Book Title: Dvadasharnaychakram Part 3
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 323
________________ ८९२ न्यायागमानुसारिणीव्याख्यासमेतम् [उभयनियमारे मूलादिमति पलाशादौ खार्थांशे वा वृत्तिवत् , तस्मादेव चानन्त्यादकृतसम्बन्धजातिशब्दभेदवाचित्वेऽप्यदोषः तथार्थांशेऽदृष्टत्वात्-अदृष्टस्वार्थांशत्वादित्यर्थः, अपोहस्वार्थवत्-अवृक्षो न भवतीत्यवृक्षापोहस्य स्वार्थो मूलादिमाननन्तःकोटरादिभेदेन तद्वाचित्वे चादोषो दृष्ट एवं भेदवादिनोऽप्यानन्त्येऽपि भेदानामकृत सम्बन्धेऽपि दोषाभावः स्यात् , त्वन्मतस्वार्थेऽपि वा तद्वदोष एव स्यादिति कुतः तुल्यातुल्ययोवृत्त्यवृत्तिभ्या5 मन्वयव्यतिरेको ? कुतो वा शब्दस्याभिधेयस्य पक्षस्य धर्मत्वं ? लिङ्गवल्लिङ्गिनः कुतस्त्रैलक्षण्यम् ? कुतोऽनुमानत्वमिति । एवञ्च शब्दलिङ्गगतपक्षापक्षमिष्यते तदेव पक्षाद्यतथार्थत्वादतत्तत्प्रत्ययात्मकत्वादनुमानमप्रमाणम्, अलातचक्रे चक्रमिति प्रत्ययवत्, तस्मात् साधूक्तं 'नाप्रमाणान्तरं शाब्दमनुमानात्तथाहि तत् । कृतकत्वाद्यपि स्वार्थमात्मापोहेन नाशयेत् ॥ (ग्रन्थकर्तुः ) इति, इदमपि वाऽत10 एव पूर्ववदलक्षणं यत्त्वयोक्तं यथा लिङ्ग लिङ्गिनं नातिकामति येन रूपेण तेनैव रूपेण चान्यतो व्यावृत्त्यात्मकेन गमयति, सत्त्वाद्यनेकधमोपि सन् तैस्तान् व्यभिचारान्न गमयति, गम्यन्ते च लिङ्गयनुबन्धिनः सामान्यधर्माः तैरविनाभावात् , लिङ्गस्य विशेषा न गम्यन्ते तस्यैव व्यभिचारित्वात्, एवं लिङ्गस्यान्यव्यावृत्तं सामान्यं गमकं नाव्यावृत्तम्, लिङ्गिनः सामान्यं गम्यं निवृत्तम् , लिङ्गे त्वयं विशेषः 'लिङ्गानुबन्धिनः स्वार्थाः' (ग्रन्थकर्तुः) 18 (एवश्चति) एवञ्च शब्दलिङ्गगतपक्षापक्षमिष्यते तदेव पक्षाद्यतथार्थत्वात् अतस्मिंस्तदिति प्रत्ययो ऽनुमानमिति सुभावितार्थम् , तस्मादतत्तत्प्रत्ययात्मकत्वात् अनुमानमप्रमाणम् , अलातचके भ्रमदृष्टेः पुंसोऽचक्रे चक्रमिति प्रत्ययवदिति, तस्मात् साधूक्तं 'नाप्रमाणान्तरं शाब्दमनुमानात्तथाहि तत् । कृतकत्वाद्यपि स्वार्थमात्मापोहेन नाशयेत् ॥ इति, अप्रमाणादनुमानात् परपरिकल्पितं शाब्दमपि नाप्रमाणान्तरं नार्थान्तरं-अप्रमाणमेवानुमानवदिति प्रकृतोपसंहारार्थः, इदमपि वाऽत एव पूर्ववदलक्षणं-'न प्रमा20 णान्तरं शाब्द'मिति श्लोको यथाऽलक्षणं तथेदमपि लिङ्गलिङ्गिनोर्गमकगम्यनियमार्थकम् , कतमत्तदिति चेदुच्यते-यत्त्वयोक्तं यथा[लि]ङ्गमित्यादि, लिङ्गमङ्गं-धूमकृतकत्वादि लिङ्गिनं-अग्न्यनित्यत्वादिविशिष्टं देशदाभिधानेऽपि न कश्चिद्दोषः स्यात् । यदि त्वत्र पक्षे दोषो मन्यते तर्हि त्वदभिमतस्वार्थेऽपि दोषः स्यादेवेत्साह-तस्मादेव चेति । उक्तमेव भावं वर्णयति-अवक्षो नेति । जातिपक्षवत्त्वत्पक्षेऽपि दोषस्य तुल्यत्वेन शब्दस्य हेतोस्तुल्ये वृत्तित्वादतुल्येऽवृत्तित्त्वाच्च यावन्वयव्यतिरेको तौ कुतो भवेताम् ? कुतो वाऽभिधेयस्य पक्षस्य धर्मः शब्दः स्यात् , कुतो वाऽग्नेलिङ्गिनो लिङ्गस्य धूमस्य त्रैलक्षण्यमिव 25 शब्दस्य त्रैलक्षण्यम् ? कुतश्च वाऽनुमानस्वमित्याह-कुत इति । एवमनुमानस्याप्रमाणमाह-एवञ्चेति । तवान्यापोहाभ्युपगन्तुर्मतेन न कश्चिच्छब्दो नामास्ति यः पक्षो लिङ्गं वा भवेत् , न भवति न भवतीत्यभवनपरमार्थत्वादुभयतोऽप्यभावमात्रत्वात् तस्मिश्वासति कथं पक्षः स्यात् पक्षधर्मः सपक्षधर्मों वा, तथापि पक्षाद्यभ्युपगमेऽतस्मिंस्तदिति प्रत्ययात्मकत्वेन पक्षादेरतथार्थत्वादतत्तत्प्रत्ययात्मकत्वाच्चानुमानमप्रमाणं स्यात्, भ्रान्तदृष्टेरलातचक्रे चक्रबुद्धिवदिति भावः स्यादिति प्रतिभाति । इत्थमनुमानस्याप्रमाणत्वे न प्रमाणान्तरं शाब्दमित्यादि कारिकैवं वाच्येत्याशयेनाह-तस्मात् साधूक्तमिति । संक्षेपेण तदर्थमाह-अप्रमाणादिति । 30 अथ लिङ्गलिङ्गिनोर्गमकगम्यनियमार्थकमपि त्वद्वचनं न प्रमाणान्तरं शाब्दमित्यादिवचनवदलक्षणमिति दर्शयति-इदमपीति । तद्वचनमेवाह-यथा लिङ्गमित्यादीति, लिङ्गं धूमादि सत्त्वद्रव्यत्वाद्यनेकधर्मयुतम् , तथापि तद्भूमादि सत्त्वादिधर्मेरवच्छिन्नं सन्ना क्ष. तथावाशे दृष्ठस्वार्थाशत्वादिपलाशादित्यधिकं दृश्यते। २ सि. क्ष, छा. तानन्त्याः । ३ क्ष. छा. तथावर्थाडेदृष्टस्वाशत्वादित्यर्थः। ४क्ष.छा. तुल्यानुमेययो०। ५ सि.क्ष.छा.डे पक्षमिस्येते । ६क्ष.डे. छा. यत्त्वयोक्तं तथा गमित्यादि । Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430