Book Title: Dvadasharnaychakram Part 3
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 298
________________ भवनमेव शब्दार्थः] द्वादशारनयचक्रम् ८६७ अन्यत्वाविशेषात् , अभावतुल्यत्वाच्च, समूहश्च प्रकृतिप्रत्ययादीनां तदर्थान्तरवाचकः, एवञ्च विधिप्रधानशब्दार्थत्वात् सामान्यविशेषशब्दयोः प्रकृतिप्रत्यययोर्भवनसामान्यापरित्यागिनोस्तद्विशेषकर्तृपदार्थवाचित्वं समूहेन भवतीति नीलोत्पलमिति वर्तिपदार्थभवनसामान्यवाचिनोविशेषणविशेष्यत्वसम्बन्धलक्षणसामान्यविशेषभाविवृत्त्यर्थवाचित्वम् , व्यादिसमूहस्य वाक्यार्थवाचकत्वम् , उपात्तार्थाविरोधिसामान्योपसर्जनप्रकृतविध्यर्थत्वात् सर्वशब्दानाम् । । यत्त्वविरोधादित्यादि, यदपि त्वया कारणमुक्तमन्यत्वेऽपि सामान्यादिशब्दार्थानपोहे तेषामविरोधादिति सोऽप्येवमेवाविरोधो घटते, भवनविध्येकार्थीभूतत्वात्-सामान्याख्यं विशेषाख्यश्च यत्किश्चिद्वस्तु तत्सर्वं भवनमेवान्योन्यात्मापत्त्यैकीभूतं स एव शब्दार्थो विवक्षितार्थोपकाराविनाभावित्वेनैकीभूतो विधीयमानत्वादेवाविरुद्ध इति युज्यते, नान्यापोहे, अन्यत्वाविशेषात् , अभावतुल्यत्वाच्च को विरोधाविरोधाविति, समूहश्च[प्रकृतिप्रत्ययादीनां]तथा तदर्थान्तरवाचकः, तद्व्याख्या-एवञ्चेत्यादि, एवञ्च कृत्वा विधि- 10 प्रधानशब्दार्थत्वात् सामान्यविशेषशब्दयोरित्यादि यावत् वा[क्या]र्थवाचकत्वमिति, प्रकृतिप्रत्यययोर्भवनसामान्यापरित्यागिनोः तद्विशेषकर्तृपदार्थवाचित्वं समूहेन भवतीति नीलोत्पलमिति वर्तिपदार्थभवनसामान्य‘सामान्यभेदपर्यायशब्दार्थान्नापोहतेऽन्यत्वे तुल्येऽपीत्यत्र त्वया यत्कारणमुक्तं तेषामविरोधादिति सोऽविरोधो नापोहशब्दार्थतापक्षे सम्भवति किन्तु विधिशब्दार्थतापक्ष एवेति भावः । हेतुमाह-भवनेति, सामान्यं विशेषश्च भवनलक्षणात्मलाभेनानन्यार्थभूत: अनन्यभूतत्वादेव सामान्यरूपं विशेषरूपञ्च यत्किञ्चिद्वस्तु विवक्षितार्थोपकारित्वाविनाभावित्वेन शब्देन विधीयमानत्वादविरुद्धं 15 भवति, न त्वन्यापोहे वृक्षाद्भिन्ने पटादेरिव पृथिवीशिंशपातादिशब्दार्थानामप्यन्यत्वस्याविशिष्टत्वात् पटादेविरुद्धत्व सामान्यादेरविरुद्धत्वमित्यत्र नियामकाभावः, अन्यापोहस्याप्यभावस्वरूपत्वेन निर्धर्मकत्वात् विरुद्धत्वाविरुद्धत्वधर्मयोस्तत्रावकाश एव नास्तीति भावः । पूर्व समूहश्च प्रकृतिप्रत्ययादीनां तदर्थान्तरवाचक इति युक्त्या वक्ष्याम इत्युक्तं तन्निरूपयति-समूहश्चेति, घटः