________________
wammanawaam
भेदानाक्षेपादिदोषाः] द्वादशारनयचक्रम्
८६१ भेदप्रतिपादनपरतया तस्यैव विशेषस्य परमार्थरूपत्वेनाङ्गाङ्गिभावं गतानि, असत्योपाधिसत्यशब्दार्थत्वात् तथा चाङ्गाङ्गिभावगत्या तद्रूपपरमार्थरूपया, अव्यवहितवृत्तिना विधिना स्वभेदाः समाक्षिप्ता इति वर्तते, प्रतिषेधव्यापारनिराकांक्षमित्यादि यावत्[अ]घटावतार इति, योऽपि त्वयाऽन्यापोह इष्टः सोऽपि विधिमन्तरेण न भवति, यस्मादघटो न भवतीत्येतदविवक्षितं द्विःप्रतिषेधमनाहत्या पेक्ष्य विधिरूपेण विवक्षितविध्यर्थस्य घटस्य प्रतिपत्तौ सत्यामुत्तरकालं भवति नाप्रतिपत्तौ, तस्यैव चरितविध्यर्थस्य घटस्योपसर्जनत्वेना- 5 पोहबुद्धेरघटाभावबुद्धरनुत्पत्तेरेव स्वात्मविधिः प्रधानोऽप्रधानोऽपोह इति, किमिव ? शिंशपाद्यपहारिवृक्षशब्दार्थेऽर्घटानवतारवत्, यथा वृक्ष इत्युक्ते शिंशपादिभेदानामन्यतमेन विनाऽर्थवान्न भवति वृक्षशब्द इति शिंशपाद्युपहरन्नर्थवान् तस्मिन् मूलादिमति शिंशपाद्यवश्यम्भाविविशेषस्वभावेऽर्थेऽघटानवतारः, अघटो न भवतीत्यस्य तु दूरत एव-नैवासौ शब्दार्थो गुडमाधुर्यगतिवदर्थापत्तिलभ्यत्वात् , घटानवतार इत्येव वा पाठः-घटस्य वृक्षार्थेऽवकाशाभाववदनुपात्तावृक्षापोहस्य कोऽवकाश इति ।
- 10 स्यान्मतमत्रापि वृक्ष इत्यवृक्षो न भवतीत्यपोह एवोच्यते, नहि शिंशपायुपहारः, तस्यैव विसंवादस्थानत्वान्न स्वार्थ इत्यत्रोच्यते
यदि तु सोऽप्यपोहपर एव स्यात् ततः सोऽवृक्षव्यावृत्तिवृत्तत्वाद्वृक्षभेदशिंशपादीन्नाक्षिपेत् नानुमन्येत न व्युदस्येत वा, अनर्थित्वादवृक्षाभवनवत् , अवृक्षो घटादि तदभवनस्य भेदानाक्षेपवद्धृक्षशब्दस्य व्यावृत्तिवृत्तत्वा दाक्षेपे व्यापार एव नास्ति, यदसौ वृक्षार्थ 15 घटादिभ्योऽन्यत्वेन शिंशपादिभेदात्मकं स्वार्थमनन्यत्वेनाक्षिपति तस्मात्तेन सह सामानाधिक
ammmmmmmmmmmmmm
MMMM
ण्येवेति । भेदरूपाणामङ्गित्वं सामान्यस्य च तदङ्गत्वमित्याह-अङ्गाङ्गिभावं गतानीति । तस्माद्धटशब्देनाव्यवहितविधिवृत्तिना घटस्य भेदाः समाक्षिप्यन्त इत्याह-तथा चेति । शेषं पूरयति-अव्यवहितेति । शब्दस्यासत्योपाधिसत्यविशेषविधिबोधने प्रतिषेधव्यापाराऽपेक्षा नास्तीत्याशयेनाह-प्रतिषेधव्यापारेति, इतरप्रतिषेधव्यापारानपेक्षः शब्दः स्वार्थ विधिरूपेण प्रतिपादयति, विवक्षितविध्यर्थज्ञानानन्तरञ्चार्थापत्त्याऽघटो न भवतीत्यन्यापोहप्रतिपत्तिर्न तु शब्दार्थत्वेन विध्यर्थस्योपसर्जनतया, प्रतिषेधबुद्धे- 20 विवक्षितविध्यर्थज्ञानानन्तरमुपजायमानत्वेन शब्दस्य सामान्योपसर्जनविधिप्रधानबोधनेन चरितार्थतया पश्चात्प्रतिभासमानोऽन्या पोह शाब्दबुद्धौ नोपसर्जनं नापि प्रधानं किन्तु वात्मा विधिः प्रधानमप्रधानमन्यापोह इति भावः । शब्दार्थघटकतयाऽन्यापोहस्य नावतार इत्यत्र निदर्शनमाह-शिंशपादीति, मूलस्कन्धशाखादिसप्रभेदशिंशपाद्यन्यतमोपग्राहिवृक्षशब्दार्थे घटपटादेरनन्तर्गतत्ववदित्यर्थः, तदेव प्रकटीकरोति-यथा वृक्ष इत्युक्त इति । यदा च वृक्षशब्दार्थान्तःपातितयाऽघटादेरेव नास्त्यवतारस्तदा तद्धर्मस्याघटापोहस्य कथमन्तःपातितासम्भवः, नास्त्येवेत्याह-तस्मिन् मूलादिमतीति।गुडमाधुर्येति,गुडशब्दाद्यथा माधुर्य-25 प्रतीतिरीपत्त्या तथाऽघटापोहप्रतीतिरप्यापत्त्यैव, न तु शब्दार्थतयेति भावः । अघटानवतार इत्यत्र घटानवतार इत्यपि पाठान्तरमुपलभ्यत इत्याह-घटानवतार इति । वृक्षशब्दार्थ घटस्य यथा नावकाशस्तथा वृक्षापोहस्यापीत्याह-घटस्येति । अथ शिंशपाद्यपहारिवृक्षार्थेऽघटानवतारवदिति दृष्टान्तेन वृक्षशब्दाच्छिशपाद्युपहार इति यदुच्यते तद्विवादस्थानत्वान्न सिद्धमपि तु वृक्ष इत्यवृक्षो न भवतीत्येवोच्यत इत्याशङ्कय समाधत्ते-यदि त्विति । व्याचष्टे-यदि तु सोऽपीति । वृक्षः शिंशपेत्येवं दृश्यते
सि. डी. छा. घटानव०। २ सि.क्ष. छा. नपेक्षविधिः । ३ सि. क्ष. छा. डे. पत्तौस्यामुत्तर० । ४ सि.क्ष. छा. मा प्रति०। ५ सि. क्ष० छा. डे. बुद्धरुपत्ते०। ६ सि.क्ष. घटघटानवतार। ७ २ क्ष. छा. ०र्थघटावतारः ।
_Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org