________________
भवनमेव शब्दार्थः] द्वादशारनयचक्रम्
८६७ अन्यत्वाविशेषात् , अभावतुल्यत्वाच्च, समूहश्च प्रकृतिप्रत्ययादीनां तदर्थान्तरवाचकः, एवञ्च विधिप्रधानशब्दार्थत्वात् सामान्यविशेषशब्दयोः प्रकृतिप्रत्यययोर्भवनसामान्यापरित्यागिनोस्तद्विशेषकर्तृपदार्थवाचित्वं समूहेन भवतीति नीलोत्पलमिति वर्तिपदार्थभवनसामान्यवाचिनोविशेषणविशेष्यत्वसम्बन्धलक्षणसामान्यविशेषभाविवृत्त्यर्थवाचित्वम् , व्यादिसमूहस्य वाक्यार्थवाचकत्वम् , उपात्तार्थाविरोधिसामान्योपसर्जनप्रकृतविध्यर्थत्वात् सर्वशब्दानाम् । ।
यत्त्वविरोधादित्यादि, यदपि त्वया कारणमुक्तमन्यत्वेऽपि सामान्यादिशब्दार्थानपोहे तेषामविरोधादिति सोऽप्येवमेवाविरोधो घटते, भवनविध्येकार्थीभूतत्वात्-सामान्याख्यं विशेषाख्यश्च यत्किश्चिद्वस्तु तत्सर्वं भवनमेवान्योन्यात्मापत्त्यैकीभूतं स एव शब्दार्थो विवक्षितार्थोपकाराविनाभावित्वेनैकीभूतो विधीयमानत्वादेवाविरुद्ध इति युज्यते, नान्यापोहे, अन्यत्वाविशेषात् , अभावतुल्यत्वाच्च को विरोधाविरोधाविति, समूहश्च[प्रकृतिप्रत्ययादीनां]तथा तदर्थान्तरवाचकः, तद्व्याख्या-एवञ्चेत्यादि, एवञ्च कृत्वा विधि- 10 प्रधानशब्दार्थत्वात् सामान्यविशेषशब्दयोरित्यादि यावत् वा[क्या]र्थवाचकत्वमिति, प्रकृतिप्रत्यययोर्भवनसामान्यापरित्यागिनोः तद्विशेषकर्तृपदार्थवाचित्वं समूहेन भवतीति नीलोत्पलमिति वर्तिपदार्थभवनसामान्य‘सामान्यभेदपर्यायशब्दार्थान्नापोहतेऽन्यत्वे तुल्येऽपीत्यत्र त्वया यत्कारणमुक्तं तेषामविरोधादिति सोऽविरोधो नापोहशब्दार्थतापक्षे सम्भवति किन्तु विधिशब्दार्थतापक्ष एवेति भावः । हेतुमाह-भवनेति, सामान्यं विशेषश्च भवनलक्षणात्मलाभेनानन्यार्थभूत: अनन्यभूतत्वादेव सामान्यरूपं विशेषरूपञ्च यत्किञ्चिद्वस्तु विवक्षितार्थोपकारित्वाविनाभावित्वेन शब्देन विधीयमानत्वादविरुद्धं 15 भवति, न त्वन्यापोहे वृक्षाद्भिन्ने पटादेरिव पृथिवीशिंशपातादिशब्दार्थानामप्यन्यत्वस्याविशिष्टत्वात् पटादेविरुद्धत्व सामान्यादेरविरुद्धत्वमित्यत्र नियामकाभावः, अन्यापोहस्याप्यभावस्वरूपत्वेन निर्धर्मकत्वात् विरुद्धत्वाविरुद्धत्वधर्मयोस्तत्रावकाश एव नास्तीति भावः । पूर्व समूहश्च प्रकृतिप्रत्ययादीनां तदर्थान्तरवाचक इति युक्त्या वक्ष्याम इत्युक्तं तन्निरूपयति-समूहश्चेति, घटः पटः इत्यादिप्रकृतिप्रत्ययसमुदायभूतं