Book Title: Dvadasharnaychakram Part 3
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 312
________________ स्वापोहतापादनम्] द्वादशारनयचक्रम् सोऽपि योऽन्योऽन्यस्मात्-अन्यस्वरूपात् स्वत एव सिद्धान्यत्वात्-अन्याख्यादर्थात् अन्य एव भवन्-अन्यः सन् अनन्यो भवति स एव भवति, तस्यान्यस्य स्वात्मनि व्यवस्थितस्य तदनन्यत्वं तत्त्वं-आत्मत्वमपोहमानोऽन्यापोहः तदपोह एव भवति-स्वापोह एव, नान्यापोहस्त्वदिष्टः परापोह इत्यर्थः, इति-इत्थं स्ववचनविरोधोऽन्यापोह इति वचनात् , तथाभ्युपगमादभ्युपगमविरोधः, लोकविरोधश्चेत्थं लोकेऽदृष्टत्वात् स्वार्थप्रतीते:, तथा प्रत्यक्षदर्शनात् प्रत्यक्षविरोधः, अनुमानविरोधश्चैवमनुमानादित्यशेषाः पक्षदोषा आपन्नाः, विधिवादा-5 पत्तिश्चैवम् , इयेवं तावद्वस्तुनो लक्षणानुसारेण दूषणमुक्तम् , स्यान्मतमन्यापोहशब्दार्थानुसारछायामात्रेण परिहरामीति, तद्यथा-अन्यापोह इति चानन्यापोहो न भवतीति- अन्यविशेषणविशिष्टापोहस्यानन्यविशेषणविशिष्टापोहः प्रतिपक्षः स न भवतीत्यर्थः, स चान्योऽन्यस्मात् , अतोऽन्यापोह एवात्रापीति, अत्रोच्यतेइत्यपि न परिहार एव, कस्मात् ? अन्यापोह इत्यनन्याभावापोहो न भवतीति यतोऽर्थान्तरापोहेन स्वार्थेऽपोहे वृत्त्यर्थेऽन्यविशिष्टोऽपोह इति, किमुक्तं भवति-अनन्यस्याभावोऽन्यः अन्यस्य वाऽभावोऽनन्यः प्रतिपक्षः 10 तद्वदपोहम्यानपोहः प्रतिपक्षः, अनपोहस्यापोह इति भवति । तं दृष्टान्तत्वेन न्यायं दर्शयति यथाऽपोह इत्यनपोहो न भवति तथा अन्यापोह इत्युक्तेऽन्याभावार्थान्यशब्दतायां सत्यामनन्याभावस्य व्यावृत्तेरपोहो भवतीत्यन्यापोहार्थः संवृत्तः, तस्य चेदनन्याभावस्यान्यस्यापोहो न भवति न त_नन्यस्यानपोहो न भवति तत्प्रतिपक्षत्वादनन्यानपोहस्येति, 15 तथेहानन्य इत्यन्यशब्दार्थे त्वदीयेऽन्यापोह इति नान्याभावस्यापोहो न भवति, किन्तु खाभावस्यापोहो न भवतीत्यन्यापोह एव न भवति, किन्तु अनन्यापोहः स्वापोह एवेत्यनिष्टः ते प्राप्तः, अन्यस्यैवापोहो नानन्यस्येत्यवधारणान्नैष दोष इति तन्न, तत्रापि कोऽन्यः ? nam घटादिवस्तु तदपि-अनन्यदपि, अन्यदपि, तस्य तत्त्वमन्यत्वञ्च स्वत एव, तत्त्वन्तु नान्यत्वमन्यत्वमपि न तत्त्वम् , तथा चानन्यद्रूपं तदपि स्वतः सिद्धान्यत्वादन्यदेव भवदनन्यदुच्यते त्वया, तथा चानन्यत्वमपि घटादिवस्तुनस्तत्त्वम् , अन्योऽनन्यो न 20 भवतीति वदता च त्वया तदपोह एव कृतः स्वापोह एव कृतो न परापोह इति खवचनविरोध इति भावः । अभ्युपगमादिविरोधानुद्भावयति-तथाभ्युपगमादिति, परापोहाभ्युपगमादित्यर्थः । स्वार्थप्रतीतेरिति, अन्यापोह इत्यत्रान्यपदात् स्वार्थप्रतीतेर्लोकेऽदृष्टत्वाल्लोकविरोध इति भावः । घटे दृष्टे पटादेरन्यस्यैव भेदानुभवात् प्रत्यक्षविरोध इत्याह-तथा प्रत्यक्षेति । तथैवानुभानादनुमानविरोधमाह-अनुमानेति । तत्त्वान्यत्वयोः स्वतस्वे निरपेक्षत्वेन विधिरूपतापत्तिः, न तु व्यावृत्तिरूपता सप्रतियोगिकत्वेन स्वतस्त्वविरोध इत्याशयेनाह-विधिवादेति । अर्थान्तरापोहं स्वार्थ कुर्वती श्रुतिरित्यादिलक्षणानुसारेणा-25 न्यापोहदूषणमुक्तमित्याह-इत्येवं तावदिति । ननु यथा घटादेरघटादिः प्रतिपक्षः, तदपोहः क्रियते, तथाऽन्यापोहस्य प्रतिपक्षोऽनन्यापोहः, तस्यापोहः क्रियते अनन्यापोहो न भवतीति चान्यस्मादन्य इत्यनन्यापोहोऽन्यापोह एवेति नोक्तदोषा इत्याशङ्कतेस्यान्मतमिति । परिहरति-इत्यपीति, स्वतःसिद्धान्यस्मादन्यत्वादनन्योऽन्यशब्देनोच्यते, तस्य प्रतिपक्षोऽनन्याभावः, तदपोहोऽन्यशब्दार्थः, न भवतीत्यपोहशब्दार्थः, तथाचानन्याभावापोहो न भवतीत्यन्यापोहशब्दार्थः । तदेव स भवतीति, अन्यस्य प्रतिपक्षोऽनन्याभावः, अन्याभावार्थान्यशब्दत्वात् , अनन्यस्य चान्याभावः प्रतिपक्षः, तथाऽनन्याभाव- 30 स्यान्यः, अन्याभावस्यानन्यः प्रतिपक्षः, अपोहस्यानपोहः, अनपोहस्यापोहः, प्रतिपक्षोऽर्थान्तरत्वादिति भावः । अन्यशब्दार्थोऽनन्यः, तत्प्रतिपक्षोऽनन्याभावस्तदपोहोऽर्थान्तरापोहं खार्थे कुर्वतीति न्यायेनान्यशब्दार्थः, तस्यापोहो न भवतीत्यनेन प्रतीयत इति अनन्याभावापोहो न भवतीत्यन्यापोहपदार्थ इत्यत्र न्यायं दृष्टान्तेन समीकरोति-यथापोह इति । यथाऽपोहशब्देनापोहप्रति Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430