृत्तः तथेहैतस्मिन् अनन्यो भवतीत्यन्यशब्दार्थे त्वदीयेऽन्यापोह इत्यन्याभावस्यापोहो न भवति, [इति न भवति 10 किन्तु ] स्वस्य अनन्यस्याभावो-अन्यः-अनन्याभावः, तस्यापोहो न भवति इत्यन्यापोह एव न भवति, अनन्यापोहः स्वापोह एवेत्यनन्याभावार्थः, स चानिष्टस्ते शब्दानुसारेणापि दोषः प्राप्तः, स्यान्मतं-अन्यस्यैवापोहो नानन्यस्येत्यवधारणान्नैष दोष इति, तच्च न, तत्रापि कोऽन्यः ? कोऽनन्यः ? कोऽपोहः ? कोऽनपोह ? इति विचारणायामनन्याभाव एव, उक्तवदनवधारणात्-अन्यस्यैव नानन्यस्येति विधिवादापत्तेः अनन्यस्यापोह एव, नानपोह इति स्वस्यापोहानपोहाभ्यामनवधारणाभ्यां विधिप्रतिषेधादन्यानन्यविचारे च विधिप्रसङ्गात् 15 पक्षस्यानपोहस्य व्यावृत्तिः क्रियतेऽनपोहो न भवतीति तथाऽन्यापोहशब्देनापि अन्याभावस्वरूपानन्यस्यान्यशब्दार्थत्वे तत्प्रतिपक्षस्यानन्याभावस्य योऽपोहस्तझ्यावृत्तिः प्रतीयतेऽनन्याभावापोहापोहार्थः तस्य संवृत्त इति व्याचष्टे-तथाऽन्यविशेषणेति. अन्यस्वरूपं यद्विशेषणं तद्विशिष्टापोहशब्दार्थप्रदर्शनायेत्यर्थः । अनपोहो न भवतीत्यस्य तात्पर्यार्थोऽपोह एव भवतीति, नञ्द्वयेन प्रकृत्यर्थप्रकाशनादित्याह-अनपोह इति । अन्यापोह इत्यत्रान्यशब्दोऽनन्यपरः, अनन्यस्यान्यस्मादन्यत्वादिति दर्शयति तथाऽन्येति । अन्यशब्दार्थ दर्शयति-अन्यस्याभाव इति, अन्यापोहशब्दार्थोऽनन्यापोह इति संवृत्तः, तत्रानन्य20 शब्देनानन्याभावापोहोऽर्थान्तरापोहं स्वार्थे कुर्वतीत्यादिवचनेन प्रतीयते, स न भवतीत्यपोहशब्दार्थः, अनन्यापोहव्यावृत्तिर्न भवतीति भावः । एवञ्चान्यापोह इत्यत्रान्यशब्दस्यानन्याभावापोहार्थः, तत्र यद्यनन्याभावस्यापोहो न क्रियते तद्दनन्यस्यानपोह एव स्यात् , तथा चानन्यापोहाभावादन्यापोह एव न स्यात् , अनन्यापोहस्य हि प्रतिपक्षोऽनन्यानपोह एवास्ति, तस्माद्यथा तस्माद्विपक्षायावत्येते तथैव अनन्यो न भवतीति त्वदिष्टान्यशब्दार्थानन्यत्वपक्षेऽन्यापोहशब्दात् अन्याभावापोहो न भवतीतीष्टं न प्रतीयेत किन्तु स्वाभावस्यापोहो न भवतीत्येव प्रतीयेत, स्वाभावापोहस्यापोहोऽनन्यापोह एव, न त्वन्यापोह इत्याशयेनाह-तस्य चेदिति । 25 अनन्यो भवतीति, अन्यशब्दार्थोऽनन्यो भवतीति त्वदीये पक्षे इत्यर्थः, अत्र पक्षेऽन्यापोहशब्दार्थः अनन्याभावापोहो न भवतीत्येव, न त्वन्याभावस्यापोहो न भवतीति, ईदृशोऽन्यापोहो न वस्तुतोऽन्यापोहः किन्त्वनन्यापोह एवेत्यनिष्टप्रसङ्ग इति भावः । यद्यप्यन्यशब्दार्थोऽन्योऽनन्योऽपि भवति तथापि अन्यापोहशब्देनान्यस्यैवापोहः क्रियते नानन्यस्येति नोक्तदोष इत्याशङ्कतेस्यान्मतमिति । निराकरोति-तच्च नेति, अस्मिन्नप्यवधारणेऽन्योऽर्थः किं स एव भवति विधिना, उतान्यो न भवतीत्यपोहेनेति चिन्तायामाये विधिवादस्य द्वितीयेऽन्यत्वस्योभयविषयत्वात्तयोविधिरूपेणाग्रहणे कोऽन्यः कोऽनन्यः कोऽपोहः कोऽनपोह इत्यन्य30 त्वानिर्धारणस्य च प्रसङ्गेन विधिवादापत्तेरन्यापोहनै मूल्याच्च तथावधारणासम्भव इति भावः । अपोहशब्दार्थविवक्षयाऽवधारणा सम्भवमाह-अनन्यस्यापोह एवेति । एवञ्च भवन्मतेऽन्यापोहशब्दार्थोऽनन्याभावस्यापोहो न भवतीति स्थितमित्याह १ सि. क्ष. डे. छा. °भावस्थानन्यस्या० । २ छा. एतस्मिन्ननभवतीत्यन्यस्याः । ३ छा. सारेणाविशेषः। Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430