Book Title: Dvadasharnaychakram Part 3
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 319
________________ mammow imwammamam wwwwww ૮૮૮ न्यायागमानुसारिणीव्याख्यासमेतम् उभयनियमारे दौष्कर्यम् , यः स वृक्षशब्दो यस्य स वृक्षोऽर्थस्तदितरो वा तस्य शब्दस्य तेनार्थेन न शक्यते सम्बन्धः कर्तुम् , तेन सहात्यन्तमदृष्टत्वात् श्रावणत्वनित्यानित्यत्ववत् । __ अन्वयानुयुक्तयुदाहृतेरित्यादि, यावदेतदिति चेदिति, एतदुक्तं भवति डित्थ इत्यस्य[]डित्थो न भवतीति व्यावृत्त्या डित्थार्थगतेरन्धयाभावादेव डित्थोदाहरणमिति, एतच्च न, तत्प्रतिपत्तिनिर्मूलत्वात्-नैतद5 डित्थ[व्यु]दासमात्रमुपपद्यते प्रतिपत्तेरभावप्रसङ्गात्, न भवति न भवतीत्युभयतोऽप्यभावमात्रत्वात् प्रतिप त्तिनिर्मूलत्वम् , कस्मात् ? अनवगतपर्युदासकस्वार्थत्वात्-अनवगतः पर्युदासो यस्य स्वार्थस्य सोऽनवगतपयुसदकस्वार्थः, तद्भावादनवगतपर्युदासकस्वार्थत्वात् नास्ति प्रतिपत्तेर्बीजम् , दृष्टान्तः-अविदिते देवदत्ते न भवत्यदेवदत्त इति वचनमप्रतिपत्तरेव कारणम् , निर्मूलत्वात् , तथैव तदिति, तद्भावयति-एवश्च शब्दस्येत्यादि यावत् स इहापीति, यथा पूर्वमुक्तं आस्तां ते शब्दसम्बन्धोऽर्थाभावादिति सम्बन्धाशक्यत्वं दोषः, स एव 10 ततोऽन्यस्य चार्थस्याभावादलब्धात्मकेऽर्थद्वये शब्दस्य केन सहाविनाभावः सम्बन्धः स्यादिति श्रुतेः सम्ब न्धदौष्कर्यम् , तदुपसंहृत्य प्रतिज्ञायते यः स वृक्षशब्दो यस्य स वृक्षोऽर्थः तदितरो वेत्यवृक्षशब्दावृक्षार्थयोः सम्बन्धो वृक्षशब्दार्थयोः प्रतिपत्त्यर्थः, तस्य शब्दस्य तेनार्थेन लोकप्रसिद्धेन वा त्वदभिप्रायेण न शक्यते सम्बन्धः कर्तुमिति पक्षः, तेन सहात्यन्तमदृष्टत्वात, श्रावणत्वनित्यानित्यत्ववदिति गतार्थ साधनम्।। न च सम्बन्धद्वारं मुक्त्वा शब्दस्य लिङ्गस्य वा स्वार्थख्यापनशक्तिरस्तीति त्वयैवोक्तोऽयं न्याय इति 15 दर्शयति ___ स च सम्बन्धो नास्ति, उक्तवत् , अत एव यदुक्तं त्वया भेदाभिधानपक्षे दोषजातं व्यक्तत्वात् तन्नास्त्येव, असाधारणधर्मत्वात् , बाह्यसाधारणः पक्षधर्मा....... दाहृतेरिति, अन्वयप्रश्नोदाहरणत्वादित्यर्थः । व्याचष्टे-एतदुक्तं भवतीति । एवं सति डित्यादि प्रतिपत्तिरेव न स्यादित्युत्तरयति तत्प्रतिपत्तीति। विधिरूपतया डिस्थ प्रतिपत्तेर्निर्मूलत्वादित्यर्थः, कथमित्यत्राह-न भवतीति । अनवगतेति, डित्थशब्दार्थस्या20 डित्थो न भवतीत्यर्थकत्वेऽसत्या डित्थावगतावडित्थज्ञानाभावतोऽडित्थो न भवतीति स्वार्थो न ज्ञायते स्वपर्युदासप्रतिपत्त्यभावादिति भावः । दृष्टान्तं दर्शयति-अविदित इति । एवं प्रतिपत्तनिर्मूलत्वादेव शब्दस्यार्थाभावात् सम्बन्धाशक्यत्वदोषोऽत्राप्यस्तीत्याहएवञ्च शब्दस्येति । पूर्वोक्तं स्मारयति-यथा पूर्वमिति। अभिधानाभिधेयसम्बन्धस्यानुमानानुमेयसम्बन्धस्वरूपत्वमभ्युपगतम् , स च सम्बन्धोऽविनाभावरूपः, शब्दस्यार्थेन सहाविनाभावसम्बन्धेन भवितव्यम् , यदा च स्वार्थोऽन्यापोहो वाऽर्थस्याभावेनालब्धात्मकमर्थद्वयं तदा केन सह शब्दस्याविनाभावसम्बन्धः स्यात् सम्बन्धस्य द्विष्ठत्वादतः श्रुतेः सम्बन्धदौष्कर्यमेवेति तृतीय25 पादार्थः । श्रुतेः सम्बन्धदौष्कर्यमेव मानेन साधयति-यः स वृक्षशब्द इति, योऽसौ वृक्षशब्दो यश्च तदर्थो वृक्षः तदितरो वा न तदर्थेन तस्य शब्दस्य सम्बन्धः कर्तुं शक्यते इति प्रतिज्ञा, तेन सहात्यन्तमदृष्टत्वात् श्रावणत्वनित्यानित्यत्ववदिति साधनम् । तत्र तदितरपदविवक्षितमाह-अवृक्षेति, शब्दान्तराथोपोहं खाथै कुवेती श्रुतिराित हि न्यायः, तत्र वृक्षशब्दाच्छब्दान्तरमवृक्ष शब्दस्तदर्थश्चावृक्षः, तयोः सम्बन्धप्रतिपत्तिव्यतिरेकेण न तदपोहरूपवृक्षशब्दार्थयोः प्रतिपत्तिः स्यात् , तस्मात्तदितरोऽपि विवक्षित एवेति भावः । तेन सहेति, तदर्थेन तच्छब्दस्यात्यन्तमदर्शनादित्यर्थः । दृष्टान्तमाह-श्रावणत्वेति, श्रावणत्वं शब्दस्यैव 30 धर्मत्वादसाधारणम् , तत्र न ज्ञायते नित्यस्य सतः शब्दस्य धर्मः श्रावणत्वमुतानित्यस्येति, न वा दृष्टं वचिदपि नित्यत्वेनानित्यत्वेन वा सह श्रावणत्वं येनाविनाभावलक्षणसम्बन्धस्तयोः स्यादिति भावः । न वाऽभिधानाभिधेयसम्बन्धमनुमानानुमेयसम्बन्धं वा wwww सि.क्ष. छा. डे. प्रायोन्यशक्यते । _Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430