________________
८६४ न्यायागमानुसारिणीव्याख्यासमेतम्
[उभयनियमारे धेयं वा वस्तु शून्यमापद्यते, त्वन्मतेनैव कः किं केन कस्माद्वाऽपोहते ? सर्वस्य शून्यत्वे कः किमित्यादि कर्मकरणापादानभूतानां शब्दादीनामभावेऽपोहाभाव एवमित्यर्थः ।
अथ कथञ्चित् भवत्यपि वृक्षोऽवृक्षो न भवति शिंशपा न भवति शिंशपाभवत्यपीतीष्यते ततो ब्रूमः स्वार्थे इत्युक्तर्विधिर्विषयः संवृत्तोऽर्थः, तदुपसर्जनश्चापोहोऽसत्त्वादसत्यः, उक्त5 वदेवेत्येष शब्दस्य विशेषार्थविधिः, एतेन सामान्यशब्दार्थविशेषताप्युक्तैव ।
अथ कथञ्चिदित्यादि, मा भूदेष सर्वशून्यत्वदोष इति त्यक्त्वा भवनाभावमात्रार्थैकान्तापोहकल्पना केनचित्प्रकारेण भवत्यपि वृक्षोऽवृक्षो न भवति शिंशपा न भवति शिंशपा भवत्यपीतीष्यते शब्दार्थशून्यत्वदोषभयात् ततो वयं ब्रूमः, स्वार्थे इत्युक्तेः-स्वार्थे कुर्वती श्रुतिरभिधत्त इत्यादिवचनांश एव विधिर्विषयः संवृत्तोऽर्थः, तदिदानी प्रस्तुतनयमतेन शब्दार्थ योजयति-तदुपसर्जनश्चापोहोऽसत्त्वादसत्यः 10 विशेषार्थस्य विधेरुपसर्जनोऽपोहः, स चासत्त्वादसत्यः, उक्तवदेव प्राग्विस्तरेणासत्योपाधिसत्यः शब्दार्थः, -:स च विशेषमेव विदधाति नापोहत इत्येष शब्दार्थविधिरिति, एतेन सामान्यशब्दार्थविशेषताप्युक्तैव ।
यथाऽन्यत्वे विशेषप्राधान्यात् सामान्यभेदपर्यायशब्दार्थास्तदङ्गत्वात्तदात्मकत्वाद्वा नापोह्यन्ते तथा विवक्षितशब्दादन्यस्याविशेषशब्दस्य स्वार्थ विशेषशब्दोऽभिधत्तेऽतत्त्वेनात्मानं विदधत् अभेदत्वान्न सत्त्वापत्तिपरित्यागेनैकान्तं विविक्तम् , नाप्यवृक्षाद्यसत्त्वापत्तिमेव, किन्तु 15 शिंशपादिशब्दः तत्सम्परिग्रहेण शिंशपादि, अत्यजन्नेवानुवृत्तिव्यावृत्ती तदुपसर्जनाशिंशपाऽभवनबीजतां यन् स्वार्थमभिधत्ते, इतरथा किमित्यसावपोहेताप्रतिपादयन् किश्चित् ? यदि सोऽप्यपोहपर एव स्यात् शिंशपाशब्दो न विदध्यादृक्षार्थम् , शिंशपाविशेषात्मापन्नव्यावृत्तत्वात् , नानुमन्येत नाप्यपोहेत वार्थापत्तिलभ्यत्वाद्वक्षार्थों मा भूत् , तथा चोपात्तार्थविरोध इति, कुतोऽविध्यननुमत्यव्युदासा इति चेदनर्थित्वात् , अनर्थी हि शिंशपाशब्दो 20 वृक्षादिना सामान्येन, अशिंशपाभवनवत् , अशिंशपा घटादि तदभवन एवापक्षीणशक्तितया वृक्षादिसामान्यात्मकशिंशपाविधाने व्यापार एव नास्ति, यदसौ शिंशपाशब्दो शिंशपार्थ घटादिभ्योऽन्यत्वेन वृक्षादिसामान्यात्मकं स्वार्थमनन्यत्वेन विदधाति ततस्तेन सह वृक्षः शिंशपेति सामानाधिकरण्यं प्रतिपद्यते । वृक्षः शिंशपेति तद्भवनविध्येकार्थीभावात् तद्भवनधिनेति भावः । एवं सर्वशून्यत्वादपोह एव न स्यात् तत्कर्तृकर्मकरणापादानभूतानां कस्याप्यभावादिति दर्शयति-का किमिति । 25 अथान्यापोहमात्रार्थकल्पनां परित्यज्य कथमप्ययं वृक्षो भवत्यपि शिंशपा वृक्षः शिंशपेति, तद्भवनविध्येकार्थीभावात्,
तद्भवनभवनविधिविनाभावे न युज्यते भवत्यप्यवृक्षो न भवति शिंशपा न भवति, उक्तशून्यताप्रसज्ञादिति शङ्कते.. अथ कथश्चिदिति । व्याचष्टे-मा भूदेष इति, एकान्तेन भवनाभावरूपोऽपोहः शब्दार्थ इति कल्पनां त्यक्त्वा:
भावविशिष्टो भावः शब्दार्थः स्वीक्रियत इति भावः । वृक्षः वृक्षवरूपो भवन्नन्यापोहात्मकोऽपि, स एव शिंशपा भवन् शिंशपा न भवत्यपि, शिंशपाया अवृक्षात्मकत्वोक्तरित्याशयेनाह-केनचित्प्रकारेणेति । अन्यापोह शब्दान्तरार्थापोहं वा स्वार्थे कुर्वती 30 श्रुतिरभिधत्त इति वचनात् स्वार्थेति वचनांशेनोक्तोऽर्थो विधिरेव मुख्योऽर्थः सम्पन इत्याशयेन प्रस्तुतनयः खाभ्युपगमानुकूलतामस्य दर्शयति-स्वार्थ इत्युक्तरिति, एतद्वचनांशप्रतिपाद्योऽर्थो विधिः शब्दविषयः संवृत्त इत्यर्थः । भवतु किं तत इत्यत्राह-तदिदा. नीमिति, एवं विधिविषयेऽभ्युपगम्यमानेऽयं नयो योजयति स्वमतेन शब्दार्थमित्यर्थः । तदुपसर्जन इति, विषेरुपसर्जनीभूतो
१ सि. स्वार्थाधुक्तेः क्ष.छा. स्वार्थायुक्तः। २ सि. क्ष. छा.डे. संवृतोऽ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org