नामपदमेकत्वादिविशिष्टं घटं बोधयति, एवं पचतीत्यादिप्रकृतिप्रत्ययसमुदायभूतमाख्यातपदं पाककर्तारं बोधयति, अर्थस्य हि बहवोऽवस्थामेदाः सन्ति, येन च योऽवस्थाभेदः परिदृष्टस्तेनेवासौ समाख्यायते, यथा वीरस्येदं 20 वैरं वीराया इदं वैरं वा गच्छति गर्जति गिरति गदति गुवति वा गौरित्यादि, तत्र चान्वयव्यतिरेकाभ्यां प्रकृतिप्रत्ययतदर्थविभागः क्रियते, तत्र प्रकृत्यर्थः सामान्य प्रत्ययभेदेऽपि तदभेदात् , यथा वृक्षः वृक्षौ वृक्षाः, पचति पचतः पचन्तीत्यादि, प्रत्ययार्थश्च विशेषः प्रधानम् , प्रकृतिप्रत्ययौ सहार्थ ब्रूतः, तयोः प्रत्ययार्थः प्रधानमित्युक्तत्वात् , एवञ्च सामान्यविशेषशब्दयोः प्रकृतिप्रत्यययोः समुदायस्य भवनसामान्यापरित्यागितद्विशेषवाचकत्वं विधिरूपेणैव दृष्टम् । व्यस्तपदानां विधिप्रधानशब्दार्थत्वमुपदर्य समस्त
i तद्दशेयति-नीलोत्पलमितीति, वर्तिपदार्थभवनसामान्यवाचिनोः-समासघटकनीलपदोत्पलपदयोनीलगुणविशिष्टद्रव्यो- 25 त्पलत्वविशिष्टद्रव्यवाचिनोरित्यर्थः, विशेषणविशेष्यभावरूपसम्बन्धलक्षणः सामान्यविशेषभावरूपो वृत्त्यर्थः समासार्थः, तद्वाचित्वं नीलोत्पलशब्दस्य समस्तस्येत्यर्थः, ननु नीलशब्दो नीलगुणविशिष्टं द्रव्यमाह, उत्पलशब्द उत्पलत्वविशिष्टं द्रव्यम् , द्वावपि द्रव्यशब्दौ परस्परानुपकारकप्रधानार्थवाचकाविति कथं विशेषणविशेष्यभावः, अत्रोच्यते नीलशब्दो द्रव्यमाह स च गुणनिमित्तक इति तत्र नियतजातीयतया निश्चयो नास्ति, अविनाभावात्तु द्रव्यजातिमात्रमाह तथा च नियतजातीयाकांक्षास्ति, उत्पलशब्दोऽपि जातिनिमित्तोऽनिश्चितनियतगुणसम्बन्धे द्रव्ये वर्तत इति तस्य नियतगुणविशेषाकांक्षाऽस्ति ततश्च नीलगुणविशिष्टमुत्पलं स्यादन्यद्वा, उत्पलत्वजातिविशिष्टं द्रव्यं नीलं स्यादन्यद्वेति संशयः स्यात्, तच्च संशयं वाक्यैकवाक्यतालक्षणसमासे निराकरोति नीलशब्दो उत्पलशब्देनाभिसम्बध्यमानः विशेषवचनः, उत्पलशब्दश्च नीलशब्देनाभिसम्बध्यमानो विशेषवचन इति स च सम्बन्धः सामानाधिकरण्यरूपः भिन्ननिमित्तप्रयुक्तयोरेकस्मिन्नर्थ वृत्तेः, यदेव च द्रव्यमुत्पलं तदेव नीलमित्यभेदान्नीलोत्पलयोर्विशेषणविशेष्यभाव धेति भावः । एवं राजपुरुषादयोऽपि शब्दाः राजाभिसम्बन्धिपुरुषविशेषवचनाः सामान्योपसर्जनविशेषप्रधाना एवेत्याह...सि.क्ष.छा. डे. कोविरोधादिति ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org