________________
भेदेन सामान्योपादानम् ]
द्वादशारनयचक्रम्
८६९
तयोः ॥' इति तत् कुतः संशयः ? कुतो वा साम्यैकार्थस्ते, अनुपात्तत्वाद्विशेषाणाम्, उपात्तत्वान्न संशयः स्याद्वृक्षवदिति चेन्न, उक्तत्वात् ।
आह चेति, उक्तार्थसङ्ग्रहकारिका, 'तन्मात्राकांक्षणात्' इत्यादि, आत्मार्पणामात्रमाकांक्षति सामान्यं स्वभेदेऽतस्तन्मात्राकांक्षणाद्भेद:- शिंशपा वृक्षेण सामान्येन [ बिना ] नास्ति ततोऽत्य् [क्त]श्चेति, किं तर्हि ? उपात्त एव, कस्मात् ? तनुबद्धतत्त्वात् तेन सह विशेषेण सामान्यस्यानुबद्धत्वे सति तत्त्वात् एकत्वापत्तेः, 5 विशेषैप्रवणत्वात्, अन्यत्वे सत्यप्येककार्यत्वादेकार्थता सामान्यविशेषैयोरन्योऽन्यापरित्यागे सत्यात्मलाभात्, अन्यतरत्यागे स्वरूपाप्रतिलम्भात् सामानाधिकरण्यम्, न हि वृक्षेण विना शिंशपा, शिंश[प] या विना वा वृक्षोऽस्तीति, अत्र यदुक्तं 'नोपात्त: संशयोत्पत्तेः साम्ये चैकार्थता तयोः ' ॥ इति तत्कुतः
wwwwwwwwww
संशयः ? कुतो वा साम्यैकार्थस्ते - संशयस्तावत्-अन्यापोहमात्रोक्तेः अनुपात्तत्वाद्विशेषाणां सामान्यशब्देन नास्ति, यद्युपात्ताः स्युर्विशेषाः स्यात् संशय [ : ] साम्यमपि च नास्ति, अनुपात्तत्वात् कुतः सामानाधि- 10 करण्यं १, उपात्तत्वान्न संशयः स्याद्वृक्षवदिति चेन्न, उक्तत्वात् - सामान्यादुपसर्जनात् विधिविशेषार्थान्नियमे निश्चयदर्शनादिति । किचान्यत्
wwwwww.
अनेकञ्च सामान्यमिह वृक्षः शिंशपेत्युक्ते भेदशब्देनोपात्तम्, शिंशपाविध्येकार्थीभूतार्थत्वात्, अतस्तयोश्चित्रा विशेषणविशेष्यता, विवक्षावशात्, शिंशपा वृक्षः वृक्षः शिंशपेत्यनिय- 15 मदर्शनात्, नामाद्यनेकं सामान्यं, पूर्वोक्तविधिना सर्वस्य नामादित्वात्, शिंशपैव वा नामाद्यतन्मात्राकांक्षणादिति, सामान्यं खभेदे आत्मार्पणमात्रं - भेदेषु खानुरक्तप्रत्ययजनकत्वेनात्मार्पणमात्रमाकांक्षति, तस्मात् सामान्येन विना भेदस्य स्वरूपमेव नास्ति, तस्मात् कथं सामान्येन स्वभेदाः परित्यज्यन्ते ? उपेक्ष्यन्ते वा ? किन्तु परिगृह्यन्त एव, विशेषेण व्याप्तत्वे सति एकात्मत्वात्, ततश्च विशेषणप्रवणत्वेन सामानाधिकरण्यं स्यादेव विशेषस्योपात्तत्वात्, अनुपात्तत्वे हि संशयः स्यादिति कारिकाभावार्थः । उपात्तत्वे हेतुमाह - तदनुबद्धतत्त्वादिति, विशेषेण विना सामान्यस्यासम्भवात् 20 तेनानुबद्धं सामान्यम्, यैव व्यावृत्तिः स एव व्यावृत्त इत्येकत्वापत्तिरपीत्यर्थः । भेदे आत्मार्पणाकांक्षणात् वृक्षाविनाभावित्वं शिंशपादेः भेदानुबद्धत्वाच्च विशेषाविनाभावित्वं सामान्यस्येति परस्पराविनाभावित्वेन तयोरात्मलाभ इत्याह- सामान्यविशेषयोरिति । परस्परं विना भावित्वे तत्स्वरूपमेव न स्यादित्याह - अन्यतरत्याग इति, तदेवं सामान्यविशेषयोरन्यत्वेऽपि सम्भूयैककार्यकारित्वात् एकार्थता सामानाधिकरण्यं स्यादेवेति भावः । परस्पराविनाभावमेव दर्शयति- न हीति । अत्राचार्यो मतमिदं निराचष्टे-अत्र यदुक्तमिति, सामान्येन विशेषानुपादाने संशयापत्तिः साम्ये चैकार्थता या त्वयोक्ता तत्कुतः 25 सम्भवति वृक्षादिशब्देनावृक्षा पोहमात्रस्योक्तत्वात् तावता च विशेषाणामनुपस्थित्या पुरोवर्त्तीिदं शिंशपादि वा निम्बादि वेति संशयप्रसङ्गाभाव एव, विशेषस्योपादानेऽप्यवस्तुत्वमेव, सामान्येन स्वात्मार्पणात्, सामान्यं हि अवृक्षापोहोऽभावात्मा, स्वात्मार्पणाच मेदोऽप्यभाव एवेति सुतरां संशयाभाव इति भावः । तदेवाह - संशयस्तावदिति, न हि नीरूपोऽभावः कमप्युपादत्त इति भावः । अनुपात्तत्वादेव च साम्यमपि नास्ति येनैकार्थता भवेदित्याह - साम्यमपि चेति, एकात्मतापि चेत्यर्थः । ननु वृक्षशब्देन वृक्षस्येव भेदा अप्युपात्ताः नातः संशयादिरित्याशङ्कते - उपात्तत्वान्नेति । सामान्योपसर्जन विशेषविधिप्रधानशब्दार्थत्वनियमे तु निश्चयोत्पत्तेर्न 30 संशयादि स्यात्, न वा सामानाधिकरण्याद्यनुपपत्तिरित्युक्तत्वादिति समाधत्ते-उक्तत्वादिति । अथ विशेषणविशेष्ययोर्विनिगमनाविरहेण सामान्योपसर्जनमेदप्रधानपक्षे संशयमुपपादयितुमाह- अनेकश्चेति । विशेषणविशेष्यभाववैपरीत्यं वृक्षः शिशपेत्यत्र नि
१ सि. तत्सम्बन्धतत्वात् क्ष. छा. तत्सनवधानत्वात् । २ सि. क्ष. छा. विशेषणेन । ३ सि. क्ष. छा. विशेषण. । ४ सि. क्ष. छा. विशेषणयो । ५ सि. क्ष. छा. धिन्तवां ते बू. ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org