________________
न्यायागमानुसारिणीव्याख्यासमेतम्
[ उभयनियमारे
विशेषार्थस्य प्रतीतेः स एवार्थः स्वेनैव रसेन समापतितः प्रतिपादयितुमिष्टश्च किमिति प्रतिक्षिप्यते ? न हि स्वार्थप्रतिक्षेपो युक्तः । किं कारणम् ? -
८६०
सुदूरमपि गत्वा तेन विना तदगतेरक्लेशेनागतो विधिरेव शब्दार्थः पर्याय इति, अत 5 एव चाविनाभावात् सामान्यशब्देनापि स एव विशेषार्थः साक्षाद्विधिना प्रतीयते सर्वथाऽव्यवहितविधिवृत्तिना विधिना स्वभेदाः समाक्षिप्तास्तद्रूपपरमार्थत्वेनाङ्गाङ्गिभावगत्या, प्रतिषेधव्यापारनिराकांक्षं विधिरूपेण विवक्षितविध्यर्थस्य प्रतिपत्तौ तस्योपसर्जनत्वेनापोहबुद्धेरनुत्पत्तेरेव स्वात्मा विधिः प्रधानोऽपोहोऽप्रधानः, शिंशपाद्युपहा रिवृक्षशब्दार्थेऽघटावतारवत्, यथा वृक्ष इत्युक्ते शिंशपादिभेदानामन्यतमेन विनाऽर्थवान्न भवति वृक्षशब्द इति शिंशपाद्युपहरन्नर्थ10 वान्, तस्मिन् मूलादिमति शिंशपाद्यवश्यम्भाविविशेषस्वभावेऽर्थेऽघटानवतारः, अघटो न भवतीत्यस्य तु दूरत एव ।
wwwwwwwww
(सुदूरमपीति ) [ सु] दूरमपि गत्वा तेन विना तद्गतेः-घट इत्युक्तेऽघटो न भवतीति प्रतिषेधद्वयेनार्थान्तरं व्यावर्त्यपि घट एवावश्यं प्रतिपत्तव्यः, स च कुट एवेति कुटत्वेन विना घटत्वाभावात् कुटत्वस्याप्यविनाभाविनः स्वेनैव रसेन प्रतीयमानत्वादक्केशेनाऽऽगतो विधिरेव शब्दार्थः पर्याय इति, किल्ला15 न्यत्-अत एवाविनाभावात् सामान्यशब्देनापि घटस्य पार्थिव [ त्वादिना सामान्यसामान्यशब्देन वा द्रव्य
सत्त्वादिना विधीयमानः स एव विशेषार्थो घटाख्यः साक्षात् - अव्यवहितवृत्तिना विधिना प्रतीयते - तानि हि भेदरूपाण्यनेकात्मकस्य वस्तुनः सामान्याद्याकारेणापि गृह्यमाणानि कथं न विधीयन्ते ? सर्वथेत्यादि, तस्मादव्यवहितविधिवृत्तिना शब्देन घटस्यैव स्वभेदाः समाक्षिप्ताः, यथोक्तं- 'सद्द्रव्यपृथिवीमृद्घट[त्व] दिस
wwwww.............
म्बन्धादस्तिद्रव्यं पार्थिवो मार्तिको घट इति घटे सम्प्रत्ययः' ( ) इति, तत्कथमिति चेदुच्यते 20 तद्रूपपरमार्थत्वेन-तानि भेदरूपाण्येव सामान्यादिवदाभासमानान्यविद्यमानान्येव वा सामान्यादिरूपाणि
www.www.m www wwwwwww.m
त्वादिति, विधिर्हि अनपवादप्रतिपत्त्याधानम्, स च स्वभाव एव वर्तते न निमित्तान्तरमपवदति, स्वार्थानुपातित्वात्, निमित्तान्तरेणापि तस्यैवार्थस्य प्रतिपत्तेर्न प्रतिक्षेपो युक्त इति भावः । निमित्तान्तरानपोहे कारणमाह - सुदूरमपीति । नन्वयं घट इत्यादी घटशब्देन यद्यघटो न भवतीति प्रतिषिध्यते तर्ह्ययमघटो न भवतीति अघटप्रतिषेधेऽप्ययमघटो न भवतु नाम, परं कोऽयमिति शङ्काया अनिवृत्तेरवश्यं घट इति प्रतिपत्तव्यः, घटप्रतिपत्तिमन्तरेण गत्यन्तराभावात्, न हि केवलमघट प्रतिषेधमात्रेण कृतार्थो भवति 25 प्रयोक्ता, प्रतिपाद्यबुभुत्सितार्थाप्रतिपादनात् तस्मादवश्यं घट इति प्रतिपत्तव्ये स घटवत् कुटोऽपि तेन विना घटत्वाभावात्, कुटत्वस्यापि घटत्वाविनाभाविनः खरसतः प्रतीतेरिति विधिरेव स घटकुट कुम्भादिपर्यायः शब्दार्थ इत्यक्लेशेनापि समापतित एवेत्याशयेनाह - घट इत्युक्त इति । यथा घट इत्युक्ते कुटत्वकुम्भत्वादिना विना घटत्वस्याभावात् घटशब्देन घटकुट कुम्भादयो विधिरूपेण प्रतीयन्ते तथा स एव घटः सामान्यशब्देन पार्थिवत्वेन सामान्यसामान्यशब्देन वा द्रव्यत्वसत्त्वादिना विधीयमानो घटकुटकुम्भादिरूपेणाव्यवधानाद्विधिरूपेण प्रतीयत एवेत्याह- अत एवेति । एवं घटशब्देन स्वमेदा अपि युगपदयुगपद्भाविपर्यायाः 30 अव्यवहितविधिवृत्तिना विधिरूपेण समाक्षिप्यन्त एवेत्याह- तस्मादव्यवहितेति, आदौ घटशब्देन घटं प्रतिपाद्य पश्चाद्भेदाः समाक्षिप्यन्त इति न, किन्तु अव्यवधानेनैकदैवेति भावः । सामान्याद्याकारेण गृह्यमाणं वस्तु स्वभेदान् समाक्षिपतीत्यत्र मानमाहयथोक्तमिति । तत्समर्थयति - तद्रूपपरमार्थत्वेनेति, घटाद्युपसर्जनरूपादिभेदपरमार्थत्वेनेत्यर्थः । तदेवाह - तानि भेदरूपा
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org