________________
LAnnarwww
wwww
mmmmmmm.om
भेदानामुक्तिः] द्वादशारनयचक्रम्
८५७ सामान्यमृदाद्युपसर्जनं घट[दि ]विशेषार्थं दर्शयति, तच्छब्दार्थान्तःपातित्वादिति आत्मघटाद्यविशेषवाचिना सर्वनाम्ना वस्तुत्वसामान्यस्य साध्यतानुगतत्वं विशेषाविनाभाविनो दर्शयति, आकारादिवदिति, प्रतिक्षणदेशादिभिन्नरूपादिविशेषपरमार्थस्योर्द्धग्रीवपृथुकुक्षित्वादिसामान्योपसर्जनस्य सद्भावात्, एवं तावद्धटे विशेषशब्दार्थे पार्थिवद्रव्यसत्त्वादिसामान्यात्यागो युक्तो विधिप्रधानशब्दार्थत्वात् ।। __ एवं तर्हि वृक्षः शिंशपेति शिंशपाविशेषो विधिना कथमुच्यते वृक्षविधावनुपसर्जनः ? इत्यत्रोच्यते- 5
भेदास्तूच्यन्त एव, घटसामान्यस्य तदङ्गत्वात् , तद्भवनात्मकत्वात् , रूपादिस्वरूपशब्दार्थत्ववत् सामान्योपसर्जनद्वारेण प्रतिपादनार्थ सामान्यशब्दाः प्रयुज्यन्ते न तु परमार्थसता कल्पितेन वा विना तेन शब्दार्था भवितुमर्हन्तीति सामान्यशब्दप्रयोगो विशेषप्रतिपादनार्थः, विशेषास्तु विवक्षिता एव विशेषपरमार्थत्वादस्य नयस्य ।
(भेदा इति) भेदास्तूच्यन्त एव, वृक्षः शिंशपेत्यादिवत् घटस्य विशेषाः रूपादयो युगपदयुग-10 पद्भाविनस्त एव मुख्यशब्दार्थत्वादुच्यन्ते, घटसामान्यस्य तदङ्गत्वात् , घटाद्युपसर्जनरूपादिविशेषपरमार्थत्वात् तद्भवनात्मकत्वात्-स हि[ विशेषो भवनं भावः प्रत्येकं निर्विकल्परूपादिभवनमात्मलाभः, तद्भवनमात्माऽस्य घटस्येति तद्भवनात्मको घटः, शिबिकावाहकयानेश्वरस्येव यानवदित्युक्तं प्राक, तन्निरूपयति-रूपादिस्वरूपशब्दार्थत्ववदिति, यद्यपि युगपद्भाविनो रूपादिस्वभावा एव सन्तो रूपरसगन्धस्पर्शशब्दा एव निर्विकल्पा वस्तुत्वाच्छब्दार्थः, प्रतिक्षणवर्त्ययुगपद्भाविनो वा विशेषास्तथा[पि]सामान्योपसर्जनद्वारेण प्रति [पाद 15 साध्ये बाह्य इति । हेतुं दर्शयति-तच्छब्दार्थान्तःपातित्वादिति। यत्र यत्र तच्छब्दार्थान्तःपातित्वं तत्र तत्र सामान्योपसर्जनविशेषत्वं दृष्टम् , यथाऽऽत्मा, दृष्टान्ते तच्छब्देनाऽऽत्मा ग्राह्यः, दाष्टान्तिके च तच्छब्देन घटादि ग्राह्यम् , तच्छब्दस्याऽऽत्मघटाद्यविशेषवाचित्वात्, सर्वनाम्नां बुद्ध्धुपस्थितवस्तुपरामर्शित्वात् , एवञ्च घटपटादिवस्तुमात्रस्य तच्छब्दार्थान्तःपातित्वाद्वस्तुसामान्यं हेतुः साध्याविनाभावीति सिद्ध्यतीति दर्शयति-आत्मघटादीति । आकारवदिति, घटस्याऽऽकारादय ऊर्द्धग्रीवादयो यथा खोपसर्जनप्रतिक्षणभाविरूपादिविशेषतत्त्वाः घटशब्दार्थान्तःपातित्वादिति भावः । उपसंहरति-एवन्तावद्धट इति । 20 ननु वृक्ष इत्युक्त्या पृथिवीद्रव्यत्वसत्त्वादिसामान्योपसर्जनो वृक्षलक्षणविशेष एवोच्यते न तु वृक्षसामान्योपसर्जनः शिंशपादिविशेषतत्त्वः, तथा च वृक्षः शिंशपेति वृक्षविधौ वृक्षानुपसर्जनः शिंशपादिः कथमुच्यत इत्याशङ्कायामाह-भेदास्त्विति, शिंशपादिव्यतिरिक्तस्य वृक्षस्याभावाञ्छिशपादेव॒क्षात्मत्वात् वृक्षस्य च शिंशपाद्यङ्गत्वात् वृक्षोपसर्जनाः शिंशपादयोऽप्युच्यन्त एवेति भावः । घटादिशब्दैर्विशेषा मुख्यतयोच्यन्त एव यथा वृक्षशब्देन कदम्बनिम्बजम्ब्वाम्रशिंशपादयो मुख्यवृत्त्योच्यन्ते वृक्षसामान्यन्तूपसर्जनतया तद्वदित्याह-वृक्षः शिंशपेत्यादिवदिति । के मुख्यतयोच्यमाना घटस्य विशेषा इत्यत्राह-घटस्य विशेषा इति। 25 युगपदयुगपद्भाविविशेषाणामुपादानतया घटस्याङ्गभूतत्वात्तत्सामान्यमुपसर्जनतयोच्यते तथा च घटाधु युगपदयुगपद्धाविरूपादिविशेषाः घटादिपदानां परमोऽर्थ इत्याह-घटसामान्यस्येति । रूपादयो मुख्योऽर्थः घटादय उपसर्जनभूतार्था इति कथमित्य त्राह-तद्भवनेति, घटो हि रूपादेरात्मलाभार्थः, तद्व्यतिरेकेण तदसम्भवाद्रूपादिभवनमेव घटस्यात्मा, तथा च रूपादिभवनात्मकत्वाद्धटस्य घटाद्युपसर्जनरूपादिप्रधानं घटशब्दार्थः । घटस्य विशेषाङ्गत्वे दृष्टान्तमाह-शिबिकेति, शिबिकावाहकानां यानमीश्वरयानार्थमत ईश्वरयानाङ्गभूतमिति भावः । सामान्यस्योपसर्जनतयाऽभिधाने कारणमाह-रूपादिस्वरूपेति, रूपादिस्वरूपशब्दस्यार्थ- 30 वदित्यर्थः । भावार्थमाह-यद्यपीति, अयमभिप्रायः यथा निर्विकल्पा रूपादिशिवकस्थासकादिमेदाः परस्परभिन्ना नोच्यन्ते शब्दैः.
mmmm
१ छा. तच्छब्दार्थतः । xx क्ष. २ सि० क्ष. छा. डे, घटस्यापोषरूपा० ।xx सि. ।
_Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org