________________
कात्सर्यैकदेशावक्तव्यता]
द्वादशारनयचक्रम् छत्रनिमित्तश्छत्री, दण्डनिमित्तो दण्डी भिन्ननिमित्तत्वात् परस्पर[]समानाधिकरणौ तथा व्यावृत्तिमत्सच्छब्दपक्षेऽपीति भेदाव्यावृत्तिसामान्यानामित्यादिविधिपक्षदूषणवदिहापि व्यावृत्तिसामान्यवद्भेदादन्यदेवासद्ध्यावृत्तिसामान्यात् [अ]घटनिवृत्तिसामान्यमतः सन् घट इति भिन्नव्यावृत्तिविशिष्टसद्धटत्वसामान्ययोर्भेदादित्यत ऊर्द्ध तुल्यगमनीयमेव विधिपक्षदूषणेन सर्वमिति । - तद्व्याख्या-एकस्मिन्नर्थे घटादौ घटत्वपृथिवीत्वद्रव्यत्वसत्त्वादिभिन्ने वक्तृषु कश्चिद्धट 5 इति ब्रूते कश्चित् पृथिवीत्यादि यावत्सन्निति, तत्र सोऽर्थः घटरूपेण कृत्स्नो वाऽभिधीयेत? एकदेशेन वा? न तावत् कृत्स्नः तस्मिन्नेव काले वक्तुं शक्यः, तस्य पृथिवीत्वेनाभिधानासम्भवप्रसङ्गात् , न ह्यघटव्यावृत्तिरूपसामान्यं गृहीत्वाऽतद्रूपाभिधायिशब्दप्रयोगो युक्तः, स चेतरवक्तृवशादपि कृत्स्नो घटरूपेण स्थित इत्यसम्भवो रूपान्तरस्य, कृत्स्तस्यैकव्यावृत्तिसामान्यरूपप्रतीतेः, अथास्यैकदेशं घट इत्यघटनिवृत्त्या गृह्णात्येकः, अपरोऽपार्थिवनिवृत्त्या देशं 10 पार्थिव इति मतं तदयुक्तम्, अप्रतीतेरतदसत्त्ववत्सामान्यविषयत्वाच्च, यथाऽऽचार्यो मातुल इति । . (तद्व्याख्येति) तद्व्याख्यैवेत्थं लिख्यते-एकस्मिन्नर्थे घटादौ घटत्वपृथिवीत्वद्रव्यत्वसत्त्वादि. भिन्ने वक्तषु कश्चित् घट इति ब्रूते कश्चित् पृथिवीत्यादि यावत् सन्निति, तत्र-घटाभिधाने सोऽर्थो घटरूपेण कृत्स्नो वाऽभिधीयेत ? एकदेशेन वा ?, न तावत् कृत्स्नस्तस्मिन्नेव काले वक्तुं[शक्यः],तस्य पार्थिवत्वेनाभिधानासम्भवप्रसङ्गात्, न हि[अ]घटव्यावृत्तिरूपसामान्यं गृहीत्वाऽतद्रूपा भिधायिशब्दप्रयोगो युक्तः, 15 स चेतरवक्तृवशात् [अपि] कृत्स्नो घटरूपेण स्थित इत्यसम्भवो रूपान्तरस्य, कृत्स्नस्यैकव्यावृत्तिसामान्यरूपप्रतीतेः तद्वतस्तत्सारूप्येण युगपद्वक्त्रभिप्रायभेदे न युक्तो भावः सन् घट इति प्रयोगः, अत्र साधनं-अत्र
भासमानतायां छत्रीत्यादौ छत्रादेरिव न किंचिन्निमित्तमस्ति, छत्रीत्यादौ च छत्रादेनिमित्तस्य सद्भावेऽपि छत्रवतोऽन्यत्वाहण्डवतश्वान्यत्वान्नास्ति परस्परं सामानाधिकरण्यमेकार्थाभावादित्याह-निमित्ताभावादिति। हार्टान्तिकेऽप्याह-व्यावृत्तिमदिति, सच्छब्दार्थोऽसदसत्त्ववान् घटशब्दार्थोऽघटव्यावृत्तिमान् तयोश्चान्यत्वात् , व्यावृत्तिमतामसदसन्मात्राघटव्यावृत्तिमतां भेदादनंतत्वाच 20 युगपद्रहीतुमशक्यतया सम्बन्धाशक्यत्वाद्याभचाराच न वाचकत्वमिति पूादितदोषा अनापीति भावः। तमेवाह अत ऊर्द्धमिति। व्यावृत्तिमतामानन्त्यमेव तावदर्शयति-तद्व्याख्येति । एकस्य हि घटस्य बहवो बहुधा ग्रहीतारो भवन्ति, कश्चिद्धटत्वेन, कश्चित् पृथिवीत्वेनापरो द्रव्यत्वेनान्यः सत्त्वेन च, अनेकात्मकत्वाद्धटादेवस्तुनः, तत्र यदैकेन घट इत्यभिधीयते तदा स किं घटत्वेन रूपेण कृत्स्न एव घटोऽभिहितः, किं वैकदेशेनेत्येवं व्याकरोति-एकस्मिन्नर्थ इति । यदि तेन रूपेण कृत्स्न एव घटोऽभिधीयत इत्युच्यते तत्राह-न तावत् कृत्स्न इति, यदैव स घटत्वरूपेण कृत्स्नोऽभिधीयते तदैव तस्य पृथिवीत्याद्यभिधानं न सङ्गतिमङ्गति, न हि 25 पृथिवीत्वेनायं गृहीतः, घटत्वेनैव रूपेण तस्य कात्स्येन ग्रहणायेन रूपेण च यन्न गृहीतं तत्र तद्रूपावच्छिन्नबोधकशब्दप्रयोगो न युज्यत एवेति भावः । ननु तस्य वक्तुस्तथाऽभिधानासम्भवेऽपि वक्रन्तरेण स तथाभिधीयतेत्यत्राह-सचेतरेति. न ह्येकस्य घटोऽपरस्य न घट इत्येकस्य घटत्वेन कृत्नघटस्य घटशब्दाद्बोधेऽपरस्यापि तथैव बोधात् पृथिवीत्वेन रूपान्तरेणाभिधानस्यासम्भव एवेति भावः । अत्रार्थे हेतुमाह-कृत्स्तस्येति, एकधर्मावच्छिन्नत्वेन कृत्स्नस्य घटादेः प्रतीतेर्वत्रन्तराभिप्रायेणापि न रूपान्तरावच्छिन्नतद्बोधकशब्दप्रयोगावसरः भावो घटः सन् घट इत्येवमिति भावः । एतदेवानुमानद्वारेण दशयति-अत्र साधनमिति130 एकधर्मावच्छिन्नत्वेन कायेन प्रतीयमाने घटेऽन्यतरधर्मावच्छिन्नबोधकशब्दस्य प्रयोगोऽनुपपन्न इति प्रतिज्ञार्थः, कृत्स्नतयाऽभिधेय
१ सि. क्ष. छा. °भिन्नेषु। २ सि. क्ष. छा. डे. स्यै कस्य वृत्तिः ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org