पटः इत्यादिप्रकृतिप्रत्ययसमुदायभूतं नामपदमेकत्वादिविशिष्टं घटं बोधयति, एवं पचतीत्यादिप्रकृतिप्रत्ययसमुदायभूतमाख्यातपदं पाककर्तारं बोधयति, अर्थस्य हि बहवोऽवस्थामेदाः सन्ति, येन च योऽवस्थाभेदः परिदृष्टस्तेनेवासौ समाख्यायते, यथा वीरस्येदं 20 वैरं वीराया इदं वैरं वा गच्छति गर्जति गिरति गदति गुवति वा गौरित्यादि, तत्र चान्वयव्यतिरेकाभ्यां प्रकृतिप्रत्ययतदर्थविभागः क्रियते, तत्र प्रकृत्यर्थः सामान्य प्रत्ययभेदेऽपि तदभेदात् , यथा वृक्षः वृक्षौ वृक्षाः, पचति पचतः पचन्तीत्यादि, प्रत्ययार्थश्च विशेषः प्रधानम् , प्रकृतिप्रत्ययौ सहार्थ ब्रूतः, तयोः प्रत्ययार्थः प्रधानमित्युक्तत्वात् , एवञ्च सामान्यविशेषशब्दयोः प्रकृतिप्रत्यययोः समुदायस्य भवनसामान्यापरित्यागितद्विशेषवाचकत्वं विधिरूपेणैव दृष्टम् । व्यस्तपदानां विधिप्रधानशब्दार्थत्वमुपदर्य समस्त i तद्दशेयति-नीलोत्पलमितीति, वर्तिपदार्थभवनसामान्यवाचिनोः-समासघटकनीलपदोत्पलपदयोनीलगुणविशिष्टद्रव्यो- 25 त्पलत्वविशिष्टद्रव्यवाचिनोरित्यर्थः, विशेषणविशेष्यभावरूपसम्बन्धलक्षणः सामान्यविशेषभावरूपो वृत्त्यर्थः समासार्थः, तद्वाचित्वं नीलोत्पलशब्दस्य समस्तस्येत्यर्थः, ननु नीलशब्दो नीलगुणविशिष्टं द्रव्यमाह, उत्पलशब्द उत्पलत्वविशिष्टं द्रव्यम् , द्वावपि द्रव्यशब्दौ परस्परानुपकारकप्रधानार्थवाचकाविति कथं विशेषणविशेष्यभावः, अत्रोच्यते नीलशब्दो द्रव्यमाह स च गुणनिमित्तक इति तत्र नियतजातीयतया निश्चयो नास्ति, अविनाभावात्तु द्रव्यजातिमात्रमाह तथा च नियतजातीयाकांक्षास्ति, उत्पलशब्दोऽपि जातिनिमित्तोऽनिश्चितनियतगुणसम्बन्धे द्रव्ये वर्तत इति तस्य नियतगुणविशेषाकांक्षाऽस्ति ततश्च नीलगुणविशिष्टमुत्पलं स्यादन्यद्वा, उत्पलत्वजातिविशिष्टं द्रव्यं नीलं स्यादन्यद्वेति संशयः स्यात्, तच्च संशयं वाक्यैकवाक्यतालक्षणसमासे निराकरोति नीलशब्दो उत्पलशब्देनाभिसम्बध्यमानः विशेषवचनः, उत्पलशब्दश्च नीलशब्देनाभिसम्बध्यमानो विशेषवचन इति स च सम्बन्धः सामानाधिकरण्यरूपः भिन्ननिमित्तप्रयुक्तयोरेकस्मिन्नर्थ वृत्तेः, यदेव च द्रव्यमुत्पलं तदेव नीलमित्यभेदान्नीलोत्पलयोर्विशेषणविशेष्यभाव धेति भावः । एवं राजपुरुषादयोऽपि शब्दाः राजाभिसम्बन्धिपुरुषविशेषवचनाः सामान्योपसर्जनविशेषप्रधाना एवेत्याह...सि.क्ष.छा. डे. कोविरोधादिति । Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430