________________
अप्रस्तुतशब्दार्थतापत्तिः]
द्वादशारनयचक्रम् यदि विधिर्नेष्यते ततो न केवलविध्यतिप्रसङ्गदोष एव, किं तर्हि ?
एषोऽप्यनिष्टोपचयः उदकाद्याहरणार्थिने घट इत्युक्तेऽप्रस्तुतव्यावृत्तिशब्दार्थतापत्तिः, विधिपक्षे च साक्षादेव स्वार्थ ब्रूत इत्येष च विशेषः, पर्यायशब्दस्य तावत् घटकुटादेविधेय एवार्थः, दर्शनात् , तदेव हि विधेयं घटनं कुटनमुभयं वा, द्विमातृवत् , यथा विशेषणद्वारेण विशेष्यप्रधाने निर्देशे राधकमाता पूर्णकमाता राधकपूर्णकमातेति द्वाभ्यामन्यतरेण वा विशिष्यते । सैव, तथा विशेषणस्वरूपापन्नविशेष्यप्रतीतित्वात् युगपदप्रयोगेऽपि स एव निमित्तोपलक्षितो भेदः प्रतीयते, न हि स्वार्थानुपातित्वाद्विधिः स्वरससमापतितः प्रतिक्षेप्तुं युक्तो निमित्तान्तरेणापि तस्यैव प्रतीतेः।
(एषोऽपीति) एषोऽप्यनिष्टोपचयः उदकाद्याहरणार्थिने घट इत्युक्ते तत्राप्रस्तुतस्य पटादेरघटस्य व्यावृत्तिरविवक्षितोऽशब्दार्थ एव शब्दार्थ इत्येतदापन्नम् , अनिष्टञ्चैतदिति, किश्च विधिपक्षेऽस्मदिष्टे साक्षा- 10 देवाव्यवहितमेव स्वार्थं ब्रूत इत्येष च विशेषः, तद्यथा-पर्यायशब्दस्य तावदित्यादि यावत् प्रतिक्षेतुं युक्त इति, पर्यायशब्दस्य घटकुटादेविधेय एवार्थः, कस्मात् ? दर्शनात्-विधेयत्वदर्शनात् , तदेव हि विधेयं घटनं कुटनं उभयं वा, किमिव ? द्विमातृवत्-यथा विशेष[ण]द्वारेण विशेष्यप्रधाने निर्देशे राधकमाता पूर्णकमाता राधकपूर्णकमातेति द्वाभ्यामन्यतरेण वा विशेष्यते सैव, तथा विशेषणस्वरूपापन्नविशेष्यप्रतीतित्वात्-सम्बन्धिविशिष्टरूपप्रतिपत्तेरित्यर्थः, युगपदप्रयोगेऽपीति, निमित्तभेदेप्यर्थैकत्वात् युगपदप्रयोगेऽपि स एव निमि- 15 त्तोपलक्षितो भेदः प्रतीयते, स्यान्मतं निमित्तभेदे निमित्तिभेदात् किमर्थं निमित्तान्तरापोहो न भवतीति, एतच्च न, न हि खार्थानुपातित्वाद्विधिः स्वर[स] समापतितः प्रतिक्षेप्तुं युक्तो निमित्तान्तरेणापि तस्यैव
Anmmmmmmmm
पोहस्याप्यसङ्गतत्वमेवेति भावः। तव दोषान्तरमप्यस्तीत्यादर्शयतीत्याह-यदीति । किं दोषान्तरमित्यत्राह-एषोऽपीति, इदमपि ते दोषाधिक्यमित्यर्थः । अर्थ्यनभीप्सितशब्दार्थतापत्तिदोषमाह-उदकादीति, जलाद्याहरणार्थिनं प्रति घटमानयेत्युक्ते तस्य घटशब्देनाघटनिवृत्तिरेव प्रतीयेत न घट इति प्रवृत्तिस्तस्य न स्यादिति भावः । विधिपक्षे च साक्षादेव घटशब्दाद्धटप्रतीतेन दोष 20 इत्याह-विधिपक्ष इति । एतदेव निरूपयति-पर्यायशब्दस्येति । हेतुमाह-दर्शनादिति, तथैव दर्शनादित्यर्थः । दर्शनमेव प्रकाशयति-तदेव हीति । कथं घटादिशब्दस्य घटनं कुटनमुभयं वा विधेयमित्यत्र निदर्शनं निदर्शयति-द्विमातृवदिति, विशेषणद्वारेण विशेष्यप्रधाने निर्देशे एकमेव वस्तु द्वाभ्यामन्यतरेण वा विशेष्यते, मातुर्विशेष्यस्य राधकपूर्णकस्वरूपविशेषणनिर्देश्यत्वे मातैव राधकमातृत्वेन पूर्णकमातृत्वेन राधकपूर्णकमातृत्वेन निर्देश्यते, एवं घटनकुटनाभ्यां विशेषणाभ्यां विशेष्यमाणो घटो घटवेन कुटत्वेनोभयेन वा विशेष्यत इति भावः । हेतुमाह-विशेषणस्वरूपापन्नेति, घटादिप्रत्ययाः घटत्वादिविशेषणानुरूप- 25 विशेष्यप्रत्ययाः, एवञ्च यावतां विशेषणानां सम्भवस्तावद्भिरेक एवार्थो विशिष्यते निमित्तभेदेऽपि वस्तुतो वस्तुन एकत्वात् , केवलं निमित्तमात्रभेदप्रयुक्त औपाधिको भेदो न खरसत इति भावः । तदेवाह-यगपदिति । ननु निमित्तभेदे निमित्तिनो मेदस्यावश्यक त्वात् किमित्येकं निमित्तं निमित्तान्तरं नापोहत इत्याशङ्कते-स्यान्मतमिति, गुणजात्यादेनिमित्तान्निमित्तिन्यर्थे द्रव्ये निमित्तस्वरूपप्रत्ययो जायमानः स्वप्रत्येयं विभक्तमेव दर्शयति तस्मानिमित्तान्तरापोहो भवत्येवेति भावः। तत्प्रतिक्षिपति-न हि स्वार्थानुपाति
सि.क्ष. केवल विध्यायतिप्रसङ्गदोषावेव, छा. केवलावध्यावतिप्रसंगदोषावेव। २सि.क्ष. देवावविहतमेव, छा. देवादविहतमेव ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org