________________
विधिवाचकत्वानुमा]
द्वादशारनयचक्रम् महता क्लेशेन प्रतिपाद्यान्यापोहोऽपवादेन त्यक्तः, अनिर्वाहकत्वात् , सामान्यादिशब्दान्तरार्थापोहानिष्टेः, ततः सामान्यादिशब्दान्तरार्थात्यागात्तु नन्वयमेव परमविधिः विधानं विधि: लक्षणतस्त्वनपवादं प्रतिपत्त्याधानम् , स च शब्दार्थः सामान्यादिशब्दार्थेष्वव्याहतत्वात् परमः।
(मा मंस्था इति) मा मंस्थाः-मा च मंस्था अन्यापोहवादिलक्षणवदतिप्रसक्तत्वादपवादोऽस्याप्यारब्धव्यो लक्षणस्येति, अत आह-किमन्यत्वे न सामान्यभेदपर्यायवाची ? अपवादविरोधादिति वाक्य- 5 शेषः-किमिति प्रश्ने, किं त्वं मन्यसेऽन्यत्वे सामान्यभेदपर्यायशब्दानामर्थं वृक्षश्रुति पोहते ?-पृथिवीशिंशपातर्वादिशब्दानाम् , अविरोधात् , विरोधाच्च पटादीनपोहते ? इति, यतोऽस्य विरुद्धाविरुयोद्धरन्यत्वात् अपोहानपोहप्रसङ्गे तुल्ये त्वयेव मयापि [अपवादो नारब्धव्यः ] यथा शब्दान्तरार्थापोहं हि स्वार्थे कुर्वती श्रुतिरभिधत्त इति लक्षणस्यातिप्रसङ्गभयादारब्धम् , अन्यत्वेऽपि न सामान्यभेदपर्यायवाची अपवादविरोधात् , किं कारणम् ? अनारभ्यविधिः, विधिना हि सामान्योपसर्जनं विशेषं शब्दोऽभिदधानो विरोधा- 10 भावात्तानपि गमयति, तदङ्गभावाद्विध्येकीभूतार्थत्वादिति कारणं वक्ष्यति, नन्विदमेव विधिना वाचकत्वेऽनुमानं शब्दस्य, यदन्यत्वेऽपि सामान्यादीनां विशेषानुगुणानां गतिः, समूहश्च प्रकृतिप्रत्ययादीनां तदर्थान्तरवाचक इति युक्त्या वक्ष्यामः, त्वया पुनरुत्सर्गवाक्ये महता क्लेशेन प्रतिपाद्यापवादेन त्यक्तः, किं कारणं ? अनिर्वाहकत्वात् , किमनेन प्रतिज्ञातमर्थमनिर्वहता ? शब्दान्तरार्थापोहं स्वार्थे कुर्वती तदर्थाअन्यापोहार्था स्यात् , तत्तु नोक्तं, अत्यन्तं सामान्यादिशब्दान्तरार्थापोहानिष्टेः तस्मात्त्यक्तोऽन्यापोहः, 15
wwwanmommam
सामान्यभेदपर्यायान् पृथिवीशिंशपातर्वादीन् नापोहते, अविरोधात्, घटपटादींस्त्वपोहते विरोधादिति स्थिते पृच्छत्यन्यापोहवादिनं घटपटादीनामिव सामान्यभेदतर्वादीनामन्यत्वे तुल्ये सामान्यभेदपर्यायाणां किं वृक्षादिशब्दो न वाचक इति मन्यसे इत्याहकिमन्यत्व इति, अन्यापोहघटकेऽन्यत्वे घटपटादौ सामान्यादौ समाने वृक्षादिशब्दः किं सामान्यादीन्न ब्रूते, अपवादेन शब्दान्तरार्थापोहमित्यादिवाक्येनापोहकृच्छ्रुतिरिति वाक्यापवादभूतेन विरोधात् , पृथिवीशिंशपादयो हि शब्दान्तरार्थाः, तदपोहं वृक्षशब्दः करोत्येवेति भावः, अनुवादिविरोधादिति पाठेऽनु पश्चाद्वदनं शब्दान्तरेत्यादिवाक्यस्य कथनं यस्येति व्युत्पत्त्याऽनुवादि-20 अन्यापोहकृच्छ्रतिरिति वाक्यं तेन सह विरोधादित्यर्थो विज्ञेयः । प्रश्नार्थ स्फुटयति-किं त्वं मन्यस इति, वृक्षशब्दस्तुल्येऽप्यन्यत्वे सामान्यादीन् घटपटादींश्चाविरोधात विरोधाच्च नापोहतेऽपोहते चेति भावः। यतोऽस्येति, घटपटादिसामान्यमेदाद्योर्विरुद्धाविरुद्धयोरन्यत्वस्य तुल्यत्वात् सर्वेषामपोहस्यानपोहस्य वा प्रसङ्गः स्यादित्यन्यापोहकृच्छ्रतिरिति लक्षणस्यातिप्रसङ्गभयात्त्वयाऽपवाद आरब्धः, मया तु नारब्धव्य इति भावः । त्वया कथमपवाद आरब्ध इत्यत्राह-यथा शब्दान्तरेति। कुतो मया नारब्धव्य इत्यत्र कारणमाहअनारभ्यविधिरिति,अपवादमनारभ्य विधीयमानत्वादिति भावः। अपवादानारम्भमेव दर्शयति-विधिना हीति, वृक्षादिशब्दाः सामान्योपसर्जनं विशेषं विधिनाऽभिदधानाः पृथिवीशिंशपातवादीनपि वक्ष्यमाणकारणाडवत इति भावः । तदङ्गत्वविध्येकीभूतार्थत्वलक्षणं कारणमेव शब्दो विधिरूपेणार्थस्य वाचक इति साधयतीत्याह-नन्विदमेवेति । ननु भवतु विशेषो विधिरूपस्तदन्यसामान्यन्त्वन्यापोहरूपमेवेत्यत्राह-यदन्यत्वेऽपीति, योऽयमन्यापोहः सामान्यमिष्यते सोऽपि यदि विशेषस्यानुरूपो भवेत्तदैव तस्य शब्देन गतिर्भवति नान्यथेति सुष्ठच्यतेऽग्र इति भावः । त्वया तूत्सर्गवाक्योदितान्यापोहोऽपवादेन त्यक्त इत्याह-त्वया पुनरिति । त्यागे कारणमाह-अनिर्वाहकत्वादिति । अपवादस्योत्सर्गवाक्योक्तार्थानिर्वाहकत्वं दर्शयति-शब्दान्तरेति, 30
१ सि. क्ष. छा. डे. वाच्यनुवादि विरो०। २ सि. क्ष. छा. डे. मन्यसे व्यक्तेः सा०। ३ सि. क्ष. छा. डे. मयापि यथा। ४ सि. क्ष. छा.डे. अनुवाद०। ५ सि. वादेनेत्युक्तः।
द्वा० न० ३१ (१०८)
___Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org