________________
mmmmmmmm
न्यायागमानुसारिणीयाख्यासमेतम्
[उभयनियमारे अन्यतरसामान्यविशेषप्रयोगाभाव इति प्रतिज्ञा, कृत्स्नाभिधेयस्वरूपोपादनशब्दाभिहितत्वात् , यत्र कृत्स्नाभिधेयस्वरूपं तदुपादानशब्देनाभिधीयते तत्रान्यस्य सामान्यविशेषेप्रयोगस्याभावो दृष्टः, यथा परं प्रतित्वदुदाहृतघटपार्थिवत्वोक्तौ यदि घटत्वेन समस्तं वस्तु विशिष्टं ततः पार्थिवत्वस्यावकाशाभावान युज्यत इति दृष्टो दोषः, तथा यद्यघटनिवृत्तिविशिष्टं वस्तु समस्तमुक्तं ततोऽपार्थिवनिवृत्तिविशिष्टं न युज्यत इति 5 समानः, अथास्यैकदेशं घट इत्यघटनिवृत्त्या गृह्णात्येकः, अपरोऽपार्थिवनिवृत्त्या देशं पार्थिव इति गृह्णातीति मतं तदयुक्तम् , अप्रतीतेः, न हि निमित्तान्तरैरुच्यमानस्यैकदेशप्रतीतिर्दृष्टा, यथाऽऽचार्यो मातुल इति, तथा न हि व्यावृत्तिसामान्यशब्दैस्तद्वत एकदेशो वक्तुं शक्यः, कस्मात् ? अतदसत्त्ववत्सामान्यविषयत्वात्-अतस्यान्यस्य व्यावृत्तस्यासत्त्वं तदस्यास्ति सन् घट इत्यादिसामान्ये स विषयोऽस्य शब्दस्य सोऽतदसत्त्ववत्सामान्यविषयः, यत्रातदसत्त्व[व]त्सामान्यविषयत्वं शब्दे तस्यैकदेशो न शक्यो वक्तुम् , किमिव ? 10 आचार्यो मातुल इत्यादिनिमित्तान्तरोक्तैकदेशानुक्तिवत् ।
अथापि स्यादसद्व्यावृत्तिजातिमत्येकत्रासदसत् वर्तते साक्षात् ततो बह्वा सत्ता, तस्याश्च सत्यां घटादिभेदवादिभिः शब्दैः सामानाधिकरण्यं भविष्यति, तत्सामान्यगुणत्वात्, तद्वाचिशब्दस्यापि तद्व्यवच्छेद्यविषयत्वात् तद्यथा-अनन्यद्रव्यवर्तिनीलगुणसामान्येऽनीलनिवृत्तिसामान्यस्य नीलतरादिद्रव्यवृत्तित्वात् तैस्तद्वाचिभिः सह सामानाधिकरण्यं भवति, 15 यथा नीलतरः पटो नीलतम इति चेति ।
अथापि स्यादित्यादि, परमताशङ्का, यथा विधिवादिमतमाशङ्कयते तथापोहवादिमतमसद्व्या
खरूपस्य प्रतिपादकशब्देनाभिहितत्वादिति हेत्वर्थः । अविनाभावं ग्राहयति-योति । यथा जातिमत्पक्षे युगपदसम्भवाचेति हेतुमभिदधता त्वयोदाहृतघटपार्थिवत्वोक्तौ घटत्वेनैव कृत्स्नं वस्त्वभिहितमिति पार्थिवत्वस्यावकाशाभाव इत्युक्तस्तद्वदिति दृष्टान्त इत्याह-यथा परं प्रतीति । दार्टान्तिकमाह-तथा यदीति । ननु घटस्यैकदेश एवैकेनाघटनिवृत्त्या गृह्यते परेण चापार्थिवत्व20 निवृत्त्याऽपरेण चाद्रव्यनिवृत्त्येति द्वितीयं विकल्पं दर्शयति-अथास्यैकदेशमिति । निमित्तान्तरैर्वस्तुनो देशो न प्रतीयत इति
समाधत्ते-अप्रतीतेरिति, घटत्वपृथिवीत्वादिनिमित्तैरुच्यते घट इति तत्र घटैकदेशप्रतीतिः कथं भवेदिति भावः । दृष्टान्तमाहयथेति, उपाध्याय एव मातुलः, कश्चनोपाध्यायस्य शिष्यो मातुलस्य भागिनेयं गत्वाऽऽह-उपाध्यायं भवानभिवादयतामिति, स गत्वा मातुलमभिवादयते, तथा मातुलस्य भागिनेय उपाध्यायस्य शिष्यं गत्वाऽऽह मातुलं भवानभिवादयतामिति, स गत्वोपाध्यायमभिवादयत इति, न ह्यत्रोपाध्यायमातुलशब्दाभ्यां पुरुषस्य वस्तुनो देशप्रतीतिरिति भावः । व्यावृत्तिसामान्यवाचकशब्दैः 20 तद्वद्वस्तुन एकदेशो नोच्यत इत्यत्र हेतुमाह-अतदसत्त्ववदिति, सन् घट इत्यत्र सच्छब्दवाच्ये सन्मात्रे खव्यावृत्तप्रतियोगि
कासत्त्वं वर्तते तदेवास्य शब्दस्य विषय इति कथमेकदेशस्तेनोच्यते, अन्यथाऽसदसत्त्ववत्सन्मात्रबोधकत्वमेव न स्यात्, यत्र शब्देऽतदसत्त्ववत्सामान्यविषयत्वं वर्तते तेन शब्देन तद्वस्तुन एकदेशो न शक्यते वक्तुम् , यथाऽऽचार्यो मातुल इत्यादौ निमित्तान्तरावलम्बनप्रवृत्तशब्देनैकदेशो नोच्यत इति भावः । अथासदसच्छब्दस्य सामान्यतो घटपटाद्यवाचकत्वेऽपि तद्वाच्यमसदसत्त्व
वत्सामान्यं क्वचिदस्त्येव, तस्मात्सत्ता बह्वा संजाता, आधाराणां बहुत्वात् , एवञ्च यत्राधारे सा सत्ताऽसदसत्त्ववत्सामान्यरूपा 30 वर्तते तद्वाचिशब्देन सह सच्छब्दस्य सामानाधिकरण्यं स्यादेवेत्याशङ्कते-अथापि स्यादिति । विधिवादिना एवमेवाशङ्कितं तदेव जातिमत्सामान्यशब्दस्थानेऽसदसत्त्ववत्सामान्यशब्दं प्रक्षिप्यापोहवादी शङ्कत इत्याह-यथा विधिवादीति। असदस
सि.क्ष. डे. छा. 'षणाभा०। २ सि. क्ष.डे. छा. °षणप्र०। ३ सि. क्ष. छा. डे. अतदसत्वात्सामा०। ४ सि. परमतावाक्य.क्ष. परमताशक्य० ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org