Book Title: Dvadasharnaychakram Part 3
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 310
________________ अन्यापोहशब्दार्थः] द्वादशारनयचक्रम् न भवति, किं तर्हि ? ततो अन्यस्मादन्योऽनन्यो न भवति, अन्यापोहशब्दार्थव्यापित्वात् व्यावृत्त्यैव गमयति, अतो न विधिप्रसङ्गोऽभावमात्रं वेत्यत्रोच्यते-यद्यन्य इत्यनन्यो न भवति ततोऽन्यस्यैवानुवदनादित्यादि यावदतुल्येऽन्यस्मिन्नवृत्तेरित्युत्तरपक्षः, किमुक्तं भवति योऽयमन्यः सोऽन्य एव सन् अ[न]न्य उच्यते स एव-अनन्यएव-स्वयमेव भवति परमनपेक्ष्येत्यर्थः, ततः किं ? ततो योऽसावनन्यो नाम सोऽन्य एव स. एवान्याख्योऽन्यः सन्ननन्य इत्युक्तं भवति, तस्मात्तस्यैव-अन्यत्वस्यानन्यशब्देनाप्यनुवदनात् कोऽसावन्यः । पृथक् ? ततोऽन्यस्मादनन्यो नाम नास्तीत्यर्थः, यदि स्यात् परापेक्षः स्यादिति निरूपयति-अन्यान्यत्वतदनन्यत्वातुल्यः शब्दार्थ इति-अन्यस्मादन्योऽन्यान्यः, तद्भावोऽन्यान्यत्वं, तस्माद्भिन्नेनानन्यत्वेनातुल्यः अन्याऽन्यत्वात् , कोऽसौ अन्यान्यत्वतदनन्यत्वातुल्यः ? शब्दार्थः, यथा वैधhण घट इत्युक्तेऽघटो नान्यतदनन्यातुल्यो दृश्यते-पटादिरपोह्यः घटशब्देन, न तथेह कश्चिदन्यशब्देन भिन्नोऽनन्योऽस्ति, यतोऽस्मा[द]न्यस्य-अन्यान्यस्माद्भिन्नस्य पैटवदवृत्तिः स्यात् , अन्यान्यापेक्षत्वाद[न]न्यत्वस्य, स च नास्तीत्थम् , 10 किच्चान्यत्-अन्यशब्दार्थस्य चेत्यादि, अन्यापोहेनायं दर्शयति, यदा चान्यशब्दार्थादनन्यशब्दार्थो भिन्नो भवति तस्माच्चान्यशब्दार्थः, तदाऽन्य इत्युक्तेऽनन्यो न भवतीत्यपोहार्थो विधिभिन्नः स्यात्, किं कारणं ? अतुल्येऽन्यस्मिन्नवृत्तेः, घटपटवत्, न त्वस्त्यन्यस्यैवान्यस्यानन्यत्वात् , तस्मात् स्वार्थापोह एव स्यात् । mmmmmwwww क्रियते, अन्यस्मादन्यो ह्यनन्यस्तव्यावृत्तिः क्रियत इति व्यावृत्तिरूपेण वस्तुनो बोधनान्नोक्तदोषप्रसङ्ग इति भावः । समाधत्ते-यद्यन्य इतीति, यद्यन्यस्मिन्ननन्यो न भवतीत्युच्यते तर्हि तेनान्यत्वमेवानूदितं भवति, अन्यस्मादन्यस्यैवानन्यत्वादिति भावः । 