________________
दृश्यादिवस्तुशून्यता ]
इतर आह
कुतोऽस्य भेदस्य भेदत्वम् ? वृक्षसामान्यस्यावृक्षाभावत्वे सत्यसिद्धत्वात् कथं सोऽपि तर्ह्यभेदो न भवति शिंशपादिवृक्षः ? अनिवृत्तेः, शिंशपा वृक्षाभावाव्यावृत्तो वृक्ष एव न भवति कुतोऽभेदः, अत्रोच्यते यद्यसावपि भेदो न भवति न तर्हि वृक्षो वृक्षो भवति, अभूतशिंशपादिभेदत्वात्, घटवत् सोऽप्येवमेव, अभूतग्रीवादिभेदत्वात्, वृक्षवत्, एवं ग्रीवा दिरभूत कपालादित्वादित्यादि यावत् परमाणुर्न भवत्यभूतरूपादिभेदत्वात्, विज्ञानवत्, रूपादिरप्यरूपादि, अभूतरू- 5 पक्षणभेदत्वात्, विज्ञानवदेव, सर्वत्र वा सामान्येन न भवन्त्यतोऽर्थाः स्वभेदशून्यत्वात् खष्पवत् एवञ्च सर्वमिदं दृश्यादिवस्तु शून्यमापद्यते त्वन्मतेनैव कः किं केन कस्माद्वाऽपोहते ?
द्वादशारनयचक्रम्
( कुत इति ) कुतोऽस्य भेदस्य भेदत्वं ? - शिंशपादेर्वृक्षभेदाभिमतस्य तद्भेदत्वं, वृक्षसामान्यस्यावृत्तिलक्षणस्य [r] वृक्षाभावत्वे सत्यसिद्धत्वात् कस्य भेदः शिंशपादिः ?, तस्माद्भेदस्य शिंशपादेर्भेदत्वं कुतः ? नैवास्तीत्यर्थः, कथं सोऽपि तर्ह्यभेदो न भवति शिंशपादिर्वृक्ष:, [ न ] अभेदो यस्मादनिवृत्तोऽनपोहः, 10 शिंशपा वृक्षाभावाव्यावृत्तो वृक्ष एव न भवति, कुतोऽभेदः शिंशपादिर्वृक्ष इति, अत्रोच्यते-यद्यसावपीत्यादिअनिष्टापादनसाधनम्, यद्यसावपि भेदो न भवति शिंशपादि न तर्हि वृक्षो[ वृक्षो भवतीति वृक्षस्यैवावृक्षत्वमवस्तुत्वं प्रतिज्ञायते, हेतुः - अभूतशिंशपादिभेदत्वात्, घटवदिति दृष्टान्तः सोऽप्येवमेवेत्यादि - यदि तु सोऽपि घटो न भवति भेद इतीष्यते तस्याप्यघटत्वमभूतग्रीवादिभेदत्वात्, वृक्षवत्, एवं ग्रीवादिरभूतकपालादित्वादित्यादि यावत् परमाणुर्न भवत्यभूतरूपादिभेदत्वाद्विज्ञानवत्, रूपादिरप्यरूपादि, अभूतरूपक्षण- 16 भेदत्वात् विज्ञानवदेव, सर्वत्र वा सामान्येन न भवन्त्यतोऽर्थाः स्वभेदशून्यत्वात् खपुष्पवदिति, एवञ्चेत्यादि, प्रयुक्त[प्र ] स्तुतदोषापादनोपसंहारः एवमनेन विधिना सर्वमिदं दृश्यादि - प्रत्यक्षाभिमतमनुमेयमभि
www.ww
Jain Education International 2010_04
८६३
त्वदभिमतं वस्तु मेदानाक्षेपि, न समानाधिकरणम्, अभावत्वात्, बन्ध्यापुत्रवदिति प्रयोगः, स्पष्टोऽर्थः । ननु भेदानाक्षेपित्वं यत्साध्यते तन्न युक्तम् ; सिद्धसाधनत्वात्, न हि वृक्षशब्दार्थस्यावृक्षाभावस्य शिशपादयो भेदा भवितुमर्हन्ति, तद्भेदत्वासिद्धेरित्याशङ्कते - कुतो - ऽस्येति । तद्व्याचष्टे-शिंशपादेरिति । हेतुमाह-वृक्षसामान्यस्येति, तद्धि वृक्षसामान्यमनुवृत्तिलक्षणमवृक्षाभावरूपम्, अत 20 एवं च तद्भेदत्वं शिंशपादेरसिद्धमिति भावः । अथ यदि शिशपा दिर्वृक्षस्य भेदो न भवति भवतु तर्हि वृक्षेणाभेदः शिशपादिवृक्ष इति चैवमिति शङ्कते - कथं सोऽपीति । अभेदस्तदा स्याद्यदा शिंशपादिवृक्षाभावव्यावृत्तः स्यात्, यदा तु न वृक्षाभावाद्व्यावृत्तस्तदाऽसौ वृक्ष एव न भवति कुतस्तदभेद इति वादी समाधत्ते - नाभेद इति । विशेषेण विना सामान्यं न भवतीति सर्वसिद्धम्, तथा च यदि शिंशपादिर्वृक्षभेदो न स्यान्न स्यात्तर्हि वृक्षो वृक्षः, वृक्षो वस्त्वेव न भवेदित्यसौ नयोऽनिष्ट मापादयति-यद्यसावपीति । वृक्षो न वृक्षो वस्तु बेत्यत्र हेतुमाह-अभूतेति । अभूतः शिंशपादिर्भेदो यस्य सः, तद्भावात्, यस्य वृक्षस्य शिंशपादिर्भेदो न जातस्तत्त्वा- 25 दित्यर्थः, घटो यथाऽभूतशिंशपादिमेदोऽथ च न वृक्षस्तथा वृक्षोऽप्यभूतशिंशपादिभेदो न वृक्षश्चेति मानार्थः । तद्वदेव घटादिरपि घटादिर्न भवत्यभूतग्रीवादिमेदत्वादित्याह - यदि त्विति । यो घटो मृदादेर्भेद इतीष्यते सोऽपि न घटोऽभूतभेदत्वादिति भावः । एवं प्रीवादयो न प्रवादयोऽभूतकपालादिभेदत्वात् घटवत्, स कपालोऽप्यकपालोऽभूतस्वभेदत्वादित्येवमापरमाणु सर्वेषां भने सर्वशून्यतैवेत्याह-एवं श्रीवादिरिति । परमाणोरप्यभावमाह - परमाणुरिति, रूपादयो हि तद्भेदास्तेषां भेदत्वाभावे परमाणुरपि न स्यादिति भावः । रूपादीनामप्यरूपादित्वमाह-रूपादिरपीति । एवं विशेषतो वस्त्वभावं प्रसाध्य सामान्यतोऽभावं साधयति - सर्वत्र वा सामा- 30 म्येनेति । ततः किमित्यत्रोपसंहारमुखेन दोषमाह एवमनेन विधिनेति, प्रमाणत्रयविषयीभूतं वस्तु शून्यमापद्यते त्वदुद्वा० न० ३२ (१०९)
For Private & Personal Use Only
www.jainelibrary.org