________________
८७० न्यायागमानुसारिणीव्याख्यासमेतम्
[उभयनियमा पेक्षया सामान्यम्, तच्चेदं भेदेन वृक्षेण व्यभिचारिणा विध्येकार्थीभूतत्वादुपात्तं ततः संशयः स्यात् , अवृक्षशिंशपाव्यावृत्त्यर्थे वृक्षशिंशपामानयेति भवत्येव विशेष्यविशेषणत्वानियमः, न तु यथोच्यते त्वया न तयोस्तुल्ये विशेषणविशेष्यते इति, दृष्टत्वान्नियमेन तुल्यत्वस्य ।
__अनेकं चेत्यादि, इह विधिप्रधाने शब्दार्थे वृक्षः शिंशपेति चोक्ते भेदशब्देन अनेकश्च सामान्यं, 5 पृथिवीद्रव्यसदादिनामस्थापनाद्रव्यभावाख्यं सर्वमप्युपात्तम्-अव्यभिचारिणा भेदेन, शिंशपादिविध्येका
र्थीभूतत्वात् , अतस्तयोश्चित्रा-सामान्यविशेषशब्दयोर्विशेषणविशेष्यता, विवक्षावशात् कदाचिद्वृक्षण शिंशपा विशेष्यते कदाचिच्छिशपया वृक्षः, शिंशपा वृक्षो वृक्ष[:]शिंशपेत्यनियमदर्शनात् , तस्यानियमस्य हेतुं दर्शयति-नामाद्यनेकमित्यादि, नामशिंशपा स्थापनाशिंशपा द्रव्यशिंशपा भावशिंशपा, कन्यायाः शिंशपेति
नाम्नि कृते नामशिंशपा, तच्च सामान्यं पूर्वोक्तविधिना सर्वस्य नामत्वात् , शिंशपैव वा नामाद्यपेक्षया 10 सामान्यम् , तच्चेदं भेदेन वृक्षण व्यभिचारिणा विध्येकार्थीभूतत्वादुपात्तम् , ततः संशयः स्यात् , अवृक्षशिं
शपा कन्या नामशिंशपा तव्यावृत्त्यर्थं वृक्षशिंशपामौदायिकभावात्मिकां भावशिंशपा[मा]नयेति भवत्येव विशेषणत्वं वृक्षस्य शिंशपायाश्च विशेष्यत्वमनियमः, न तु यथोच्येत त्वया न तयोः तुल्ये विशेषणविशेष्यते[इति] दृष्टत्वा नियमेन तुल्यत्वस्येति, एवं तावन्नेयं यावत् सदिति ।
पयति-इह विधिप्रधान इति, वृक्षः शिंशपेत्यादौ सामान्यशब्दो विशेषशब्दश्चोभी सामान्यभेदपर्यायशब्दार्थानाहतुरिति प्राग 16 विस्तरेण प्रपञ्चितम् , तत्र यदा भेदशब्देन शिंशपाशब्देन वृक्षपृथिवीद्रव्यसत्त्वादीनि नामस्थापनाद्रव्यभावशिंशपादीनि सर्वाण्युच्यन्ते,
तेषां शिशपाभेदाव्यभिचारात शिंशपाविध्येकीभतार्थत्वाच्च तदा सामान्यविशेषशब्दयोर्विशेषणविशेष्यभावे वै चित्रतायां हेतुमाह-विवक्षावशादिति, यतो विशेष्यविशेषणते ज्ञाताज्ञातत्वप्रयुक्ते, न तु प्रतिनियते, ज्ञानञ्च वक्तृसमवेतं तदिच्छाजन्यच्च, अतो वक्त्रिच्छानुविधायित्वं विशेषणविशेष्यभावस्येति भावः । विवक्षाया नियामकत्वे लोकेऽनियतप्रयोगदर्शनमेव प्रयोजकमित्याह-शिंशपावृक्ष इति । ननु नास्ति सर्वत्रानियमः नीलोत्पलमिति उत्पलनीलमिति च प्रयोगानियमादर्शनात्, न चोत्पलशब्देन 20 जात्यात्मकमेव द्रव्यं प्रतीयते, उत्पत्तिप्रभृत्याविनाशं जातेरपरित्यागात्, न हि भवति शाबलेयस्य गौरिति, किन्तु गौः शाबलेय इत्येव,
