Book Title: Dvadasharnaychakram Part 3
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 292
________________ wammanawaam भेदानाक्षेपादिदोषाः] द्वादशारनयचक्रम् ८६१ भेदप्रतिपादनपरतया तस्यैव विशेषस्य परमार्थरूपत्वेनाङ्गाङ्गिभावं गतानि, असत्योपाधिसत्यशब्दार्थत्वात् तथा चाङ्गाङ्गिभावगत्या तद्रूपपरमार्थरूपया, अव्यवहितवृत्तिना विधिना स्वभेदाः समाक्षिप्ता इति वर्तते, प्रतिषेधव्यापारनिराकांक्षमित्यादि यावत्[अ]घटावतार इति, योऽपि त्वयाऽन्यापोह इष्टः सोऽपि विधिमन्तरेण न भवति, यस्मादघटो न भवतीत्येतदविवक्षितं द्विःप्रतिषेधमनाहत्या पेक्ष्य विधिरूपेण विवक्षितविध्यर्थस्य घटस्य प्रतिपत्तौ सत्यामुत्तरकालं भवति नाप्रतिपत्तौ, तस्यैव चरितविध्यर्थस्य घटस्योपसर्जनत्वेना- 5 पोहबुद्धेरघटाभावबुद्धरनुत्पत्तेरेव स्वात्मविधिः प्रधानोऽप्रधानोऽपोह इति, किमिव ? शिंशपाद्यपहारिवृक्षशब्दार्थेऽर्घटानवतारवत्, यथा वृक्ष इत्युक्ते शिंशपादिभेदानामन्यतमेन विनाऽर्थवान्न भवति वृक्षशब्द इति शिंशपाद्युपहरन्नर्थवान् तस्मिन् मूलादिमति शिंशपाद्यवश्यम्भाविविशेषस्वभावेऽर्थेऽघटानवतारः, अघटो न भवतीत्यस्य तु दूरत एव-नैवासौ शब्दार्थो गुडमाधुर्यगतिवदर्थापत्तिलभ्यत्वात् , घटानवतार इत्येव वा पाठः-घटस्य वृक्षार्थेऽवकाशाभाववदनुपात्तावृक्षापोहस्य कोऽवकाश इति । - 10 स्यान्मतमत्रापि वृक्ष इत्यवृक्षो न भवतीत्यपोह एवोच्यते, नहि शिंशपायुपहारः, तस्यैव विसंवादस्थानत्वान्न स्वार्थ इत्यत्रोच्यते यदि तु सोऽप्यपोहपर एव स्यात् ततः सोऽवृक्षव्यावृत्तिवृत्तत्वाद्वृक्षभेदशिंशपादीन्नाक्षिपेत् नानुमन्येत न व्युदस्येत वा, अनर्थित्वादवृक्षाभवनवत् , अवृक्षो घटादि तदभवनस्य भेदानाक्षेपवद्धृक्षशब्दस्य व्यावृत्तिवृत्तत्वा दाक्षेपे व्यापार एव नास्ति, यदसौ वृक्षार्थ 15 घटादिभ्योऽन्यत्वेन शिंशपादिभेदात्मकं स्वार्थमनन्यत्वेनाक्षिपति तस्मात्तेन सह सामानाधिक ammmmmmmmmmmmmm MMMM ण्येवेति । भेदरूपाणामङ्गित्वं सामान्यस्य च तदङ्गत्वमित्याह-अङ्गाङ्गिभावं गतानीति । तस्माद्धटशब्देनाव्यवहितविधिवृत्तिना घटस्य भेदाः समाक्षिप्यन्त इत्याह-तथा चेति । शेषं पूरयति-अव्यवहितेति । शब्दस्यासत्योपाधिसत्यविशेषविधिबोधने प्रतिषेधव्यापाराऽपेक्षा नास्तीत्याशयेनाह-प्रतिषेधव्यापारेति, इतरप्रतिषेधव्यापारानपेक्षः शब्दः स्वार्थ विधिरूपेण प्रतिपादयति, विवक्षितविध्यर्थज्ञानानन्तरञ्चार्थापत्त्याऽघटो न भवतीत्यन्यापोहप्रतिपत्तिर्न तु शब्दार्थत्वेन विध्यर्थस्योपसर्जनतया, प्रतिषेधबुद्धे- 20 विवक्षितविध्यर्थज्ञानानन्तरमुपजायमानत्वेन शब्दस्य सामान्योपसर्जनविधिप्रधानबोधनेन चरितार्थतया पश्चात्प्रतिभासमानोऽन्या पोह शाब्दबुद्धौ नोपसर्जनं नापि प्रधानं किन्तु वात्मा विधिः प्रधानमप्रधानमन्यापोह इति भावः । शब्दार्थघटकतयाऽन्यापोहस्य नावतार इत्यत्र निदर्शनमाह-शिंशपादीति, मूलस्कन्धशाखादिसप्रभेदशिंशपाद्यन्यतमोपग्राहिवृक्षशब्दार्थे घटपटादेरनन्तर्गतत्ववदित्यर्थः, तदेव प्रकटीकरोति-यथा वृक्ष इत्युक्त इति । यदा च वृक्षशब्दार्थान्तःपातितयाऽघटादेरेव नास्त्यवतारस्तदा तद्धर्मस्याघटापोहस्य कथमन्तःपातितासम्भवः, नास्त्येवेत्याह-तस्मिन् मूलादिमतीति।गुडमाधुर्येति,गुडशब्दाद्यथा माधुर्य-25 प्रतीतिरीपत्त्या तथाऽघटापोहप्रतीतिरप्यापत्त्यैव, न तु शब्दार्थतयेति भावः । अघटानवतार इत्यत्र घटानवतार इत्यपि पाठान्तरमुपलभ्यत इत्याह-घटानवतार इति । वृक्षशब्दार्थ घटस्य यथा नावकाशस्तथा वृक्षापोहस्यापीत्याह-घटस्येति । अथ शिंशपाद्यपहारिवृक्षार्थेऽघटानवतारवदिति दृष्टान्तेन वृक्षशब्दाच्छिशपाद्युपहार इति यदुच्यते तद्विवादस्थानत्वान्न सिद्धमपि तु वृक्ष इत्यवृक्षो न भवतीत्येवोच्यत इत्याशङ्कय समाधत्ते-यदि त्विति । व्याचष्टे-यदि तु सोऽपीति । वृक्षः शिंशपेत्येवं दृश्यते सि. डी. छा. घटानव०। २ सि.क्ष. छा. नपेक्षविधिः । ३ सि. क्ष. छा. डे. पत्तौस्यामुत्तर० । ४ सि.क्ष. छा. मा प्रति०। ५ सि. क्ष० छा. डे. बुद्धरुपत्ते०। ६ सि.क्ष. घटघटानवतार। ७ २ क्ष. छा. ०र्थघटावतारः । _Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430