________________
न्यायागमानुसारिणीव्याख्यासमेतम् [उभयनियमारे यथा म्लेच्छशब्दानाम् , तत्र शब्दमात्रमेव प्रतीयते नार्थ इत्यादिः सह टीकया भाष्यग्रन्थो द्रष्टव्यो यावदगुणत्वादिव्यभिचारादित्यवधिराचार्येण यावत् कारितः सव्याख्यानः सामान्यपरीक्षाकारलिखित एवात्रापीति न लिख्यते तदुपसंहारः-एतावचेत्यादि यावत् स्वाधारो वा न वाऽस्ति सम्भव इति यथा विचारितमिति मात्रशब्दापादितसत्ताद्यर्थोऽप्यतो न स इत्युपसंहारः, अलमतिप्रसङ्गेनेति-भेदादित्येतत्प्रसङ्गा5 गतसाक्षाद्विधिवादिमतदूषणमिदं प्रसङ्गमुक्तम् , मात्रग्रहणस्यैतद्विषयसम्भवानतिवर्तित्वात् ।
अधुना भवन्तं प्रति मात्रग्रहणात् तत्सम्भविनो विकल्पास्त एवेति तान् दूषयिष्यामः, तद्यथा
अथवा भेदात् , यस्माघ्यावृत्तिमानसदसत्तावान् , अतो न तस्य भेदा घटादय इति स एव दोषः, तेन सहाभूतसामान्यत्वात् , यो येन सहाभूतसामान्यस्तस्य तेन सामानाधिकरण्यं न भवति, यथा सत्त्ववदर्थसच्छब्दस्य घटादिभेदार्थत्वाभावात् तेन सहासामानाधि10 करण्यं साक्षाद्विधिवादमत इव तवापि सच्छब्दोऽसदसत्त्ववदर्थो न भवतीति ।।
अथवा भेदादिति यस्माद्यावृत्तिमानित्यादि भेदादित्ययं हेतुः व्यावृत्तिमत्पक्षे दोषमापादयितुं इत्थं व्याख्यायते यस्माद्यावृत्तिमान्-असदसत्ता[वा]निति पूर्वेभ्यः पक्षेभ्यो विशेषं दर्शयति, शेषं तुल्यं यावत् स एव-अतद्भेदत्वे सामानाधिकरण्याभाव एव दोषः प्रतिज्ञातस्त्वां प्रत्यापाद्यते, कस्मात् ? [तेन सहाभूतसामान्यत्वात् , अनाक्षेपात् ] तेन सहाभूतसामान्यत्वं सिद्धम् , यो येन सहाभूतसामान्यः 15 तस्य लेन सामानाधिकरण्यं न भवति, यथा सत्त्व[व]दर्थेत्यादि निदर्शनदण्डकः, सत्त्व[व]निर्थः अस्य सच्छब्दस्य सोऽयं सच्छब्दः सत्त्व[व]दर्थः, तस्य घटादिभेदार्थत्वं नास्ति त्वन्मतेन, तदभावात्तेन सहासामानाधिकरण्यं साक्षाद्विधिवादिमत इव तवापि सच्छब्दोऽसद[सत्त्ववद]र्थो-घटादिभेदार्थो न भवति, अतस्तद्वदेव सामानाधिकरण्याभाव इति ।
शब्दमानं हि तत्र प्रतीयते नार्थः, निमित्ताभावात् , छत्रिदण्डिवत , यथा छत्रनिमि20 त्तश्छत्री, दण्डनिमित्तो दण्डी, भिन्ननिमित्तत्वात् परस्परासमानाधिकरणौ तथा व्यावृत्तिमत्सच्छब्दपक्षेऽपि सन् घट इति भिन्नव्यावृत्तिविशिष्टसद्धटत्वसामान्ययोर्भेदादित्यत ऊर्द्ध 'तुल्यगमनीयमेव विधिपक्षदूषणेन सर्वम् ।
शब्दमात्रं हीत्यादि तन्मतदोषोक्तिस्तुल्या तवापि यावन्निमित्ताभावाच्छत्रिदण्डिवदिति, यथा मात्रग्रहणसम्भविविकल्पचतुष्टयदूषणमुपक्रमते-अथ वेति । व्यावृत्तिमत्पक्षदूषणानुगुणं हेतुं व्याचष्टे-यस्मादिति, सच्छब्दः 25 सत्त्ववतां द्रव्यादीनां घटादीनाञ्च भेदानामिव व्यावृत्तिमतां तेषां भेदात्तद्वतो न वाचकोऽसदसन्मात्रशब्दः, असदसन्मात्रशब्देनासन्न
भवतीत्यसदपोह्यतेऽतस्तच्छब्दाभिधेयं वस्तु असयावृत्तिसामान्यं तस्य भेदा घटादयो न भवन्ति, तेषां साक्षादनुक्तः, अतोऽतद्भेदत्वात् सामानाधिकरण्याभावः, तेन सहाभूतसामान्यत्वादिति भावः । तमेव हेतुं स्फुटयति-तेन सहाभूतेति । भेदानामभूतसामान्यत्वं तेनानाक्षेपात् सिद्धम् , अनाक्षेपश्चास्वतंत्रत्वात् , यथा सत्त्ववन्मात्रपक्षे सच्छब्देन तद्भेदा घटादयो न गम्यन्तेऽतस्तद्वद्धटादिमेदाना
क्षेपात् सामानाधिकरण्याभाव इति दर्शयति-यो येन सहेति, स्पष्टमन्यत् । सद्व्यमित्यादिशब्दत एव केवलं सामानाधिकरण्य 30 दृश्यते, नार्थविशेषाणां सामानाधिकरण्यं सम्भवति निमित्ताभावादित्याह-शब्दमात्र हीति। व्याचष्टे-तन्मतदोषोक्तिरिति, विधिवादमतदोषोक्तिवदित्यर्थः । सन् घट इत्यादौ केवलमसदसन्मानं सच्छब्देन प्रतीयते, न त्वर्थो घटादिः कश्चित् , अर्थस्य
१ सि.क्ष. छा. डे.क्ष. स्वन्मत।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org