15 तत्कथमित्यत्राह-किमुक्तं भवतीति, अन्यपदार्थोऽन्य एव सन्ननन्यो भवति, अत्रानन्यो ह्यन्य एव, अन्यस्मादन्यस्यैवानन्यत्वात् ततश्चान्य एवं प्रतियोगी, स च ख एवेति परानपेक्षं स्वतो भवनरूपमनन्यत्वं निष्प्रतियोगिकमनन्यत्वमिति यावत्, एवञ्चानन्यान्यशब्दार्थयोरपृथग्भावः, अनन्यशब्देनाप्यन्यत्वस्यैवानुवदनात्, अन्यस्मादन्यस्यैवानन्यशब्दार्थत्वात् ततश्चान्यपदार्थाद्भिन्नस्यानन्यपदार्थस्याभावेनान्याख्योऽर्थः अनन्यो न भवतीति रिक्तं वच इति भावः । योऽयमन्य इति, अनेनान्यस्मिन्ननन्यताऽऽपादिता । ततो योऽसाविति, अनेन चानन्येऽन्यताऽऽपादिता, योऽसावन्यः स अन्यत्वे सन्नेव खयमेवानन्यो भवति न तु परमपेक्ष्यानन्यो 20 भवति, ततश्च योऽसावनन्यः सोऽन्य एव सन् स्वत एवानन्यो भवति, ततश्चान्यशब्दार्थानन्यशब्दार्थयोरपृथग्भाव इति भावः। यद्यन्यस्मादनन्यपदार्थो भिन्नः स्यात्तर्हि परापेक्षः स्यादित्याह-यदि स्यादिति । वात्मनि व्यवस्थितस्यान्यस्य यद्यनन्यत्वं तत्त्वं न स्यात्तर्धनन्यत्वं परापेक्षं स्यात् , स्वतः सिद्धान्यपदार्थव्यतिरिक्तत्वात् , अन्यप्रतियोगिकं यदन्यत्वं तदेवानन्यत्वमतः प्रतियोग्यप्यन्य एव स्वात्मकानन्यरूपः, तस्मादत्र परत्वमन्यव्यतिरिक्तं ग्राह्य तदपेक्षं स्यात् , अन्यव्यतिरिक्तप्रतियोग्यपेक्षमनन्यत्वं स्यादिति भावः । एतदेवाह-अन्यान्यत्वेति, अन्यान्यत्वतदनन्यत्वाभ्यां शब्दार्थों न तुल्यो न समानः, अन्यान्यत्वं हि स्वापेक्षं तदनन्यत्वन्तु 25 अन्यव्यतिरिक्त प्रतियोग्यपेक्षमिति अन्यस्मादन्यस्यान्यान्यत्वं तदनन्यत्वञ्च धर्मों तत्रान्यान्यत्वं स्वापेक्षान्यत्वं तदनन्यत्वन्तु परापेक्षान्यत्वरूपमिति भावः । व्याचष्टे अन्य स्मादिति, अन्यस्माद्यद्यनन्यो व्यतिरिक्तस्तदाऽनन्यादन्यो न समानो व्यतिरिक्तत्वादिति भावः । तत्र वैधर्म्यदृष्टान्तमाह-यथा वैधयेणेति, घट इत्युक्ते घट शब्देनापोह्यो योऽघटः पटादिः सोऽन्यतदनन्याभ्यां समानः, घटान्यपटानन्ययोस्समानतेति यावत् । न तथेहेति, अन्यशब्देनापोह्यो अन्यस्मात् भिन्नोऽनन्यो नाम न कश्चिदस्ति येनान्यशब्दोऽतुल्येऽनन्येऽवृत्तिः स्यात् , अनन्यशब्दोऽप्यन्यस्मिन्नवृत्तिः स्यात्, यथा घटः पटे पटो वा घटे न वर्तते तथेति परन्तु 30 तथा नास्तीति भावः । अन्यानन्ययोरभेदे दोषान्तरमाह-यदा चान्येति, अन्यशब्दार्थानन्यशब्दार्थयोर्भेदे सति अन्यशब्दस्या १ सि. क्ष. छा. शब्देनाभिन्नो० । २ सि. क्ष. छा. यतोस्मान्यस्य । ३ सि. क्ष. छा. घटव० । ४ सि. क्ष. छा. अन्योन्यापेक्षत्वादन्यत्वस्य । द्वा० ३४ (१११) Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430