Book Title: Dvadasharnaychakram Part 3
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 324
________________ गम्यगमकनियमः] द्वादशारनयचक्रम् शब्दादिमर्थ नातिक्रम्य वर्तते येन रूपेण, केन च नातिवर्तते ? धूम इत्यथूमो न भवति कृतक इत्यकृतको न भवतीत्यधूमाकृतकनिवृत्त्यात्मना नातिकामति तेनैव च रूपेणान्यतो व्यावृत्त्यात्मकेन गमयति, सत्त्वद्रव्य[व]ाद्यनेकधर्मापि सन् तैस्तान् व्यभिचारान्न गमयति-सत्त्वादिसामान्यधमैरिति, एष तावद्गमकनियमः, गम्यनियमोऽपि-गम्यन्त इत्यादि, लिङ्गिनोऽनुबन्धिनः सा[मान्यधर्माः सत्त्वद्रव्यत्वादयो गम्यन्ते, तैरविनाभावात् , लिङ्गस्य विशेषास्तौषकारीपादयो न गम्यन्ते तस्यैव व्यभिचारित्वात्-लिङ्गस्य विशेषैः सहादृष्ट- । त्वात् , एवं लिङ्गस्यान्यव्यावृत्तं सामान्यं गमकं नाव्यावृत्तमन्यतः, सत्त्वादिलिङ्गिनः सामान्यं गम्यं निवृत्तंअनग्यादिभ्यः, अमित्वं सत्त्वादि चाग्निनाऽनुबंद्धमव्यभिचारादिति, लिङ्गे स्वयं पुनर्विशेषः 'लिङ्गानुबन्धिनः स्वार्थाः इत्यादि श्लोकः, पूर्वोदाहृताः सामान्यधर्माः सत्त्वादयो लिङ्गस्य धूमस्य न गमयत्युक्तकारणत्वात्, विशेषास्तु केचिल्लिंग्यविनाभाविनः प्रतीताः प्रतिपादकाः पाण्डुत्वबहलत्वादय इति । 10 एतत्पुनः कथं पूर्ववदलक्षणमित्यत आहकिमङ्गं ......... । .......... ............................... ..................... ॥ ...... ................ ॥ यत्तूक्तं न सर्वत्र लिङ्गिनि लिङ्गं संभवत्यग्निधूमादिवदिति तदिदमपि यदि लिङ्गयेव, कथं तस्य लिङ्गं नास्ति ? अथ 15 नास्ति लिङ्गं कथं तद्वानिति स्ववचनविरोधि ते वचनम् । मिमद्देशादिकं गमयति, व्यभिचारात् किन्तु अधूमादिव्यावृत्तिरूपेणैव तं गमयति, एवं कृतकत्वादिकमपि अकृतकनिवृत्त्यात्मनाऽनित्यत्वविशिष्टं शब्दं गमयतीति गमकस्य नियम इति भावः । गम्यनियममाह-गम्यनियमोऽपीति, लिङ्गिनि अग्न्यादौ गताः केचित्सामान्यधर्माः सत्त्वद्रव्यत्वादयो गम्यन्ते, तैः स्वव्यापकव्यापकैः सह लिङ्गस्याव्यभिचारात् केचिच्च तदभावादेव विशेषास्तौषकारीषादयो न गम्यन्ते, तेषां लिङ्गनिरूपितव्यभिचारादिति भावः । तदेवाह-एवमिति, लिङ्गगतं परेभ्यो व्यावृत्तमेव सामान्यं 20 गमकं भवति, लिङ्गिनिष्ठं सत्त्वादिसामान्यमन्यव्यावृत्तं गम्यं भवति । तच्च सामान्यमग्नित्वं सत्त्वादि च, अम्यनुबद्धत्वेनाव्यभिचारादिति भावः । अयमत्र भावः, कार्य कारणादुत्पत्तेर्यदि कारणस्य गमकं तर्हि सर्वथा गम्यगमकभावः प्रसज्यते, अग्नेः सामान्यधर्मवद्विशेषधर्मा अपि तार्णपार्णत्वादयो गम्याः स्युः, धूमस्यापि विशेषधर्मवत् सत्त्वद्रव्यत्वपार्थिवत्वादयोऽपि सामान्यधर्मा गमका भवेयुः, सर्वथा जन्यजनकभावात् , यथा हि अग्निरग्नित्वद्रव्यत्वसत्त्वादिभिः सामान्यधर्मर्जनकः तथा तार्णपार्णत्वादिभिरपि विशेषैः । यथा च धूमो धूमत्वपाण्डुत्वबहलत्वादिभिः म्वनियतैर्विशेषधमैर्युक्तो जन्यस्तथा सामान्यधर्मेरपिसत्त्वद्रव्यत्वादिभिः,ततश्च यथा तयोः कार्यकार-25 णभावस्तथैव गम्यगमकभावः स्यादिति चेन्न, न हि सर्वथा जन्यजनकभावः ततश्च कथं तथा गम्यगमकभावः स्यात् तार्णपार्णत्वादि विशेषधर्माणामभावे भवतो धूममात्रस्य तदुत्पत्तिनियमाभावात् , एवमग्न्यभावे भवतो द्रव्यत्वादिसामान्यधर्मस्याग्नेरुत्पत्तिनियमो नास्ति, एवञ्च स्वगतैर्यावद्भिर्धमत्वादिभिः धूमोऽग्निगतैर्यावद्भिरग्नित्वद्रव्यत्वादिभिर्विना न भवति तेषां कारणगतसामान्यधर कार्य गमकम् । न हि तत् सामान्यधर्मात् कदाचिदपि कार्य व्यभिचरति. एवं कारणगताः सामान्यधर्मा गम्याः, कार्यमपि तैरेव खगतैः कारणगतानां धर्माणां गमकम् , येऽर्थान्तरासम्भविनो धूमत्वपाण्डुत्वबहलवादयो विशेषरूपाः, एते हि कारणगतैः सामान्य-30 धर्मेविना न भवन्तीति। लिङ्गे विशेष प्रागुक्तं दर्शयति-लिङ्गानुबन्धिन इति. लिङ्गगताः सत्त्वद्रव्यत्वादि सामान्यधर्मा न लिङ्गिन गमयन्ति, अधूमेऽपि तेषां वृत्तः, लिङ्गिव्याप्याव्याप्यत्वात् , कचित्तु लिङ्गनिष्ठाः विशेषाः पाण्डत्वबहलत्वाविच्छिन्नमूलत्वादिधर्मालिग्यविनाभाविनो लिङ्गिच्याप्यव्याप्यत्वाल्लिनिनं गमयत्येवेति भावः । उक्तगम्यगमकनियमोऽपि पूर्ववदलक्षणमेवेत्साह-किममिति। १ सि.क्ष. छा. डे. "मुबद्धानन्य० । २ सि.क्ष. छा. डे. लिङ्गस्याधः । Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430