________________
mmmmmmmm
८७२
___ न्यायागमानुसारि गीव्याख्यासमेतम् [उभयनियमारे विशेषश्रुतिः, इष्टायाः शिंशपायाः प्रतिपादनस्य तहारत्वात् , यथाऽस्माभिः प्राग्यिस्तरेण व्याख्याता सा सामान्यार्थविशेषार्थगुणप्रधानयुक्तविधेयार्थवती तस्माद्धेतोः तस्याः सामान्यार्थविशेषार्थविधिमन्नियमश्रुतेर्भेदान्तरस्थाविवक्षितत्वात् प्रयोजनाभावात् स्वार्थावबद्धशक्तित्वात् भेदः शिंशपादिः भेदं-खदिरादिमपोहते, न तु विरोधित्वात् , सामान्यविशेषयोरन्योन्याविनाभावित्वे सामान्याविनाभाविना विशेषान्तरेण स्वरूपेणैव 5 कथं विरुध्यते विशेषः?-शिंशपादिः खदिरादिनेति, एतेन सामान्यान्तरभेदार्थाः स्वसामान्यविरोधिन इत्यादिसर्वमभिहितेन न्यायेन-सामान्यविशेषभवनविद्ध्येकीभूतार्थत्वादिना प्रत्युक्तार्थम्-प्रत्युक्तः-प्रतिषिद्धः स्वार्थः त्वदीयस्य एवमादिनो वचनस्य, इत्यलमतिप्रसङ्गेन-अन्यापोहशब्दार्थनिराकरणप्रसङ्गपरम्परागतः तिष्ठतु विचारः, प्रकृतमस्त्वियर्थः ।।
यत्तूक्तं कथं पुनः शब्दस्यार्थान्तरापोहेन स्वार्थाभिधानम् ? पूर्वदोषाप्रसङ्गश्च कथम् ? 10 इत्यत्र त्वया 'अदृष्टेरन्यशब्दार्थे स्वार्थत्यांशेऽपि दर्शनात् । श्रुतेः सम्बन्धसौकर्य न चास्ति
व्यभिचारिता ॥ [प्रमा० समु०] अनुमानानुमेयसम्बन्धो हि अभिधानाभिधेयसम्बन्धः, तत्र यथा धूमस्यैकदेशे दर्शनादग्नेरनग्नेर्वाऽदर्शनादनग्निव्युदासेनाग्निप्रतीतिः तथा शब्दस्यान्वयव्यतिरेकावर्थाभिधाने द्वारम्, तौ च तुल्यातुल्ययोवृत्त्यवृत्ती, तत्र तुल्ये नावश्यं सर्वत्र
वृत्तिराख्येया, क्वचिदानन्त्येऽर्थस्याख्यानासम्भवात्, न हि संभवोऽस्ति वृक्षशब्दस्य सर्ववृक्षेषु 15 दर्शनेन, नापि सर्वत्र लिङ्गिनि सर्वलिङ्गस्य सम्भवोऽग्निधूमादिवत् , यद्यपि च क्वचिदस्ति डित्यादिषु सम्भवस्तथापि न तद्वारेणानुमानम् , सर्वात्मनाऽप्रतीतेः, गुणसमुदायो हि डित्थाख्योऽर्थः, न च सर्वे काणकुण्टादयो डित्थशब्दाद्गम्यन्ते, एवमन्वयद्वारेणानुमानाभावः।
यत्तूक्तमित्यादि, कथं पुनः शब्दस्यार्थान्तरेत्य दिचोद्यं पराभिप्रायं गृहीत्वा स्वमतनिर्दोषताप्रदर्शनार्थ स्वमतं प्रत्युच्चारयता उत्थापितं यावत् पूर्वदोष[]प्रसङ्ग इति, भेदजातितत्सम्बन्धतद्वत्पक्षगता 20 पृथिवीवृक्षत्वोपसृष्टवृक्षविशेषाणां नियमार्था शिशपाविशेषशब्दश्रुतिः, अभीप्सितशिंशपाद्यर्थप्रतिपादनस्य सामान्यशब्दार्थों
पसृष्टविधेयनियमद्वारत्वात् , यदि वृक्षशब्दो मेदान् शिंशपादीन् नाभिदधीत, ततः शिंशपायास्तद्भेदत्वं न स्यात् , वृक्षोऽपि वृक्षो न भवेदभूतशिंशपादिभेदत्वात् , एवं शिशपाशब्दो यदि वृक्षसामान्यं न विदधीत ततः वृक्षस्य तत्सामान्यत्वं न स्यात् , शिंशपाऽपि शिंशपा न भवेत् , सामान्यविशेषापन्नव्यावृतार्थत्वादित्यादिना प्रागभिधानात् सामान्यविशेषशब्दार्थयोरङ्गाङ्गिभावगत्या विशेषपरमार्थत्वेन भवनविध्येकार्थीभूतत्वात् शिंशपाश्रुतिः सामान्यार्थविशेषार्थविधिमनियमश्रुतिरिति भावः । इदमेवाह-सा 25 सामान्यार्थेति । यस्मान्नियमयति विशेषश्रुतिः सामान्यार्थविशेषार्थ तत एव भेदान्तरस्याविवक्षितत्वात्तद्विधाने प्रयोजनाभावात् स्वार्थावबद्धशक्तिः शिंशपादिविशेषशब्दः खदिरादिभेदान्तरमपोहते, न तु भेदान्त्रेण विरोधादिल्याह-तस्माद्धेतोरिति । अविरोध प्रदर्शयति-सामान्यविशेषयोरिति, भेदस्य भेदान्तरेण नास्ति विरोधः, स्वसामान्याविनाभावित्वेन स्वस्वरूपत्वादिति भावः । सामान्यान्तरभेदाथोः खसामान्यविरोधिन इत्यपि यदुक्तं त्वया तदपि प्रतिक्षिप्तम् , सामान्याख्यं विशेषाख्यं च यत्किञ्चि' द्वस्तु तत्सर्वं भवनमेव, अन्योऽन्यात्मापत्त्या चैकीभूतं तदेव शब्दार्थः, स चाविरुद्धः, विवक्षितार्थीपकारावि-भावित्वेनेकीभूततया 30 विधीयमानत्वादिप्रागुक्तत्वान्नान्यापोहः शब्दार्थों युज्यत इत्याह-एतेनेति । नन्वन्तिरापोहेन स्वार्थ शब्दो यधुच्यते तर्हि
भेदजातितत्सम्बन्धतद्वच्छब्दार्थतापक्षेषु य आनन्त्यव्यभिचारादिभिः समयासम्भवलक्षणदोष उक्तः सोऽन्यापोहवत्पक्षे कथं न स्यादित्यत्रापोहवाद्युदीरितसमाधिपरिजिहीर्षयाऽऽह-यत्तक्तमिति । अर्थान्तरापोहपूर्वकस्वार्थाभिधानं शब्दस्य कथं युज्यते इत्यादिप्रन्यो मेदुजात्यादिवाद्यभिप्रायं परिगृह्य खमते ते दोषा न सन्तीति प्रदिदर्शयिषया स्वमतमुपवर्णयताऽपोहवादिनोद्भाविता इत्याख्याति-कथं पुनरिति । पूर्वपक्षाभिप्रायमाह स एव-भेदजातीति, भेदो-विशेषो वा जातिवा जातिसम्बन्धो वा जाति..
__Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org