________________
marwanama
ommmmmmmm
न्यायागमानुसारिणीव्याख्यासमेतम्
[उभयनियमारे विशेषाक्षेपो युज्यते चेझेदानां व्यभिचाराद्रव्यत्वमात्राक्षेपस्तहि भविष्यति, तदपि न गुणादिव्यभिचारात्, एतावच्च......।
___ अर्थाक्षिप्तास्तीत्यादि, यदि घटादयस्तद्भेदत्वादनाक्षिप्ताः सामान्यानामसामान्यत्वादर्थतस्तयक्षिप्ता भवितुमर्हन्ति, कुतः ? असद्व्यावृत्तिमतोऽन्यतमघटत्वादिसामान्यविशेषानुबद्धत्वात्-असद्व्या5 वृत्तिमद्धि वस्तु घटत्वादीनां सामान्यविशेषाणामन्यतमेनावश्यमनुबद्धम् , असत्त्वे न भवत्यवश्यं सद्भवति, सच्च घटत्वाद्यन्यतमदिति परो मन्येत, अत्रोच्यते-नैतदस्ति, अर्थाक्षेपेऽप्यनेकान्तात् , अस्य भाष्यं सव्याख्यानं गतार्थं यावदसद्यावृत्तिमता विशेषाक्षेपो युज्यते चेत् घटादिभेदानी व्यभिचाराद्रव्यत्वमात्राक्षेपः तर्हि भविष्यति, मात्रग्रहणाद् द्रव्यत्वसामान्यविशेषमात्रं गृह्यते सद्विशेषणेनेति, अत्रोच्यते-तदपि न,
गुणादिव्यभिचारात्-गुणकर्मणोरपि सद्भावात् किं द्रव्यं गुणः कर्म वा स स्यादसद्यावृत्तिमदिति संशय 10 एव, एतावच्चेत्याद्युपसंहारः पूर्वविधिवादिदूषणोपसंहारवदन्यापोहमात्रेऽप्युपसंहारस्य नास्ति सम्भवः ।
एतेषां विकल्पानां दोषबन्धात् तेन चापोहकृच्छ्रुतिरिति यथा विधिवादिनामपोहवादिनश्च दोषास्तथा सामान्योपसर्जनविधिप्रधानवादिनोऽपीति
मा मंस्था अन्यापोहवादिलक्षणवदतिप्रसक्तत्वादपवादोऽस्याप्यारब्धव्यो लक्षणस्येति किमन्यत्वे न सामान्यभेदपर्यायवाची ?, किं त्वं मन्यसेऽन्यत्वे सामान्यभेदपर्यायशब्दाना15 मर्थ वृक्षश्रुति पोहतेऽविरोधात्, विरोधाच्च पटादीनपोहते, अस्य हि विरुद्धाविरुद्धयोरन्यत्वादपोहानपोहप्रसङ्गे तुल्ये त्वयेव मयाऽपवादो नारब्धोऽनारभ्यविधित्वात् , विधिना हि सामान्योपसर्जनं विशेष शब्दोऽभिदधानो विरोधाभावात्तानपि गमयति, त्वया पुनरुत्सर्गवाक्ये यदि घटादय इति, घटादयः सच्छब्देन नोच्यन्ते तेषां व्यावृत्तिमतो भेदात् , तथा जातेरजातित इति भावः ।अर्थापत्त्याऽऽक्षेप दर्शयति-अर्थतस्तीति, असद्यावृत्तिमान् हि येन केनचित् घटत्वेन पटत्वेन मठत्वेन कुटत्वेन वा सामान्यविशेषाख्येन धर्मेणावश्य20 मवच्छिन्नः स्यात् , असतो व्यावृत्तिमतः सत्त्वव्याप्यत्वेन सत्त्ववतश्च घटत्वाद्यन्यतमधर्मव्याप्यत्वात् घटाद्यन्यतमाक्षेपः सम्भवतीति भावः। एतदेवाह-असद्यावृत्तिमद्धीति । असद्यावृत्तिमतः सत्त्वव्याप्यत्वमाह-असत्त्व इति, असत्त्वे न भवति सति अवश्यं सद्भवतीत्यर्थः । सत्त्ववतो घटत्वाद्यन्यतमव्याप्यत्वमाह-सच्चेति । अाक्षेपपक्षं दूषयति-अर्थाक्षेपेऽपीति, अथोपत्याऽऽक्षेपे विषये व्यभिचारो दृश्यते, सच्छब्दो ह्येकः घटादयश्चानेके, सच्छब्देनार्थतो घटस्याक्षेपे कुतो न पटस्याक्षेपः, पटस्य वाऽऽक्षेपे कुतो न मठाऽऽक्षेपः, तस्याप्यसयावृत्तिमत्त्वादित्येवं व्यभिचार इति भावः । द्रव्यमात्राक्षेपे न दोष इत्याशङ्कते-द्रव्य25 मात्राक्षेप इति । अद्रव्येऽपि गुणे कर्मणि चासद्यावृत्तिमत्त्वस्य सत्वात् द्रव्यमात्राक्षेपेऽपि व्यभिचार इति समाधत्ते-गुणादिव्यभिचारादिति, असब्यावृत्तिमान् द्रव्यं गुणः कर्म च तथा च सदित्यक्ते संशय एव स्यात् किं द्रव्यं किं गुणः किं वा कर्मति, तत्र द्रव्याद्यन्यतममात्राक्षेपे व्यभिचारो दुर्वार एवेति भावः । विधिवादिपक्षवदत्रापि दोषोपसंहारमाह-एतावश्चेति । प्रोक्तपक्षेषूका दोषाः सामान्योपसर्जनविधिप्रधानवादिमते नास्ति सम्भव इत्यादर्शयितमाह-एतेषां विकल्पानामिति, भेदजातितत्सम्बन्ध
तद्वद्विकल्पानामित्यर्थः । अन्यापोहकृच्छतिरिति लक्षणस्यापवादो यथाऽतिप्रसक्तत्वादादर्शितस्तथा सामान्योपसर्जनविशेषप्रधानशब्दा30 र्थताया अप्यपवाद इति मा मंस्था इत्याह-मा मंस्था इति । वृक्षशब्दस्तावत् वृक्षस्य पृथिवीत्वात् शिंशपादित्वात् तरुत्वाच
१ सि. क्ष. छा. डे. 'कान्तोऽस्य । २ सि. क्ष. छा. डे. भेदानामाध्य०। ३ सि० १० छा० डे. संहारा मवास्ति सं०।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org