________________
nmamim----
अन्वयव्यतिरेकासम्भवः] द्वादशारनयचक्रम् . दोषास्त पाप्यानन्यव्यभिचारादयः कथं [न] स्युरिति ननु शब्दस्यार्थान्तरापोहेनेति परपक्षदोषाभिधानमात्रेण स्वपक्षासिद्धितः पृच्छति, कथं वाऽर्थान्तरापोहेन स्वार्थाभिधानं, पक्षसिद्धिरिति वाक्यशेषः, पूर्वदोषाप्रसङ्गश्च कथं अर्थान्तरापोहेन स्वार्थाभिधाने, अत्रोच्यते त्वया-'अदृष्टेरन्यशब्दार्थे स्वार्थस्यांशेऽपि दर्शनात् । [श्रुतेः सम्बन्धसौकर्यं न चास्ति व्यभिचारिता] ।' (प्र. समु.) अन्यापोहेनार्थाभिधानसिद्धिरिति वाक्यशेषः, अनुमानानुमेयसम्बन्धो ह्यभिधानाभिधेयसम्बन्धः, तत्र यथा धूमस्यैकदेशे दर्शना- 6 दग्ने , अनग्नेर्वाऽदर्शनादन नव्युदासेनाग्निप्रतीतिः, तथा शब्दस्यान्वयव्यतिरेकावर्थाभिधाने द्वारम् , तौ च तुल्यातुल्ययोवृत्त्यवृत्ती, तत्र तुल्ये नावश्यं सर्वत्र वृत्तिराख्येया, क्वचिदानन्त्येऽर्थस्याऽऽख्यानासम्भवात, न हि सम्भवोऽस्ति वृक्षशब्दस्य सर्ववृक्षेषु दर्शने[न], नापि सर्वत्र लिङ्गिनि सर्वलिङ्गस्य सम्भवः, अग्निधूमादिवद्यद्यपि च कचिदस्ति डित्थादिषु सम्भवः, तथापि न तद्वारेणानुमानम् , सर्वात्मनाऽप्रतीतेः गुणसमुदायो हि डित्थाख्योऽर्थः, न च सर्वे काणकुण्टादयो डित्थशब्दाद् गम्यन्ते, एव-10 मन्वयद्वारेणानुमानाभावः।
स्यादेतव्यतिरेकस्याप्यसम्भवः, तत आह
अतुल्ये तु सत्यप्यानन्त्येऽशक्यमदर्शनमात्रेणाख्यानम् , अदर्शनेऽप्रवृत्तेः, अत एव च स्वसम्बन्धिभ्योऽन्यत्रादर्शनात्तव्यवच्छेदानुमानम् , एवञ्च कृत्वा वृक्षशब्दाद् द्रव्य- .:
mmmmmmm
मान्वा शब्दस्याथै इति पक्षगता इत्यर्थः । के दोषा इत्यत्राह-आनन :. आनन्त्यपदेन समयाभाव उच्यते भेदस्य विशेषस्य 15 खलक्षणस्य क्षणिकत्वेन सङ्केतव्यवहारप्राप्तकालाव्यापकत्वात् , न ह्यतीतानागतभेदभिन्नेष्वनन्तेषु भेदेषु समयः सम्भवत्यतिप्रसङ्गात् जातितद्योगयोरसिद्धत्वात्तद्वतोऽप्यसम्भवादानन्त्यमेव- समयासम्भव एव, अविद्यमानानामप्येषां शब्दार्थत्वे व्यभिचार इति भावःसत्त्ववादी जात्यादिपक्षे दोषप्रदर्शनमात्रेण स्वपक्षासिद्धिमभिमन्यमानः प्रश्नयतीत्याह-ननु शब्दस्येति । अत्र बौद्धस्योक्तिमुपन्यस्यत्याचार्यः-अत्रोच्यते त्वयेति, वाच्यवाचकभावो नानुमानानुमेयसम्बन्धादन्यः, शब्दस्यान्यशब्दार्थेऽदर्शनात् स्वार्थैकदेशे दर्शनाच्चान्यापोहेन स्वार्थाभिधानसिद्धिरिति भावः । अनुमानानुमेयभावसम्बन्धमेव तावदर्शयति-तत्र यथेति, धूमस्याग्नेरेकदेशे 20 दर्शनात् , अनग्निमत्यदर्शनाद्यथा धूमोऽनग्निव्यावृत्त्या वहिं गमयतीत्यर्थः । तथा शब्दोऽप्यन्वयव्यतिरेको द्वारीकृत्य खार्थमभिदधीतेत्याह-तथा शब्दस्येति । तौ चान्वयव्यतिरेको तुल्ये वृत्तिरतुल्ये चावृत्तिरित्येवंरूपावित्याह-तौ चेति । तत्र तुल्ये सर्वत्रावश्यं शब्दस्य वृत्तेराख्यानं न सम्भवतीत्याशयेनाह-तत्र तुल्य इति । अनाख्येयत्वे कारणमाहक्वचिदानन्त्य इति, स्थलविशेषेऽर्थस्यानन्तत्वेन सर्वत्र शब्दस्य वृत्तेराख्यानासम्भवादन्वयग्रहासम्भव इति भावः। असम्भवमेव दर्शयति-न हीति. वृक्षाख्योऽर्थोऽनन्तः, सर्वेषु वृक्षेषु भूतभविष्यद्वर्तमानेषु न वृक्षशब्दस्य दर्शनं सम्भवतीति भावः । ननु 25 लिङ्गलिङ्गिभावेन स्यादवगतिरित्यत्राह-नापीति, नापि सर्वेषु वृक्षेषु लिङ्गिषु सर्वेषां वृक्षादिशब्दानां लिङ्गानां दर्शनं सम्भवतीति भावः । धूमादग्नेरनुमानवत् डिस्थादिशब्दात् डित्थादेरवगतिः स्यात् वाच्यवाचकयोरेकत्वादित्याशङ्कायामाह-अग्निधूमादिवदिति । तत्रापि डित्यादिशब्दान्न डित्थाद्यर्थानुमानं सम्भवतीत्याह-तथापीति । हेतुमाह-सर्वात्मनेति, डित्थादेर्गुणसमुदायात्मनोऽर्थस्य सर्वस्वरूपेण न डित्थशब्दादवगम इति भावः । तदेवं तुल्ये वृत्तेराख्यानासम्भवेन नार्थानुमानसम्भव इत्युपसंहरति-एवमिति । अतुल्येऽवृत्तिलक्षणव्यतिरेकद्वारेणाप्यनुमान न सम्भवतीत्याह-अतुल्य इति । अतुल्ये-विपक्षेऽन्य- 30
१ सि. क्ष. छा. डे. °रन्यशब्दार्थस्वार्थ । २ सि.क्ष. छा. डे. अन्यापोहेन नार्थाः।
..
_Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org