________________
८५८ न्यायागमानुसारिणीव्याख्यासमेतम्
[उभयनियमारे नार्थ]सामान्यशब्दाः प्रयुज्यन्ते, न तु कल्पितेन परमार्थसता वा विना तेन-सामान्येन शब्दार्था भवितुमर्हन्तीति, तस्मात् सामान्यशब्दप्रयोगो विशेषप्रतिपादनार्थो विशेषास्तु विवक्षिता एव, [विशेष ]परमार्थत्वादस्य नयस्येति ।
पर्यायशब्दा अपि तद्विधानाः, घटनविशेषस्य कुटनकुम्भाद्यर्थात्मकत्वात् , कुटनघट5 नाभ्यां विना नास्ति कुम्भता नाम काचित् , तया वा विना न घटनकुटने स्त इत्येतदवगम्यतां
घट इत्युक्ते तत्प्रतिपक्षशब्दार्थवदप्रतिपक्षसामान्यविशेषपर्यायशब्दार्था अन्ये ततस्तेषामन्यत्वे तुल्ये विधिप्राधान्यादेव तान्नापोहते, अतोऽस्माकमपवादलक्षणान्तरारम्भक्केशाहते व्यापि
युक्तश्चासत्योपाधिसत्यविध्यर्थलक्षणशब्दार्थकथनम् , भवतस्तु विध्यतिक्रमेण प्रस्तुतासत्त्व_शब्दार्थानापत्तिरन्यापोहायुक्तिश्च ।। 10 पर्यायशब्दा अपीत्यादि, ये पुनः पर्यायशब्दास्ते तद्विधानाः-एवमेव विशेषं विदधति,
घटनविशेषस्य कुटनकुम्भाधर्थात्मकत्वात् तस्य कुटिलता कुटनं, घटनं चेष्टा, कुम्भता वृत्तत्वं ताभ्यां कुटनघटनाभ्यां विना नास्ति कुम्भता नाम काचित् , तया वा विना न घटनकुटने स्त इति हि कुटनेत्यादिनाऽन्योन्याविनाभावं दर्शयति, प्रकृतमुपसंहरति-इत्येतदवगम्यतामित्यादिना, इत्थं प्रतिपद्यस्व यथा घट
इत्युक्ते पट इति तत्प्रतिपक्षशब्दार्थोऽन्यः, तथैवाप्रतिपक्षसामान्यविशेषपर्यायशब्दार्था अन्ये, ततस्तेषामन्यत्वे 15 तुल्ये विधिप्राधान्यादेव तान्नापोहते, नान्यत्करणं विधेः, अतोऽस्माकमपवादलक्षणान्तरारम्भक्लेशाहते
व्यापि युक्तञ्चासत्योपाधिसत्यविध्यर्थलक्षणशब्दार्थकथनं श्रेयोगुणप्रकर्षयुक्तञ्च, भवतस्तु विध्यतिक्रमण प्रस्तुतासत्त्वशब्दार्था[ ना]पत्तिरन्यापोहायुक्तिश्च । तत्संस्पर्शाशक्यत्वात् , किन्तु अभेदभूतेन केनचिद्वस्तुना उच्यन्ते, तेन सहाभेदमापन्नेन संज्ञाशब्दादिना च, तथा च रूपादिशब्दाभिन्ना रूपादिस्वभावा एव रूपादिशब्दानामथोः, एवं बालाद्यवस्था अपि साक्षाच्छब्देन स्पष्टमशक्यत्वादवस्थातृरूपमुपादायैव शब्दैः प्रोच्यन्ते तद्वत् सामान्यमप्यन्तरङ्गत्वादसाधारणत्वादहेयत्वात् विशेषप्रतिपादनोपायत्वाच्च सामान्यशब्दः प्रोच्यन्ते सामान्योपाधिद्वारेणैव विशेषाणां शब्दोधायितुं शक्यत्वात्तच्च सामान्यं परमार्थसदेव वाक्यात् कल्पितं वा स्यात्, सामान्यं विना तु न शब्दार्थों भवितुमर्हतीति । एवञ्च सामान्यशब्दप्रयोगः सामान्यद्वारेण विशेषाणां प्रतिपादनार्थः, विशेषा एव च विवक्षिता अतस्त एव प्रधानमित्याह-तस्मादिति । सदादिघटादिसामान्यविशेषशब्दवत् पर्यायशब्दा अपि सामान्योपसर्जनविशेषप्रधानवादिन इत्याह-पर्यायशब्दा अपीति । व्याचष्टे-ये पुनरिति । हेतुमाह-घटनविशेषस्येति, घटनकुटनकुम्भानां 9 परस्परमविनाभावादित्यर्थः । एषामर्थमाह-तस्य कुटिलतेति, घटस्य कुटिलता कुटनमुच्यत इत्यर्थः, एवमग्रेऽपि। अविनाभावं दर्शयति-ताभ्यामिति । एवञ्च घटकुटकुम्भादिपर्यायशब्दार्थानां परस्पराविनाभावित्वेऽपि घटकुटकुम्भादीनां घटशब्दप्रतिपक्षपटशब्दवाच्यपटस्यान्यत्ववत् घटशब्दाप्रतिपक्षसद्धटकुटकुम्भादिशब्दानां सद्धटकुटकुम्भादीनामन्यत्वमित्याह-इत्थं प्रतिपद्यखेति । तदेवमन्यत्वे तुल्येऽपि शब्दा एते न कमप्यर्थमपोहन्ते, विधिप्राधान्यादित्याह-ततस्तेषामिति, तदेवमन्यत्वे तुल्ये
न्यमेदपर्यायवाच्येव शब्दः न तु तानपोहते. एवञ्च विधेः नान्यत्किमपि क्रियत इत्यपवादारम्भकेशोऽस्माकमनवसर एवेति विधि30 ापीति भावः। युक्तश्चासत्योपाधिसत्यविध्यर्थस्वरूपः शब्दार्थ इत्याचष्टे-युक्तश्चेति, प्रशस्यत्वरूपगुणप्रकर्षयुक्तमित्यर्थः। अपोहवादिनो दोषमाह-भवतस्त्विति, अन्यापोहकृच्छ्रुतिरिति विधेरुल्लङ्घनेनापोहस्यासत्त्वस्वरूपस्य शब्दार्थतानापत्तिः, युक्त्या विचार्यमाणेऽन्या
सि. छा० डे. प्राधान्यादेवदत्ताना० । क्ष. प्राधान्ये देवदत्ताचा०। २ सि. क्ष. छा. क्लेशावृते। ३ सि. सत्यपि व्यर्थल०, क्ष. छा. सत्यपि अर्थल०। ४ सि.क्ष. छा. युक्तपि ।
mammmwww
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org