________________
८६८
न्यायागमानुसारिणीव्याख्यासमेतम्
[उभयनियमारे वाचिनो विशेषणविशेष्यत्वसम्बन्धलक्षणसामान्यविशेषभाविवृत्त्यर्थवाचित्वं तथा राजपुरुषादीनां राजाभिसम्बन्धविशेषणादीनां ज्ञेयम् , व्यादिसमूहस्येति, देवदत्तस्तिष्ठति देवदत्तो गृहे तिष्ठति देवदत्त गामभ्याज शुक्लामित्यादि द्वि[त्रि]चतुःपञ्चादिपदसमूहानां वाक्यार्थवाचकत्वमुपात्तार्थाविरोधिसामान्यो[पसर्जन]प्रकृतविध्यर्थत्वात् सर्वशब्दानामिति ।
__ अयञ्च...... ॥ अनेन पारतंत्र्यात् सच्छब्दानाक्षेपवचनेन सन् घट इति सामानाधिकरण्यं न प्रामोतीति प्रत्युक्तं प्रतिषेधसामानाधिकरण्यं वेदितव्यम् ।
अयश्चेत्यादि श्लोकः, यदुक्तं त्वया घटादिभेदानाक्षेपित्वात् सच्छब्दस्य जातिस्वरूपोपसर्जन द्रव्यमानाभिधानात् पारतंत्र्यात् घटादिभेदाभेदत्वात्तैः सह सामानाधिकरण्याभाव इति यथा परेषां दोषस्तथा तवाप्यसन्निषेधमात्राभिधानपारतंत्र्यान्नाक्षिपत्येव सद्भेदान् घटादीनिति तुल्यदोषसम्भवे किं 10 मुधा भ्राम्यते त्वया ? इति, अनेनेत्यादि, तद्भावना पारतंत्र्यात् सच्छब्दानाक्षेपवचनेन सन् घट इति सामानाधिकरण्यं न प्राप्नोतीति प्रत्युक्तं प्रतिषेधसामानाधिकरण्यं वेदितव्यम् ।
__ आह च-'तन्मात्राकाङ्क्षणाद्भेदः स्वसामान्येन नोज्झितः । नोपात्तः संशयोत्पत्तेः साम्ये चैकार्थता तयोः।। (प्रमा० स०) इति, आत्मार्पणामात्रमाकाङ्क्षति सामान्यं स्वभेदे, अतस्तन्मात्राकांक्षणाझेदः शिंशपा वृक्षण सामान्येन नास्ति ततोऽन्यश्चेति किं तर्युपात्त एव तदनुबद्धत15 त्त्वात्, अन्यत्वे सत्यप्येककार्यत्वादेकार्थता सामान्यविशेषयोरन्योऽन्यापरित्यागे सत्यात्म
लाभादन्यतरत्यागे खरूपाप्रतिलम्भात्, अत्र यदुक्तं 'नोपात्तः संशयोत्पत्तेः साम्ये चैकार्थता तथा राजपुरुषादीनामिति । एवं पदद्वयसमूहस्य सामान्योपसर्जनविशेषविधिप्रधानवाचित्वमुक्त्वाऽसमस्तद्वित्र्यादिपदसमुदायस्यापि तथात्वमाह-देवदत्त इति, देवदत्त गामभ्याज शुक्लामित्यादावाकांक्षायोग्यताऽऽसत्तिमत्पदसंघाते सर्वतः परिपूर्णार्थप्रकाशके
पदसंघाते यदि देवदत्तपदं सामान्यमाने प्रथम प्रवर्तते ततः तस्य गवादिपदकालेऽसत्त्वात् कथं तस्य विशेषेऽवस्थानम् , 20 वाचः क्रमवर्तित्वात्, गवादिपदकाले तत्सत्त्वाभ्युपगमेऽपि तेनोपात्तायाः सकलविशेषसाधारणतायाः त्यागायोगात् विशेषेऽव. स्थापनासम्भव एव त्यागे वा पदान्तरबोध्यविशेषार्थे वाचकत्वाभावादेव कथं तत्र स्थितिः स्यात् , तस्मान्न वाक्यघटकाः शब्दाः वाचकाः किन्तु तथाविधपदसमूह एव विशिष्टपरिणामापन्नः सामान्योपसर्जनविशेषविधिप्रधानमर्थ ब्रूते बालानां वाक्यार्थप्रतिपादनाय परिकल्पितपदविभागोत्थापितार्थाविरोधेनेति भावः । यदुक्तं प्राक् अयन्तु गुणधर्मः यः स्वतोऽन्यान् व्यावर्तयन् द्रव्यमाह न तु द्रव्यविशेषानाक्षिपति परतंत्रत्वात्, अतः सामानाधिकरण्याभावः, नन्वनाक्षिप्तैरव्याप्तैरपि सामानाधिकरण्यं 25 भविष्यति विवक्षावशात्, न ह्यसत्यां व्याप्तौ साधर्म्यवैधाभ्यां कस्याप्याक्षेपः सम्भवति रूपं शुक्लं रूपं नीलमिति, तस्माच्छुतगुणमेदाभेदत्वादनाक्षेपस्ततोऽन्यस्य तद्वत इत्यादि सत्त्वपक्षे दोषः स तवापीत्याह-अयञ्चेति । व्याकरोति-यदुक्तं त्वयेति, द्रव्यादिशब्दो द्रव्यत्वं तद्वन्तं वाऽभिदधत् न द्रव्यादीन् तद्विशेषान् वाऽऽक्षिपेत् , श्रुतगुणभेदाभेदत्वात् , पारतंत्र्याच्च, ततश्च विशेषैः सहन सामानाधिकरण्यमित्यर्थः । अयं दोषोऽपोहपक्षेऽपोहवत्पक्षे च दुर्वार एवेत्याह-तथा तवापीति । असन्निषेधेति, सन् घट
इत्यादौ सद्धटशब्दयोरेकस्मिन्नर्थे वृत्तिर्न सम्भवति, तद्वाच्ययोरपोहयोभिन्नत्वात् , न चोभयोावृत्योरेकार्थे वृत्तेरर्थद्वारकं शब्दयोः 30 सामानाधिकरण्यं सम्भवतीति वाच्यम् , नीरूपयोावृत्त्योराधेयताऽसम्भवात् , वन्ध्यापुत्रवत् , सम्भवेऽपि न सद्धटौ वस्तुभूती
शब्देन गम्येते, अत एव च यैव व्यावृत्तिः स एव व्यावृत्त इति प्रत्युक्त, व्यावृत्तेावृत्तत्वे वस्तुनः शब्दादिवाच्यतापत्तेः, तस्मान्नापोहपक्षे ऐकार्यम्। व्यावृत्तिमद्वस्तुनि शब्दवाच्यत्वेऽङ्गीक्रियमाणेऽपि सदादिभेदानां घटादीनां सदादिशब्दराक्षेपोऽशक्य एव, सदादिशब्दस्य परतंत्रत्वात् , स हि असह्यावृत्त्युपसर्जनं तद्वन्तमाह, न साक्षात्, साक्षादनभिधाने च न तद्गतभेदाक्षेपो युज्यते मधुरशब्देन शक्कादेरिवेति भावः । अथ प्रकारान्तरेण व्यावृत्तेराक्षेपकत्वं सामानाधिकरण्यबादर्शयति-आह चेति । व्याचष्टे
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org