________________
विरोधित्वहेतुखण्डनम् ]
यदप्युच्यते त्वया 'भेदो भेदान्तरार्थन्तु विरोधित्वादपोहते । सामान्यान्तरभेदार्थाः स्वसामान्यविरोधिनः ॥” (प्रमा० स० ) इति, तत्रापि न तु विरोधित्वादपोहते, विरोधाभावात्, अङ्गाङ्गिभावेन सामान्यविशेषभावापत्तेः सर्वस्य, कस्मात्तर्हि अपोहते ? उच्यते - 'स्वार्थावबद्धशक्तिश्च भेदो भेदमपोहते ! सामान्यार्थ विशेषार्थविधिमन्नियमश्रुतेः ॥' इति स्वार्थावबद्धशक्तित्वात् शिंशपाशब्दः खदिरादिमपोहते, सामान्यार्थविशेषार्थविधिमन्नियमश्रुतेर्भेदान्तरस्या- 5 विवक्षितत्वात् न तु विरोधित्वात्, सामान्यविशेषयोरविनाभावित्वे सामान्याविनाभाविना विशेषान्तरेण स्वरूपेणैव कथं विरुध्यते विशेषः ? एतेन सामान्यान्तरभेदार्थाः स्वसामान्यविरोधिन इत्यादि सर्वमभिहितन्यायेन प्रत्युक्तार्थमित्यलमतिप्रसङ्गेन ।
"
( यदुच्यत इति ) यदुच्यते त्वया 'भेदो भेदान्तरार्थन्तु विरोधित्वादपोहते । सामान्यान्तरभेदार्थाः स्वसामान्यविरोधिनः ॥ ' ( प्रमा० स०) ०) इति, तत्रापि न तु विरोधित्वादपोहते, विरोधाभावात्, अङ्गाङ्गिभावेन 10 सामान्यविशेषभावापत्तेरुक्तन्यायेन सर्वस्य नामाद्यपेक्षस्य, कस्मात्तर्ह्यपोहते ? उच्यते - यस्मादित्थं 'स्वार्थाशक्तिश्च भेदो भेदमपोहते । सामान्यार्थविशेषार्थविधिमन्नियमश्रुतेः ॥' ( ग्रन्थकारस्य ) इति, स्वार्थेऽवबद्धा शक्तिरस्य शिंशपाशब्दस्य वृक्षसामान्य सहायस्य शिंशपायामेवावबद्धा, तस्या एव विवक्षितत्वात्तु शब्दान्तरौर्थप्रतिपादनसहायभावाप्रतिपत्तिः, अतः स्वार्थावबद्धशक्तित्वात् शिंशपाशब्दः खदिरा दिमपोहते, किं कारणं? सामान्यार्थविशेषार्थविधिमन्नियमश्रुतेः - येयमभिहितानां सामान्यशब्देनोपसर्जनसामान्यार्थेन विशेषाणां नियमार्था
www
wwww
द्वादशारनयचक्रम्
Jain Education International 2010_04
८७१
शिक्षयितुमाह यदप्युच्यते त्वयेति । व्याकरोति-यदुच्यत इति, भेदो - विशेषशब्दो मेदान्तरार्थं-विशेषशब्दान्तरवाच्यमर्थं विरोधित्वाद्व्यावर्तयति, विजातीयव्यावृत्तिमन्तो विशेषार्था हि उपात्तसामान्यस्य विरोधिनः यथाऽघटादिव्यावृत्तिविजातीयापट | दिव्यावृत्तिमन्तः पटादयोऽघट व्यावृत्तेर्विरोधिनः, अत एव च घटशब्दः पटादिशब्दार्थ व्यावर्तयतीति कारिकार्थः । अत्र भेदान्तरार्थव्यावृत्तौ विरोधित्वादिति यो हेतुरुक्तः सोऽहेतुरेव, घटादिपटाद्येोर्विरोधाभावादिति शिक्षयति - तत्रापि न त्विति, घटशब्देन हि सद्द्रव्यपृथिवीमृद्धटनी लशुक्लकृष्णादितत्तद्धट कुट कुम्भकलशादयः नामस्थापनाद्रव्यभावघटाश्च प्रोच्यन्ते तत्र 20 सदादिसामान्येन तद्वन्तः सर्वे पटादयो विशेषा अपि तद्रूपेणोपस्थिता एव, अत एव नास्ति घटादीनां पटादिना विरोधः घटादेः केनचिद्रूपेणा घटादित्वादिति, अङ्गाङ्गिभावगत्या - प्रधानोपसर्जनभावेन सर्वस्य जगतः सामान्यविशेषभावापत्तेरुक्तत्वान्नास्ति कस्यापि केनचिद्विरोध इति भावः । ननु यदि सर्वं सर्वात्मकत्वादविरुद्धं तर्हि घटादिशिंशपादिशब्दैः पटादिखदिरादेर्न कुतो बोधः कुतो वा तदपोह्यत इत्याशङ्कते - कस्मात्तर्ह्यपोह्यत इति । कारिकामुखेनास्याः समाधिमाह - स्वार्थावबद्धेति, यस्माद्भेदशब्दस्य शक्तिः स्वार्थे प्रतिबद्धा तस्मादेव स भेदान्तरशब्दार्थमपोहते, सामान्यशब्दप्रतिपाद्यसामान्योपसर्जन विशेषार्थ- 25 नियामकश्रुतित्वादिति तदर्थः । सामान्यपदसमभिव्याहृतविशेषपदस्थले विशेषपदं सामान्यपदेनाभिव्यक्तस्याभिव्यञ्जकम्, सामान्यपदेन हि सामान्यखचिताखिलविशेषावगतिर्भवति तत्र तत्र तदुत्तरमुपन्यस्यमानो विशेषशब्दस्तन्नियमायापवादाय वा स्यात्, ततश्च शिंशपादिशब्दः शिशपां नियमयति, अपोहते च खदिरादिमिति भावार्थमाचष्टे - स्वार्थेऽवबद्धेति । शिंशपादेः शिंशपादावेव कुतोऽवबद्धा शक्तिरित्यत्राह - तस्या एवेति, शिशपाया एव वक्तुर्विवक्षितत्वाच्छब्दान्तरार्थखदिरादिप्रतिपादने शिंशपाशब्दो वृक्षशब्दस्य सहायभावं न प्रतिपद्यत इति भावः । नियामकत्वमेवादर्शयति-अत इति, यतः शब्दान्तरार्थप्रतिपादन - 30 सहायभावाप्रतिपत्तिरत एव शिंशपावबद्धशक्तित्वात् शिंशपाशब्दः खदिराद्यर्थमपोहमानः स्वार्थमाचष्टे इति भावः । वृक्षशब्देन प्रसक्तस्यान्यस्य नियामकत्वादिति हेतुमाह - सामान्यार्थेति, सामान्यशब्देन प्रतिपाद्यो यः सामान्योपसर्जनविशेषार्थ स्तं विधिरूपेणैव नियमयति विशेषश्रुतिरित्यर्थः । तमेवार्थ स्फुटयति-येयमभिहितानामिति, वृक्षशब्देनाभिहितानां सद्रव्य
१ सि.क्ष. छा. डे. 'क्षस्याकस्मा० । २ सि. क्ष. छा. डे. 'श्रुतिः । ३ सि. क्ष. छा. डे. 'रार्थाप्र० । ४ सि. क्ष. छा. डे. 'प्रतिपत्तिः ।
द्वा० ३३ (११०)
For Private & Personal Use Only
15
www.jainelibrary.org