________________
जातेरजातित्वम् ]
८५३
मभ्युपगम्यापि सामान्यविशेषत्वाभावोऽसङ्घटादिव्यावृत्तिमताम् [सद्]घट[[दीनां, ] कुतः ? जातेरजातितः नास्या जातिर्विद्यत इति [अ] जातिरिति विग्रहात् सामान्यानां सामान्यानाधारतां दर्शयति, न ह्यभिधानप्रत्ययहेतावित्यादि यावत् प्रवर्त्ततेति, सदभिधानप्रत्ययहेतुरसदभावात्मिका सज्जातिः - सत्ता, तस्यान्त्वघटाभावात्मिका घटत्वजातिर्नास्ति, यथा नीलगुणे द्रव्ये नीलप्रकर्षभेद इति दृष्टान्तदाष्टन्तिकयोर्वैधर्म्यं दर्शयति, यतोऽसदसत्त्ववतो वस्तुनः अघटाभावघटत्वादीनुपादाय प्रवर्त्तेत इत्यसम्भवमन्योऽन्येषु 5 दर्शयति द्रव्याणि तावदपोहवादिनस्तेऽस्माकमसत्योपाधि सत्यविशेषविधिवादिनामिव घटाद्यभिधानानां न हेतवः, यान्यघटासत्त्वादीनि तत्कारणानि तानि नासदसत्तायां सन्ति, तस्माज्जातिरजातिरिति सिद्धम्, ततः किं ? ततो- न चाविद्यमानः स्वात्मन्यर्थः - सत्तानीलत्वादिविशेषणे न शक्यते विशेष्यवस्तुनि - घटोत्पलादावण्यारोपयितुम्, किमिव ? स्वरूपवदिति वैधर्म्यदृष्टान्तः - यथा स्वरूपं शब्दो विशेषेऽध्यारोपयति न तथेति, तस्मादित्यादि प्रस्तुतोपसंहारो यावत् सामानाधिकरण्यं स्यादिति, गतार्थः, प्रयोगश्चात्र न 10 सद्घटादि विशेषयिष्यति, अविद्यमानतद्रूपत्वात्, अविद्यमानतद्रूपत्वं प्रतिपादितत्वात् सिद्धम्, नीलमिव मधुरमिति दृष्टान्तो गतार्थः ।
अर्थाक्षिप्तास्तर्हि असद्व्यावृत्तिमतोऽन्यतमघटत्वादिसामान्यविशेषानुबद्धस्वात्, नैतदस्ति, अर्थाक्षेपेऽप्यनेकान्तात्, • असद्व्यावृत्तिमता
घटादिव्यावृत्तिमतो बोधनेऽपि न सामान्यविशेषतेत्यर्थः । हेतुमाह-जातेरजातित इति, जातेर्जातिमत्त्वाभावादित्यर्थः । जातौ 15 जात्यभावं दर्शयति-न ह्यभिधानेति, सदित्यभिधाने प्रत्यये च हेतुरसद्व्यावृत्तिरूपा सत्ता जातिः, तस्याश्च घटाभिधानप्रत्ययहेतुरघटाभावात्मिका घटत्वजातिर्नास्ति, तस्मान्न सामान्यविशेषतेत्यभिप्रायः । अत्रार्थे वैधर्म्यं निदर्शनस्योपनिबध्नाति - यथा नीलगुण इति, तत्र परस्परशब्दवाच्ये परस्पराभिधानप्रत्ययहेतोः सत्त्वादिति भावः । एकतः शब्दवाच्येऽपराभिधानप्रत्ययहेतोस्तत्त्व एव तानुपादय शब्दः प्रवर्त्तेत न चैवमस्तीति वक्ति यतोऽसदसत्त्ववत इति, सच्छब्दवाच्येऽसदसत्त्ववति घटाभिधानप्रत्ययहेतोरघटाभावलक्षणघटत्वस्य सत्त्वे तदुपादाय सच्छन्दः प्रवर्तेतेत्यर्थः । कुतो नास्तीत्यत्राह - द्रव्याणि तावदिति, असत्योपाधि - 20 सत्यभूतविधिरूपविशेषस्य शब्दार्थं वदतामस्माकं मते द्रव्याण्यसत्यभूतानि यथा न शब्दाभिधानहेतुभूतानि तथैव तव मतेऽपि, त्वन्मते घटाद्यभिधानेऽघटाभावस्यैव हेतुत्वात् स च सदभिधानहेतावसदसत्तायां नास्तीति जातेरजातित्वं सिद्धमिति भावः । एवञ्च सन् घटो नीलमुत्पलमित्यादौ विशेषणेऽसदसत्तालक्षणसत्तायां नीलव्यावृत्तिलक्षणनीलत्वे चाविद्यमानमघटव्यावृत्तिलक्षणघटत्वानुत्पलव्यावृत्तिलक्षणोत्पलत्वं धर्मं विशेष्ये घटे उत्पले च कथमध्यारोपयेत्, न हि जपाकुसुमेऽविद्यमानं रक्तत्वं स्फटिकेऽध्यारोपयितुं शक्यमित्याह-न चाविद्यमान इति । दृष्टान्तमाह-स्वरूपवदिति, सर्वैः शब्दैः प्रथमं स्वासाधारणी गोशब्दत्वादिजातिर - 25 भिधीयते तत्प्रत्यायनादनन्तरमर्थजातीनां गोत्वादिनामात्मसु शब्दजातेरभेदाध्यारोपस्य कल्पना क्रियते, सम्बन्धव्युत्पत्तिकाले गौरयमर्थ इत्यर्थजात्या शब्दजातेर्भेदात् सामानाधिकरण्यान्यथानुपपत्त्याऽभेदाध्यारोपः कल्प्यते, अन्यथा सङ्केतस्यैव कर्तुमशक्यत्वादिति भावः । तथा चाध्यारोपासम्भवेऽतद्वृत्तिधर्मत्वात्सामान्यविशेषाभावे सदादिना घटाद्यनभिधानात् सामानाधिकरण्यं कथं भवेदित्याशयेनाह-तस्मादित्यादीति । पर्यवसितमनुमानप्रयोगमाह-प्रयोगश्चात्रेति, स्पष्ठमन्यत् । अथ सदादिशब्देभ्यो घटादिभेदानां भेदाजातेरजातित आक्षेपासम्भवेऽप्यर्थतस्त आक्षिप्यन्त इत्याशङ्कते - अर्थाक्षिप्तास्तहीति । व्याचष्टे - 30
द्वादशारनयचक्रम्
१ सि, क्ष. छा. डे. भावमसद्० । २ सि. छा. सामान्यानां मानाभ्याधारतान् द, क्ष. डे. सामान्याभ्यां धारतान् दु० । ३ सि. क्ष. छा. डे. भघटीभाव० । ४ सि. क्ष. छा. डे. शब्दो बिशेषो० ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org