________________
wwww
न्यायागमानुसारिणीव्याख्यासमेतम् उभयनियमारे ततः किं ? ततः सामान्यादिशब्दान्तरार्थात्यागात्तु त्वदनिष्टो नन्वयमेव परमविधिः, कोऽक्षरार्थो विधेरित्यत आह-विधानं विधिरिति, लक्षणतस्त्वनपवादप्रतिपत्त्याधानं विधिः, स च-विधिरेव शब्दार्थः सामान्याधन्यशब्दार्थेष्वव्याहतत्वात् परमः।
तत्र तावत्सामान्यादुक्तिः सामान्ये विशेषविध्यर्था न व्याहन्यते, त्वयैव सामान्य नाप5 नुदतीत्युक्तत्वात् , अस्मदिष्ट उपसर्जनीकृतसामान्यो विशेषो विधिनैवोक्तः, यथा न हि घटादिबाह्यवस्तु सामान्योपसर्जनमन्तरेण भवितुमर्हति वस्तुत्वात् , आत्मवत् , यथा नामरूपसन्तानाख्य आत्मा शरीरादिप्रतिक्षणदेशभिन्नरूपादिसुखविज्ञानादिविशेषतत्त्वार्थो नरकमनुजादिविशेषतत्त्व आमुक्तेः सन्तानाख्यसामान्योपसर्जनमन्तरेण न भवितुमर्हति, एवं घटशब्देना
प्यागृहीता मृदादयस्तच्छब्दार्थान्तःपातित्वात् , आकारादिवत् , एवं तावद्धटे विशेषशब्दार्थे 10 पार्थिवद्रव्यसत्त्वादिसामान्यात्यागो युक्तो विधिप्रधानशब्दार्थत्वात् ।
(तत्रेति) तत्र तावत् सामान्यादुक्तेः सामान्ये विशेषविध्यर्था न व्याहन्यते, त्वयैव सामान्य न [प] नुदतीत्युक्तत्वात् ,अस्मदिष्टै उपसर्जनीकृतसामान्यो विशेपो विधिनैवोक्त इति, तस्य निदर्शनम् यथा न हि घटादीत्यादि, साधनमिदं-सामान्योपसर्जनमेव-न सामान्यानुपसर्जनं भवितुमर्हति घटपटादिबाह्यवस्त्विति प्रतिज्ञा वस्तुत्वादिति हेतुः, आत्मवदिति दृष्टान्तः, आन्तरोऽर्थो नामरूपसन्तानाख्य 15 आत्मा, यथा स शरीरादिप्रतिक्षणदेशभिन्नरूपादिसुखविज्ञानादिविशेषतत्त्वार्थः सन्तानाख्यसामान्योप
सर्जनस्तमन्तरेण भवितुमर्हति नरकमनुजादिविशेषतत्त्वः [आ] मुक्ते:- यावन्मोक्षस्तावद्विशेषाः सामान्यानुविद्धा एव, तथा घटादयोऽपि बाह्या इत्यत आह-एवं घटशब्देनाप्यागृहीता मृदादय इति साध्ये बाह्ये
mmmmmmmmm वाक्यमिदमन्यापोहाथ यदि स्यात्तर्हि तन्निर्वाहकं भवेत् , न चैवम् , अस्य वाक्यस्य सामान्यादिशब्दान्तरार्थस्यात्यन्तमपोहो नाभिप्रेत
तत एवान्यापोहोऽनेन परित्यक्त इति भावः । एवञ्च तवापि विधिरेव शब्दार्थ इष्ट इत्याह-ततःसामान्यादीति । विधिलक्षण20 माह-लक्षणतस्त्विति, अपवादरहितप्रतिपत्तर्जनक इत्यर्थः। विधिरेवेति, विधिरूप एव शब्दार्थः स च अन्यत्वाभिमतेषु
सामान्यादिष्वप्यबाधितत्वात् परमत्वं प्राप्नोतीति भावः । अधुना सामान्यादीनां शब्दार्थत्वमाह-तत्र तावदिति । सन् घट इत्यादौ सच्छब्देन सत्तावत्त्वेन सामान्यतो घटपटादयः सर्वे प्रोच्यन्ते, तदेवं सामान्यतयाऽभिहिते घटादौ घटशब्देन संशयाद्यः पनोदद्वारा घटविशेषविधाने न कोऽपि विरोधः सामान्यतोऽभिधानस्य त्वयाऽप्यभ्युपगमादिति व्याकरोति-तत्र तावत्सामान्या
दुक्तिरिति, सामान्यशब्दप्रयोग इत्यर्थः । एतन्नयसम्मतार्थमाह-अस्मदिष्ट इति, सत्त्वोपसर्जना घटपटादयः विधिवृत्त्या सच्छ25 ब्दार्थ इति भावः । तत्र दृष्टान्तमाह-यथा नहीति, घटपटादिबाह्यवस्तु नहि सामान्योपसर्जनमंतरेण भवितुमर्हति वस्तुत्वादात्म
वदिति वस्तुस्वरूपसाधनम् । दृष्टान्तं स्फुटयति-आन्तरोऽर्थ इति, बौद्धमतविशेषाभिप्रायेणाऽऽत्मा नामरूपसन्तानाख्य उक्तःक्षणिकशरीरात्मकरूपादिविज्ञानलक्षणविशेष एवाऽऽत्मतत्त्वं तथा मनुजनरकादिविशेषतत्त्वञ्च यावन्मुक्ति, मुक्तौ निरुपप्लवचित्तसन्तानस्यैवाऽऽत्मत्वात् , एवञ्च स आत्मा नामरूपसन्तानम्वरूपत्वात् सन्तानाख्यसामान्योपसर्जनः नामरूपादिविशेषतत्त्वश्चेति
सामान्योपसर्जनं विना स यथा न भवितुमर्हति तथा घटादिवस्त्वपीति भावः । यथा स इति, शरीरादीति रूपविशेषतत्त्वता नरक 30 मनुजेति नामविशेषतत्त्वतोक्ता, आमुक्तरिति नामरूपात्मकत्वस्यावधिरुक्तः। तदेवं वस्तुतः सामान्योपसर्जनविशेषप्रधानत्वमुपदर्य
शब्दवाच्यमपि तथैवेत्याह-एवं घटशब्दनति, एवञ्च घटादिशब्दो मृदादिसामान्योपसजन घटादिविशेषमाहात भावः। तदेवाह
mmmmmmmmmmmm
२ सि. क्ष. छा. सामानान्यदुक्तेः।
३ सि.क्ष. छा. डे. 'दिष्टमुप० ।
सि.क्ष. छा. डे. न्यादत्यश०। ४ सि.क्ष. डे. नामारूप० ।
_Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org