________________
८५१
mmmwww
wimwww
mmmmmmmmmmmm
सामान्यविशेषसम्प्रधार्यता] द्वादशारनयचक्रम् वृत्तिजातिमतीत्यादिशब्दविशेषितग्रन्थमर्थतस्तुल्यं यावन्नीलतम इति चेति, अस्य व्याख्या-यद्यप्यसदसत् पटादिषु न वर्त्तते, तथाप्येकत्रासद्व्यावृत्त्याधारे वर्तते साक्षात्ततो बह्वर्था शङ्कास्ति, तस्याञ्च सत्यां घटादिभेदवादिभिः शब्दैर्येषु सा सत्ता वर्तते तैस्तद्वाचिभिः सामानाधिकरण्यं भविष्यतीति प्रतिज्ञा, तत्सामान्यगुणत्वादिति हेतुः-सा सामान्यगुणो येषां ते बहवोऽर्थाः [तत्] सामान्यगुणाः तद्भावात् तत्सामान्यगुणत्वात् तद्वाचिशब्दस्यापि तद्व्यवच्छेद्यविषयत्वात्-तया सत्तया व्यवच्छेद्याः सर्वे विषया । अर्थाः, ते विषयाः-अर्थाः [यस्य] शब्दस्य स तद्व्यवच्छेद्यविषयः तद्भावात् तद्व्यवच्छेद्यविषयत्वात्, यत्र यत्रेत्याधुपनयः कार्यः दृष्टान्तस्तद्यथा-अनैन्यद्रव्यवर्तिनी ले] त्यादि, अनीलेतरो हि नीलगुणोऽनन्यद्रव्यवर्ती-द्रव्ये नीलगुण एव वर्तते नीलतरादिष्ववर्तमानेऽपि तस्मिन् नीलगुणसामान्येऽनीलनिवृत्तिसामान्यस्य नीलतरादिद्रव्यवृत्तित्वात् तैः सह सामानाधिकरण्यं भवति यथा नीलतरः पटो नीलतम इति चेति ।
सोदाहरणोपसंहारे वयमत्र ब्रूमः
तच्च न, सामान्यविशेषभावस्य नीलत्वनीलगुणद्रव्यादेरनीलत्वानीलगुणद्रव्यनिवृत्तिलक्षणस्य तच्छब्दार्थाभावात् सम्प्रधार्यत्वात् , नीलशब्दोऽपि हि न द्रव्यं नीलत्वेनाह यत्तत्तरतमादिप्रकर्षभेदस्य सामान्यं स्यात् , किं तर्हि ? अनीलवदभावम् , तत्रच न नीलनीलतरनीलतमानां कस्यचिदपि सम्भवः, अनीलाभावभावत्वान्नेति चेत् , एवं विधिशब्दार्थता तर्हि सैव, एवं हि सतोऽपि न सामानाधिकरण्यम् , अभूतसामान्यविशेषविषयत्वात् । 15
(तच्च नेति) तच्च न, सामान्यविशेषभावस्य नीलत्वनीलगुणद्रव्यादेरनीलत्वानीलगुणद्रव्यनिवत्तिलक्षणस्य तच्छब्दार्थाभावात् सम्प्रधार्यत्वात्-नीलत्वजातिशब्दार्थस्यातव्यावृत्तिलक्षणस्या[नीलगुणद्रव्यव्यावृत्तिलक्षणस्य]नीलगुणशब्दार्थस्य चाभावादनीलेतरजातिगुणद्रव्यदृष्टान्ताभावात् तत्सामान्यविशेषभा
च्छब्दार्थोऽसदसत्त्ववत्सामान्यं तच्छब्दः साक्षाद्धटपटादिषु वाचकतया न वर्तते, अपि त्वसदसत्सामान्य क्वचिदाधारे वर्त्तत एव, तस्माद्बह्वर्थ तदित्याह-यद्यपीति, असदसच्छब्दार्थो यस्मिन्नाधारे वर्तते तद्वाचिशब्देन तद्वाचकशब्दस्य सामानाधिकरण्यं भविष्य-10 तीति प्रतिज्ञायत इत्याह-तस्याश्च सत्यामिति । हेतुं वक्ति-तत्सामान्यगुणत्वादिति, असदसत्त्ववत्सामान्यस्य बह्वर्थवृत्तिसामान्यगुणत्वादिति तदर्थः, असदसच्छब्दस्याप्यसदसत्त्ववत्सामान्येन व्यवच्छेद्यभूता ये बहवोऽर्था विषयास्तत्त्वादित्यर्थः । यत्र यत्र तस्य बह्वर्थसामान्यगुणत्वं तद्वाचिशब्दस्य च तद्व्यवच्छेद्यविषयत्वं तत्र तत्र तद्वाचिशब्दैस्तद्वाचिशब्दस्य सामानाधिकरण्यं दृष्टम् , यथा नीलतरः पटो नीलतमः पट इति चेति दृष्टान्तं वर्णयति-दृष्टान्तस्तद्यथेति, अनीलेतरसामान्यवचनो नीलशब्दः, सोऽनन्यद्रव्यस्य सामान्यगुणः, नीलद्रव्यमात्र एव वृत्तेः, न तु नीलतरनीलतमादिद्रव्यविशेषेषु साक्षाद्वर्तते, नीलद्रव्यस्यान्यत्वात् , येषु नीलतरादिद्रव्येषु पटादिषु स नीलगुणोऽनीलनिवृत्तिलक्षणोऽस्ति तद्वाचिशब्दैः सामानाधिकरण्यं भवतीति भावः। उभयनियमनयस्तद्दषयति-तच्च नेति। नीलसामान्यनीलगुणद्रव्यादेः सामान्यविशेषात्मकस्य नीलशब्दार्थत्वं तावत्सम्प्रधार्यम न तु निश्चितम् , नीलशब्दस्यानीलत्वनिवृत्तिवाचकत्वात् , अनीलगुणव्यावृत्तिवाचकत्वाच्च, द्रव्यशब्दस्य चाद्रव्यनिवृत्तिवाचकत्वात्. उभयोश्च शब्दयोरभावार्थत्वेनोक्तार्थे दृष्टान्तासम्भवः, सामान्यविशेषभावस्यात्रापि प्रसाध्यत्वादिति व्याचष्टे-सामान्यविशेषभावस्येति, नीलत्वं सामान्यं नीलगुणो विशेषः, नीलगुणः सामान्यं द्रव्यं विशेष इत्येवं सामान्यविशेषभावस्येत्यर्थः । अनीलत्व-80 व्यावृत्तिलक्षणं नीलत्वमनीलगुणव्यावृत्तिलक्षणो नीलगुणः, अद्रव्यनिवृत्तिलक्षणं द्रव्यमित्येवं सर्वेषामभावरूपता, न ह्यभावानां
१क्ष. पदमिदं नास्ति। २क्ष. छा. तदतदघटा। ३ छा. शङ्का । ४ सि. क्ष. छा. डे. न त्वद्रव्यः ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org