नीलादिशब्दास्तु गुणवचनाः गुणाश्चोत्पादविनाशधर्माः, उत्पलस्य नीलमिति द्रव्यव्यतिरिक्ता अपि प्रतीयन्तेऽतो न द्रव्यस्य गुणात्मक त्वमिति गुणशब्दोऽप्रधानमेव जातिशब्दश्च प्रधानमेवेति नानियमदर्शनमिति वाच्यम्। तत्र तथा भवतु नाम, यत्र तु द्वयोर्जातिवचनत्वं वृक्षः शिंशपेति तत्रोभयोजातिवचनत्वाद्र्व्यवाचित्वात् प्रधानत्वादन्यतरस्य विशेषणत्वेनानियमो भवत्येवेति, न चात्रापि वृक्षशब्दः
प्रथममुच्यमानो भेदवाचकत्वेऽपि सर्वान् भेदान् प्रतिपादयतीति तद्विशेषणाय गृह्यमाणो विशेषणमेव भवति न तु विशेष्यम् , प्रथम 25 शिंशपेत्युक्तौ तस्य सामान्यस्यापि वाचकत्वेन शिंशपा वृक्ष इति प्रतीतेर्विशेषत्वाविनाभूतत्वात् , न हि भवति वृक्षः शिंशपेति वाच्यम् , शिंशपाशब्देन नामस्थापनाद्रव्यभावशिंशपाया अपि बोधात् कन्यादे मशिंशपाया विशेषणायोपादीयमानो वृक्षशब्दस्तद्विशेषणं भवत्येवेति अनियतप्रयोगदर्शनमस्त्येवेति निरूपयति-नामाद्यनेकमिति । ननु नामादिशिंशपानां सामान्यभेदपर्यायशब्दार्थत्वाभावात् शिंशपाशब्दार्थः कथमित्यत्राह-तञ्च सामान्यमिति, अनेकं नामादिसामान्यमित्यर्थः । अथवा नामादिषु शिंशपाया
षां सामान्यमित्याह-शिंशव वेति। तच्चेदं नामादिभेदेन-शिंशपादिभेदशब्देन नामशिंशपादेवक्षव्यभि30 चारित्वात्तद्वाचकेन शिंशपादिविध्येकार्थीभूतत्वात् परिगृहीतमेवेत्याह-तञ्चेदमिति। ततश्च प्रथम शिंशपेत्युक्तौ किं शिंशपाशब्देन शिंशपाभिधाना कन्या विवक्षिता उत वृक्षभूतशिंशपा विवक्षितेति सन्देहे तद्विशेषणायोपादीयमानो वृक्षो भवत्येव विशेषणं वृक्षशिंशपामानयेति, तस्माद्विशेषणविशेष्यभावस्यानियम एवेत्याह-ततःसंशय इति । तस्मादृक्षः शिंशपेत्यादौ विशेष्यविशेषणभावस्य व्यवस्थितत्वोतिर्न युक्ता, किन्तु विशेष्याभिमतेनापि विशेषणाभिमतस्य स्वात्मनि नियमनात्तस्यापि तं प्रति विशेषणत्वमिति द्वयोरपि विशेषणविशेष्यते नियमेन तुल्यत्वदर्शनादित्याशयेनाह-न त यथोच्येतेति । सद्व्यम्, द्रव्यं, घटः इत्यादावपि तथैव भाव्यमि3B त्याह-एवं तावन्नेयमिति। घटादिभेदशब्दे भेदान्तरवाचकपटादिशब्दार्थान् पटादीन् विरोधित्वादपोहत इति यदुक्तं तत्र किश्चित्
_Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org