________________
mmmmmmmmm
८५२
न्यायागमानुसारिणीव्याख्यासमेतम् [उभयनियमारे वोऽत्रापि सम्प्रधार्यः, तद्भावनाहेतुर्यतश्च नीलशब्दोऽपीत्यादि-सोऽपि हि नीलशब्दो न द्रव्यं नीलत्वेनाह, यत्तत्तरतमादिप्रकर्षभेदस्य सामान्यं स्यात् , किं तर्हि ?[अ]नीलवदभावं-अनीलत्वजातेरनीलगुणस्य वा निवृत्तिमाह, तत्र च-अभावे न नीलनीलतरनीलतमानां भेदानां कस्यचिदपि सम्भवः, तस्मादभावमात्रामिधानान्नास्ति सामान्यविशेषभावः, अनीलाभावभावत्वान्नेति चेत् स्यान्मतमनीलत्वजातिगुणाभावो नील5 गुणद्रव्यभाव एव, स च सामान्यं नीलादिभेदानामिति चेन्मन्यसे अत्रोच्यते-एवं विधिशब्दार्थता तई
सैव, नीलत्वजातिगुणाधारद्रव्यस्य विधेः, अस्तु को दोष इति चेदुच्यते-यस्मादेवं सतोऽपि न सामानाधिकरण्यं त्वदुक्तन्यायेन, अभूतसामान्यविशेष[विषय]त्वात् , अनन्यद्रव्यवर्तिनि नीलगुणे नीलतरनीलतमप्रकर्षभेदाभावात् सामान्यविशेषत्वाभावः, तस्मादभूतसामान्यविशेषविषयत्वात् त्वदुक्तनीलनीलतरादिवत् सामानाधिकरण्याभाव' इति दृष्टान्तासिद्धेः सच्छब्दा[A]सद्व्यावृत्त्या भेदानामसद्यावृत्तिपक्षे विधिपक्षे 10 वा नास्ति सामानाधिकरण्यम् ।
उपेत्यापि तु व्यावृत्तिमदभिधानं सामान्यविशेषत्वाभावोऽसदघटादिव्यावृत्तिमताम् , जातेरजातितः, न ह्यभिधानप्रत्ययहेतौ सजातौ घटत्वजातिरस्ति, यथा नीलगुणे द्रव्ये नीलप्रकर्षभेदः, यतोऽसदसत्त्ववतो वस्तुनोऽघटभावघटात्वादीनुपादाय प्रवर्तेत, द्रव्याणि तावदपोहवादिनस्तेऽस्माकमिव न घटाद्यभिधानानां हेतवः, यानि तत्कारणान्यघटासत्त्वादीनि 15 तानि नासदसत्तायाम्, न चाविद्यमानः स्वात्मन्यर्थः शक्यते विशेष्यवस्तुन्यध्यारोपयितुम् , स्वरूपवत् , तस्मादविद्यमानतद्रूपं नीलमिव मधुरं न सद्धटादीन् विशेषयिष्यतीति कथं सामानाधिकरण्यं स्यात् ? ।
(उपेत्यापीति) उपेत्यापि तु व्यावृत्तिमदभिधानं-सच्छब्देनासद्व्यावृत्तिमतः सतोऽभिधान
mammmmmmmmm
निर्विशेषाणां सामान्यविशेषभावः सम्भवतीति न दृष्टान्तत्वसम्भव इति भावः । उक्तार्थमेव हेतुमुखेन भावयति-तडावना20 हेतुरिति, नीलशब्दस्य नीलत्वेन द्रव्यबोधकत्वे हि नीलतरादिप्रकर्षवद्र्व्यस्य नीलत्वं सामान्यं भवेत् , न चैवम्, तच्छब्दस्य
केवलनीलत्वव्यावृत्तेरनीलगुणाभावस्य वा बोधकत्वादिति भावः । अभावबोधकत्वादेवाभावस्य प्रकर्षभेदो नास्तीत्याह-अभाव इति, अभावस्य निर्विशेषत्वान्न सामान्यविशेषभाव इति भावः । अनीलाभावो भावात्मक एवेति शङ्कते-अनीलाभावभावत्वादिति, अनीलत्वाभावो नीलगुणखरूपः, अनीलगुणाभावो, नीलगुणद्रव्यरूपः, ततश्च प्रकर्षसम्भवात् सामान्यविशेषभावो भविष्यतीति
भावः । नीलशब्दार्थस्यानीलव्यावृत्तेर्भावरूपत्वे विधिरेव शब्दार्थः सम्पन्न इत्यन्यापोहशब्दार्थताभङ्ग इत्याह-एवं विधिशब्दार्थ25 तेति । इष्टापत्तौ दोषमाह-यस्मादेवं सतोऽपीति, अनीलाभावस्य भावत्वे सत्यपि सामानाधिकरण्यं न सम्भवत्येवेत्यर्थः ।
हेतुमाह-अभूतसामान्येति, नीलशब्दस्य सामान्यविशेषविषयत्वाभावादित्यर्थः । तत्समर्थयति-अनन्यद्रव्यवर्तिनीति, अनन्यद्रव्यवर्तिनीलगुणसामान्यं न नीलतरनीलतमादिप्रकर्षवत्, नीलशब्दार्थस्यानीलत्वव्यावृत्तिमतो नीलगुणस्य नीलतरादयो न कर्षभेदाः तेन सहाभूतसामान्यत्वादिति सामान्यविशेषत्वाभावेन दृष्टान्तत्वासम्भवेन सच्छब्देनापोहपक्षे विधिपक्षे वा भेदानां बोधाभावात् सन् घट इत्येवं सामानाधिकरण्यमनुपपन्नमेव स्यादिति भावः । तदेवं तद्वतो न वाचकोऽस्वतंत्रत्वात् , भेदादिति हेतुद्वयं 30 व्याख्याय जातेरजातित इति पदं व्याख्यातुमाह-उपेत्यापीति । सदादिशब्दानामसद्यावृत्तिमतां सदादीनामभिधायकत्वेऽभ्यु
पगतेऽपि सन् घट इत्येवं सामान्यविशेषभावो न भवेदेवेति व्याचष्टे-सच्छब्देनेति, सच्छब्देनासद्व्यावृत्तिमतो घटादिशब्देना
१सि.क्ष. छा. डे. पितुन व्या० ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org