Book Title: Dvadasharnaychakram Part 3
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 320
________________ ८८९ mmam अभिधानमिधेयाभावः] द्वादशारनयचक्रम् एकान्तव्यावृत्तेश्च, इदमपि चात्र यदन्वयव्यतिरेको शब्दस्यार्थाभिधाने द्वारमित्युक्त्वा पुनरन्वयस्य निराकरणं तद्भवतः केनाभिप्रायेणेति न विद्मः, किमज्ञानात् ? अस्मद्बुद्धिपरिभवात् ? इहपरलोकाभ्यामयशसश्चाभीरुत्वात् ? इति । . (स चेति) स च सम्बन्धो नास्ति, उक्तवत् , उक्त सम्बन्धदौष्कर्यम् , अत एवेत्यादि-एतस्मादेव सम्बन्धदौष्कर्यात् यदुक्तं त्वया भेदाभिधानपक्षे होषजातं व्यक्तत्वात्तुं नास्त्येव व्यभिचारितादोष इति पक्षः, 5 असाधारणधर्मत्वादिति हेतुः, असाधारणधर्मत्वं सपक्षासपक्षयोरदृष्टत्वात् , तद्व्याचष्टे-बाह्यसाधारणः पक्षधर्मेत्यादि यावदेकान्तव्यावृत्तेश्चेति, तद्व्याख्यया गतार्थम् , किश्चान्यत्-इदमपि चात्रेत्यादि, अन्वयस्य निर्मूलनीयत्वात् यदन्वयव्यतिरेको शब्दस्यार्थाभिधाने द्वारमित्युक्त्वा पुनरन्वयस्य निराकरणं तद्भवतः केनाभिप्रायेणेति न विद्मः, किमज्ञानात् ? अस्मद्बुद्धिपरिभवात् ? इहपरलोकाभ्यामयशसश्चाभीरुत्वादिति। कतमदन्धयनिराकरणमिति चेदुच्यते यदन्वयविषय एकदेशो निरूप्यते त्वया वृक्ष इत्यवृक्षो न भवतीत्यवृक्षव्युदासेन। 10 कथं पुनरनेन त्वया निराक्रियत इति चेद्मः__नन्वेवं सर्ववृक्षार्थदर्शनासम्भवात् भेदानन्त्याच्च स्वार्थदेशव्याप्यन्वयाभावात् गुणसमुदायमात्रत्वादभिधानाभिधेययोः कोऽसौ सम्बन्धो येनाभिधानाभिधेयाभाव उपपद्येत, लिङ्गयेकदेशसम्भविलिङ्गस्य गमकत्ववत्तु न स्वार्थाशमात्र सम्भवति । नन्वेवमित्यादि, यावत् कोऽसौ सम्बन्धो येनेति, इति भावना गतार्था तत्र कारणमाह-सर्ववृक्षार्थ- 15 दर्शनासम्भवात् भेदानन्त्याच्चासम्भव उक्तः, स्वार्थदेशव्याप्यन्वयो नास्तीति चोक्तो गुणसमुदायमात्रत्वात् गुणभूतेष्ववयवेष्वसत्त्वं दर्शनस्योक्तं त्वयैव, तस्मादन्वयाभावेऽनुमानानुमयसम्बन्धाभावादनुमानानुपपत्तिवदभिधानाभिधेयभावस्यानुपपत्तिरिति, स्यान्मतं लिङ्गयेक देशसम्भविलिङ्गवदभिधेयैकदेशसम्भव्यभिधानदर्शनादस्त्यन्वयोऽभिधानश्चेत्यत्रोच्यते तदप्यभ्युपेत्य-लिङ्येकदेशेत्यादि, लिङ्गिनामग्नीनामेकदेशेऽना wwwwwww www विना शब्दो लिङ्ग वा स्वार्थं प्रख्यापयितुं शक्नोतीति त्वयैवोक्तमित्याह-सचेति । व्याचष्टे-सच सम्बन्ध इति । भेदाभिधान-20 पक्षे सच्छब्दो यथा द्रव्ये वर्तते तथा घटादिष्वपीति व्यभिचारितादोषो यस्त्वयोक्तः स नास्त्येव, असाधारणधर्मत्वादित्याह-एतस्मादेवेति अत्र मूलं मृग्यम् । अथ शब्दस्यार्थाभिधानेऽन्वयो व्यतिरेकश्च द्वारमिति प्रोच्य तत्र यदन्वयस्य निराकरणं क्रियते तत्केन हेतुनेति पृच्छति-इदमपि चेति। अन्वयनिराकरणं दर्शयति-यदन्वयेति. अन्यापोहविशिष्ट तद्विषय एकदेशो निरूप्यते, अर्थान्तरापोहेन खार्थमभिधत्ते श्रुतिरिति न्यायादिति भावः। तन्निराकरणप्रकारमाह-नन्वेवमिति । वृक्षाणामानन्न्यात् सम्बन्धाशक्यत्वाच्च वृक्षशब्दस्य सर्वेषु वृक्षेषु दर्शनं न सम्भवतीति दर्शयति-सर्ववृक्षार्थेति। डित्थादेरेकत्वेन तत्र 25 डित्थादिशब्दस्य दर्शनसम्भवो यद्यप्यस्ति तथापि गुणसमुदायमात्ररूपस्य डित्थादेः सर्वात्मनाऽप्रतीतिरेवेत्याह-स्वार्थदेशेति, डित्थादेः स्वार्थस्य यो देशः काणकुण्टादिस्तव्याप्यन्वयो नास्तीत्यर्थः । गुणभूतस्यावयवस्यापि गुणसमुदायमात्रत्वेन सर्वथाऽप्रतीतिरेबेत्याह-गुणभूतेष्विति । तदेवं तुल्ये वृत्तिरूपस्यान्वयस्यानुपपत्तौ तज्ज्ञाप्यानुमानानुमेयसम्बन्धस्याग्रहेणानुमानासम्भवात् शब्दार्थयोरभिधानाभिधेयसम्बन्धस्याप्यग्रहादेवानुपपत्तिरित्याह-तस्मादिति। ननु सर्वत्र लिङ्गिनि सर्वलिङ्गदर्शनासम्भवेऽपि लिङ्गये. कदेशेऽनावेकस्मिन् लिङ्गस्य धूमस्य दर्शनेन यथा तल्लिङ्गं धूमोऽग्नेर्गमकं भवति तथाभिधेयेष्वेकाभिधेयेनामिधानस्य दर्शनात् अन्वयग्रह: 30 शब्दस्याभिधायकत्वञ्चोपपद्यत इत्याशङ्कते-स्यान्मतमिति । शब्दादेकदेशाभिधेयप्रतिपत्तिर्न भवितुमर्हतीत्याह-लिब्रिना .सि. क्ष. छा. डे, नना। २ सि. क्ष. छा, डे, एकदेशे। ३ सि.क्ष. छा. डे. कासासम्बन्धयइति । _Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430