________________
८६६ न्यायागमानुसारिणीव्याख्यासमेतम्
[उभयनियमारे वेति चेदुच्यते शिंशपादिः, तत्सम्परिग्रहेण वृक्षादेः सत्त्वस्यानुवृत्तेः सामान्यस्य सम्परिग्रहेण तदभावावृक्षाद्यसदतघ्यावृत्त्यपोहपरिग्रहेण चात्यजन्नेवानुवृत्तिव्यावृत्ती। किं कारणं न ते त्यज्यतीति चेदुच्यतेयस्मात् तदुपसर्जनाशिंशपाऽभवनबीजतां यन् स्वार्थमभिधत्ते, गच्छन्-व्रजन्नित्यर्थः, स्वार्थानुवृत्ति
सामान्योपसर्जनत्वस्याशिंशपायाः-घटादेः तत्राभवनलक्षणस्य च व्यावृत्तिसामान्यस्य स्वार्थ:"5 शिंशपाशब्दस्य शिंशपार्थः स बीजं तयोरनुवृत्तिव्यावृत्त्योः, इतरथा किमित्यसावपोहेत, अप्रतिपादयन् किञ्चित् ?, यदि तु सोऽपीत्यादि पूर्ववद्वन्थ ईषद्विशिष्टः प्रसङ्गो यावद्विशेषार्थविधिरित्युपनयः, तत्र विशेष उच्यते-वृक्षः शिंशपेत्यत्र शिंशपाशब्दो न विदध्यात् वृक्षार्थ, शिंशपाविशेषात्मापन्नव्यावृत्तत्वात् इति पूर्ववद्गमोऽर्थापत्त्या नानुमन्येत वा, अवृक्षो न भवतीत्युक्तेऽर्थादापन्नं वृक्षो भवतीत्ययमर्थो मा भूत् , इष्यते
चासौ, कुतः ? उपात्तार्थाविरोधात्, उपात्तार्थाविरोध इत्यत्रेतिशब्दस्य हेत्वर्थत्वात् , अशिंशपाभवनवदि10 त्यादिरवृक्षाभवनवदित्यादितुल्यः, सामान्यगमविपर्ययेण तदविनाभाविविशेषार्थो गमनिकया नेयः,
अभावत्वादवृक्षत्वादित्यादिहेतुकः, अभावमात्राभ्युपगमाच हेतुसिद्धिः, तद्विपर्ययेऽस्मत्पक्षापत्तिः, शेषग्रन्थ. भावना पूर्वग्रंथभावनातुल्या, एवं तावत् सामान्यभेदपर्यायशब्दार्थानपोहवत् सामान्यसामान्यशब्दार्थानपोहोऽन्तर्निविष्टविशेषाभिधायिसामान्यशब्दार्थविधिश्चोक्तः, विधेरेव शब्दार्थत्वात् ।
यत्त्वविरोधादित्युक्तं सोऽप्येवमेवाविरोधो घटते भवनविध्येकार्थीभूतत्वान्नान्यापोहे,
18 भावः, सत्त्वमनुवृत्तिश्च सामान्यपर्यायौ, असदभावावृक्षाद्यसदतद्व्यावृत्तिशब्दा अपोहपर्याया इति ध्येयम् । अनुवृत्तिव्यावृत्त्योरत्यागे
कारणमाह-यस्मादिति । शिंशपादिशब्दो वृक्षसामान्योपसर्जनत्वमशिंशपाव्यावृत्तिञ्चोपगच्छन्तं स्वार्थ शिंशपां तेऽत एव शिंशपा वृक्षोपसर्जनत्वस्यानुवृत्तेः अशिंशपाऽभवनस्य व्यावृत्तिसामान्यस्य च बीजभूतेति भावः, गच्छन् ब्रजनिति यन्निति पदस्यार्थः । यदि शिंशपाशब्दः शिंशपां नाभिदधीत वृक्षादिः कस्य सामान्यं स्यात् , अपोहो वा कस्मादन्यस्य स्यात्तस्माच्छिशपा तयो/जमित्याशयेनाह-इतरथेति, तस्मात् विशेषशब्दः खार्थ वृक्षोपसर्जनं वक्तीति भावः । यदि तु स शब्दोऽशिंशपा20 व्यावृत्तिमात्रं ब्रवीति न तु वृक्षोपसर्जनशिंशपामित्युच्यते तर्हि वृक्षादिसामान्यशब्दस्यावृक्षो न भवतीत्यपोहमात्राभिधाने
यदि तु सोऽप्यपोहपर एव स्यादित्यादिग्रन्थेनोक्ता दोषाः प्रसज्यन्त इत्याह-यदि तु सोऽपीत्यादीति । वृक्षः शिंशपेत्यत्र शिंशपाशब्दस्यापोहमात्रपरत्वे वृक्षविधिपरत्वं न स्यात् शिंशपाखरूपापत्तेावृत्तत्वात्, स्वसमानाधिकरणवृक्षशब्दार्थेनावृक्षो न भवतीत्येवंरूपेणार्थादापन्नं वृक्षार्थ वा नानुमन्येत शिंशपाशब्दः, अनुमन्यते तु, शिंशपाशब्दोपात्तार्थेनाविरो
धादिति पूर्वग्रन्थतोऽत्र विशेषमादर्शयति-तत्र विशेष इति । शिशपाशब्दो वृक्षादिसामान्येनानर्थित्वादृक्षसामान्यं न विदधीत 25 नानुमन्येत नाप्यपोहेत वेत्यत्र दृष्टान्तं विशिष्टमाह-अशिंशपाभवनवदिति. शिंशपाशब्दस्य घटायशिंशपाव्यावृत्तिकरण
एवोपक्षीणशक्तित्वेन वृक्षादिविधानादौ व्यापार एव नास्तीति भावः । यतश्च वृक्षादिसामान्यात्मकं शिंशपादि न विधत्तेऽत एव तद्भवनविध्येकार्थीभावे यत्सामानाधिकरण्यं भवति तद्भवनविधिविनाभावे न घटतेऽतः वृक्षः शिंशपेति तथा भवनविधिविनाभूतं
ये न समानाधिकरणं त्वदभिमतं वस्तु स्यात् , अभावत्वादवृक्षत्वाद्वन्ध्यापुत्रवदिति साधकहेतुमादर्शयति पूर्वग्रन्थोकाद्विशिष्ट हेतुं दर्शयन्-अभावत्वादवृक्षत्वादिति । शेषभावना पूर्वभावनातुल्येल्याह-शेषति, उपसंहरति-एवं ताव30 दिति। अन्तर्निविष्टेति, अभ्यन्तरीकृतविशेषं सामान्य सामान्यशब्दो विधत्ते, विधेरेव शब्दार्थत्वादिति भावः । अथ वृक्षशब्दः
सामान्यभेदपर्यायशब्दानामर्थं नापोहतेऽन्यत्वे तुल्येऽपि, अविरोधात् , विरोधात्तु घटादीनपोहत इति यदुच्यते तन्नाविरोधोऽपि विधिशब्दार्थतापक्ष एव घटते नान्यापोहपक्ष इत्याह-यत्त्वविरोधादित्युक्तमिति । व्याचष्टे-यदपि त्वयेति, वृक्षशब्द - सि.क्ष. छा.डे. पोहोतविशिष्टविशेषा।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org