________________
सामान्यन्यावृत्तिमदर्थः] द्वादशारनयचक्रम्
८६५ विधिविनाभावे तु न युज्यते, भवनविधिविनाभूतं सामान्यानाक्षेपि न समानाधिकरणं, वृक्षः शिंशपेति त्वदमिमतं वस्तु स्याद् भावत्वादवृक्षत्वाद्वन्ध्यापुत्रवत् , कुतोऽस्य सामान्यस्य सामान्यत्वम् ? शिंशपादि भेदस्याभावत्वे सत्यसिद्धत्वात् , कथं तर्हि सोऽपि भेदो न भवति वृक्षः शिंशपादिः, अन्यस्मादव्यावृत्तेः, वृक्षः शिंशपाभावादामादेरव्यावृत्तेः शिंशपैव न भवति कुतो भेदः ? अत्रोच्यते यद्यसावप्यभेदो न भवति न तर्हि शिंशपा शिंशपा भवति, अभूत- 5 वृक्षादिभेदत्वात् घटवत् सोऽप्येवमेव, अभूतमृदाद्यभेदत्वात् , एवं सर्वत्र सामान्येन न भवन्त्यर्थाः स्वसामान्यशून्यत्वात् , खपुष्पवदेवञ्च सर्वमिदं दृश्यादिवस्तु शून्यमापद्यते त्वन्मतेनैवेति कः केन कस्माद्वाऽपोहते, अथ कथञ्चित् भवन्नपि वृक्षो वृक्षो न भवतीति शिंशपा भवत्यपि शिंशपा न भवतीतीष्यते ततो विधिर्विषयः संवृत्तस्तदुपसर्जनश्चापोहोऽसत्त्वादसत्यः उक्तवदेवेत्येष शब्दस्य विशेषार्थविधिरिति ।
(यथेति), यथान्यत्वे विशेषप्राधान्यात् सामान्यभेदपर्यायशब्दार्थास्तदङ्गत्वात्तदात्मकत्वाद्वा नापोह्यन्ते तथा विवक्षितशब्दार्थादन्यस्य विशेषशब्दार्थस्य[1] विशेषशब्दार्थस्य वा सामान्यस्य स्वार्थ विशेषशब्दोऽभिधत्ते, कथम् ? तत्त्वेनात्मानं-सामान्येन सहैकीभावं विदधत् आत्मनः उपसर्जनभावे सहायकीकारयन् , किं करोति ? स्वार्थ विधत्त इति वर्तते, अभेदत्वात् ,[न]सत्त्वापत्तिपरित्यागेन-न च वृक्षपार्थिवमृद्रव्यसत्त्वसामान्यानि त्यक्त्वा विशेषं तैरेकान्तेन विविक्तं प्रतिपादयति, तथारूपार्थासम्भवात् 18 सामान्योपसर्जनत्वोपायप्रतिपाद्यविशेषात्मलभात्वात्, नाप्यवृक्षाशिंशपादि न भवतीत्यसत्त्वापत्तिमेव स्वार्थप्रतिपत्तिरहितां ब्रूते, अभिधेयाभावे शब्दार्थव्यवहारोच्छित्तिप्रसङ्गात् , कोऽसौ विशेषशब्दस्तदर्थों
10
•mmmmmmmm
उपोहः संवृतिसत्त्वादसन् गुणपर्यायलक्षणो हि विशेष एव सन्, अङ्गुलिव्यतिरिक्तमुष्टिवदित्यसत्योपाधिसत्यः शब्दार्थः सम्पन्नः, तस्य च विधित्वाद्विधिना सामान्योपसर्जनं विशेषमभिदधानः शब्दो न किञ्चिदपोहते, अनपवादप्रतिपत्तिजनकत्वाद्विधेरित्युक्तत्वा. दिति भावः । सामान्यशब्दस्य सामान्ये विशेषविध्यर्थत्वात् न किञ्चिद्व्याहन्यत इत्यप्युक्त एवेत्याशयेनाह-एतेनेति । इदमेव 20 समर्थयति-यथाऽन्यत्व इति । वृक्षादिशब्दस्यानारभ्यविधित्वाद्विधिप्राधान्येन विशेषमभिदधद्धटादीनामिव पृथिवीशिंशपात
दिसामान्यमेदपर्यायशब्दार्थानामन्यत्वस्य तुल्यत्वाद्विरोधाविरोधाभ्यामपोहानपोहप्रसङ्गे तदङ्गत्वतद्भवनात्मकत्वाद्वा न सामान्यादयोऽपोह्यन्त इत्याह यथाऽन्यत्वे विशेषप्राधान्यादिति । तथा विवक्षितवृक्षादिशब्दादन्यस्य सामान्यशब्दस्य स्वार्थ पृथिवीद्रव्यादिकं विशेषशब्दः सामान्येन सह खार्थमेकीभावं विदधत् प्रतिपादयतीत्याह-तथा विवक्षितेति । सामान्येनात्मानमेकीभावं विदधत् कथमभिधत्त इत्यत्राह-आत्मन इति । न सामान्यं परित्यज्य केवलं विशेषं विशेषशब्दः प्रतिपादयितुं क्षम 38 इत्याह-न सत्त्वापत्तीति । सामान्यासम्पृक्तविशेषात्मकवस्तुनोऽसम्भवादिति हेतुमाह-तथा रूपार्थेति । सामान्यमुपसर्ज. मस्वाद्विशेषप्रतिपादनायोपायत्वात्तस्यैव विशेषस्य परमार्थत्वेन तदङ्गभावं गतमिति न तत्परित्यागेन विशेष विशेषशब्दोऽभिधत्ते इत्याह-सामान्योपसर्जनत्वेति । नापि केवलं विशेष विनाऽवृक्षाद्यपोहमेव वृक्षशब्दो ब्रूत इत्याह-नाप्यवृक्षेति । अभावमात्रार्थत्वे मेदानाक्षेपस्वभेदशून्यत्वात् सर्वशून्यतापत्त्याऽभिधेयाभावाच्छब्दार्थव्यवहारभङ्गप्रसङ्ग इत्याचष्टे-अभिधेयाभाव इति । शिशपादिविशेषशब्दः सत्त्वानुवृत्तिस्वरूपवृक्षसामान्यस्य सम्परिग्रहणेनावृक्षाद्यसत्त्वपरिग्रहेण च शिंशषादि ब्रूते इत्याह- 30 कोऽसाविति, शिंशपादिशब्दः वृक्षादिसामान्यसम्परिग्रहेणावृक्षापोहपरिग्रहेण चानुवृत्तिव्यावृत्ती अत्यजन्नेव स्वार्थमाचष्टे इति
१ विवक्षितशब्दादन्यस्याविशेषशब्दस्य सामान्यशब्दस्य स्वार्थ विशेषशब्दोऽभिधते इति पाठः स्यादितिसंभाव्यते, सामान्यशन्दार्थविशेषतायाः प्रतिपाद्यत्वात् । २ सि.क्ष.छा.डे. °ध्यात् मनउप० । ३ सि.क्ष. छा. विशेषतरेका।
_Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org