________________
८६२
न्यायागमानुसारिणीव्याख्यासमेतम्
[ उभयनियमारे
रण्यं प्रतिपद्यते वृक्षः शिंशपेति तद्भवनविध्येकार्थीभावात्, तद्भवनभवनविधिविनाभावे तु न युज्यते, भवनविधिविनाभूतस्य भेदाक्षेपाभावात्, साधनमप्यत्र भवनविधिविनाभूतं भेदानाक्षेपि न समानाधिकरणं वृक्षः शिंशपेति त्वदभिमतं वस्तु स्यात्, अभावत्वात् वन्ध्यापुत्रवत् ।
यदि तु सोऽप्यपोहपर एव स्यादित्यादि, यदि तु सोऽपि वृक्षशब्दोऽपोह पर एवाभविष्यत 5 ततः सोऽवृक्षव्यावृत्तिवृत्तत्वाद्वृक्षभेदशिंशपादीन् [ नाक्षिपेत् ] आक्षिपतीति चेष्टम्, शिंशपादिसामानाधिकरण्यदर्शनात्, तथा नानुमन्येत, अनाक्षिप्तत्वात्तमर्थं, अनुमन्यते तु, न व्युदस्य [ त][T], अपोह एवेत्यभावमात्रार्थत्वात्, खपुष्पवत्, वक्ष्यति चोपसंहारे शून्यमात्रत्वात् किं कः केन कस्माद्वाऽपोहत इति, कुतोऽनाक्षेपाननुमत्यव्युदासा इति चेदुच्यते-अनर्थित्वात्-अनर्थी हि शिंशपादिना भेदेन वृक्षशब्दः, , तस्मान्नाक्षेपादीन् कुरुते, किमिव ? अवृक्षाभवनवत्, तद्व्याख्या अवृक्षो घटादीत्यादि गतार्था यावद्व्यापार एव नास्तीति, 10 यदसावित्यादि, विधिवादे त्वस्मत्पक्षे यस्मादसौ वृक्षशब्दो वृक्षार्थं घटादिभ्योऽन्यत्वेन शिंशपादिभेदात्मकं स्वार्थमनन्यत्वेनाक्षिपति, तस्मात्तेन सह सामानाधिकरण्यं प्रतिपद्यते वृक्षः शिंशपेति, तद्भवनविध्यैकार्थीभावात् तद्भवनभवनविधिविनाभावे तु न युज्यते तत्समानाधिकरणीभवनं भवनमस्य तद्भवनभवनं तस्य तद्भवनभवनस्य विधिरात्मलाभः स्थितिराचारः तेन विना भावे तद्विरहितत्वे न घटते-घंटां नापैति, भवनविधिविनाभूतस्य भेदाक्षेपाभावात्, न ह्यभवतो भेदा आक्षेपकत्वं वाऽस्ति यतः समानाधिकरणता स्यात्, 15 साधनमप्यत्र-भवनविधि [ विना ] भूतं भेदानाक्षेपि न समानाधिकरणं वृक्षः शिंशपेति त्वद्भिमतं वस्तु स्यात्, अभावत्वाद्वन्ध्यापुत्रवत्-अनुपपन्न सामानाधिकरण्यभेदाक्षेपानुमतं त्वदिष्टं वृक्षः शिंशपेति पदद्वयाभिधेयमभावत्वाद्वन्ध्यापुत्रवत् ।
www
सामानाधिकरण्यम्, तच वृक्षशब्देन शिंशपादिप्रतीतौ स्यादेकार्थत्वात्, तत्र यदि वृक्षशब्दोऽवृक्षापोह एवाभविष्यत् नाक्षिपेद्दृक्षभेदं शिंशपादि, तत्रैव शब्दस्य प्रक्षीणशक्तित्वात्, भेदानामानन्त्यव्यभिचाराभ्याञ्च न च भिन्नार्थवाचकानां सामानाधिकरण्यं गवाश्वयो20 रिव दृष्टम्, इष्टश्चाक्षेपो मेदानाम्, सामानाधिकरण्यदर्शनादिति भावः । भेदार्थस्त्वया न स्वीकार्यः, व्यावृत्तिमात्रवृत्तत्वेन भेदानाक्षेपादित्याह-नानुमन्येतेति । अपोहमात्रार्थत्वेन भेदान्न व्युदस्येत वेत्याह-न व्युदस्येत वेति । एवञ्च मेदानामाक्षेपानुमतिव्युदासासम्भवेनाभावमात्रताप्रसङ्ग इत्याह-वक्ष्यति चेति, एवञ्च सर्वमिदं दृश्यादिवस्त्वित्याद्यग्रिमग्रन्थेनेति भावः । अनाक्षेपादौ निमित्तं दर्शयति- कुतोऽनाक्षेपेति, वृक्षशब्दो भेदान्नार्थयतेऽभीप्सत्यतो नाक्षेपादि विधत्त इति भावः । दृष्टान्तमाह-अवृक्षाभवनवदिति, वृक्षो घटादिभवनं तदभावोऽवृक्षाभवनम् तच्च न भेदानाक्षिपति अनर्थित्वात् एवं तद्वाचकशब्दोऽपि तस्य पो 25 चरितार्थस्य मेदाक्षेपे व्यापार एव नास्ति, अनर्थित्वादिति भावः । विधिपक्षे भेदाक्षेपमाह - विधिवादे त्विति, वृक्षशब्दो घटादिभ्योऽन्यत्वेन वृक्षार्थं वृक्षानन्यत्वेन शिंशपादिभेदात्मकं स्वार्थमाक्षिपति तस्मादेव च वृक्षः शिशपेति शिशपया साकं सामानाधिकरण्यं प्रतिपद्यत इति भावः । तत्र हेतुमाह-तद्भवनेति, शिंशपादिभवनेन सह वृक्षस्यैकार्थीभावात् - अभेदात् सामानाधिकरण्यादिति वाऽर्थः । तत्समानाधिकरणी भवन मिति, शिंशपादिना सह समानाधिकरणीभवनमेव वृक्षभवनम्, तदर्थ एव वृक्षस्यात्मलाभः स्थितिः आचारः - मर्यादा वा, एवञ्च शिंशपादिसमानाधिकर णीभवनभवनविधिं विना समानाधिकरणता न घटत एव तथाविध30 भवनविधिविनाभूतञ्च वस्तु न भेदानाक्षिपतीति भावः । तदेव समर्थयति - न ह्यभवत इति, तद्भवनभवनविधिरहितस्य न कश्चिद्भेदो न वा भेदाक्षेपकत्वं सम्भवति येन सामानाधिकरण्यं भवेदिति भावः । प्रयोगमाह-साधनमप्यत्रेति, भवनविधिविनाभूतं
१ सि. छा. वृक्षव्यावृत्तिव्यावृत्तत्वात्, सि. वृक्षव्यावृत्तत्वात् । २ सि. क्ष. डे. 'विधिकार्थी ० । ३ सि.क्ष. छा. डे. भावेनुप्रयु० । ४ सि.क्ष. छा घटानोपेति । ५ सि. क्ष. छा. 'क्षेपानुमतित्वदि० । ६ सि. क्ष. छा. 'द्वयाविर्धय० ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org