Book Title: Dvadasharnaychakram Part 3
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 315
________________ न्यायागमानुसारिणीव्याख्यासमेतम् [उभयनियमारे वादे प्रतिपन्ने किमपोहेन पुनः क्रियते ? सर्वार्थविषयस्य स एवेति विधिप्रतिपत्तेः प्रागेव वृत्तत्वात् , त्वमेव हि बहुतरार्थविषयशब्दविधिवादी संवृत्तोऽनन्तार्थशब्दवादी चेत्यतः किमपोहकल्पनया क्रियते ? तदा ह्यर्थापत्त्या अनुगतसामान्यज्ञानं व्यावृत्तिसामान्यज्ञानश्च भवति यदि स्वार्थः अर्थान्तराणि चैतदुभयं स्वत एव सिद्धात्मस्वभावं विधिनैव भवतु, को वारयति ? । असत्योपाधिसत्यशब्दार्थत्वात् पूर्ववत् । तदा ह्यर्थापत्त्येत्यादि, स्वार्थश्च विवक्षितोऽर्थः ये चान्येऽर्था अर्थान्तराणि तदेतदुभयं स्वत एव सिद्धात्मस्वभावं विधिनैव, यत्पुनरत्र सन् घट इत्युक्ते सदित्यनुगमसामान्यज्ञानं असन्नघटश्च न भवतीति व्यावृत्तिसामान्यज्ञानञ्च तदुभयमर्थापत्त्या यदि भवति भवतु गुडमाधुर्यवदुपसर्जनीकृतात्मस्वरूपं को वार... यति ? असत्योपाधिसत्यशब्दार्थत्वात् पूर्ववत् , एवं तावद्भवदर्थान्तरञ्चेद्भवति तत उक्तो दोषः । 10 अथार्थान्तरं न भवतीति मन्यसे ततोऽनवस्था प्रश्नस्य, पूर्वव्याख्यातान्यशब्दार्थप्रश्ना नवस्थानवत् , अर्थान्तरस्य वोभयविषयत्वात्तदग्रहणे किं तदर्थान्तरम् ? कुतो वाऽर्थान्तरं न भवतीत्युच्यते ? इति द्विष्ठत्वादर्थान्तरत्वं निर्धार्यम् , एवन्तु न स कश्चिदर्थो भविता, उभयतोऽप्यभावप्रसङ्गात् स्वार्थस्यांशोऽपि न दृश्यत एव, अर्थान्तरं न भवतीत्युच्यमाने उभय तोऽपि न भवति न भवतीत्यर्थान्तरस्याव्यावृत्तिरेव न कश्चिद्विधिगन्धोऽपीति अन्यथा वृत्तेर18 भवनपरमार्थत्वादात्मार्थान्तरत्वाभावः, ततश्चाभूतस्वार्थान्तरत्वाद्वन्ध्यापुत्रवदविषय एव, स च निबन्धनमर्थान्तरापोहस्य स्यात् , अथोच्यतेऽर्थान्तरमनन्तरं न भवतीति, अत्रोच्यते यद्यनर्थान्तरं न भवति ततोऽर्थान्तरस्यैवानुवदनात् , किमुक्तं भवति यदर्थान्तरं तदर्थान्तरमेव सदनान्तरमुच्यते तदेव स्वयमेव भवति ततो यदिदमनर्थान्तरं नाम तदर्थान्तरमेव सदनर्थान्तरमित्युक्तं भवति, तस्मात्तस्यैवानर्थान्तरशब्देनाप्यनुवदनात् किं तदर्थान्तरं पृथक् ? 20 यद्यर्थान्तरं स्यादर्थान्तरार्थान्तरत्वतदनन्तरत्वातुल्यः शब्दार्थः स्यात् , यथा वैधम्र्येण घट इत्युक्तेऽघटो नार्थान्तरतदनर्थान्तरातुल्यो दृश्यते न तथेह कश्चिदनन्तरशब्देनाभिन्नमनर्थान्तरमस्ति यतोऽस्यार्थान्तरस्य पटवदवृत्तिः स्यात् , अर्थान्तरशब्दार्थस्य चानान्तरशब्दार्थाद्भिन्नत्वेऽर्थान्तरमित्युक्तेऽनन्तरं न भवतीत्यपोहार्थो विधिभिन्नः स्यात् , अतुल्ये तस्मिन्न वृत्तेः, घटपटवत् , स्यादेतदेवं यद्यर्थान्तरमेवार्थान्तरत्वे स्थितमनर्थान्तरमुच्येत परापेक्षार्थान्त23 रत्वात्तदेवार्थान्तरमिति, किन्तर्हि ? स्वापेक्षार्थान्तरत्वादेव, योऽसौ तदतत्त्वातुल्यः तस्य स्वतः मन्यापोहस्य चेत्तर्हि तस्य प्रतीतिरर्थापत्त्या स्यादित्याह-तदा हीति । स्वार्थव्यावर्त्ययोः घटपटयोः विधिना खरूपतः प्रतिपत्तौ सत्यां घटो विवक्षितोऽर्थः, पटश्च ततोऽर्थान्तरं तस्माच्च व्यावृत्तो घट इति अर्थान्तरतायास्तव्यावृत्तेश्च ज्ञानं पश्चादर्थाद्भवति न तु वस्तुप्रतिपत्तिकाल एव, तथा यदि खीक्रियते भवतु नाम, नास्माकं तत्राग्रहः, अस्मन्मते असत्योपाधिसत्यशब्दार्थतायाः सिद्ध त्वादित्याशयेन व्याकरोति-स्वार्थश्चेति । सद्धटयोः स्वरूपतः सिद्धखभावः, तत्र सत्तासामान्यज्ञानमन्यव्यावृत्तिज्ञानञ्च 30 परत इत्याचष्टे यदि ततो नास्माकं विरोध इत्याह-सन् घट इत्युक्त इति। द्वितीय विकल्पमपहस्तयितुमाह-अथार्थान्तरमिति। अर्थान्तरमर्थान्तरं न भवतीत्यत्र निषेधप्रतियोगि यदर्थान्तरं तदपि किं भवत् किं वाऽभवदिति प्रश्ने आधे विधिवादप्रसङ्गः, द्वितीये _Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430