________________
भेदावाचकता]
द्वादशारनयचक्रम् हापीति तुल्यदोषत्वविवक्ष[य] भवन्तमन्यांश्च प्रतीति गतार्थं यावदारभ्यते, न जातिशब्द इत्यादि तदारम्भः, पूर्वमपोहशब्देन सम्पन्नत्वात् विश्रब्धं परवाचोयुक्त्यैव न जातिशब्द इत्यादिपरग्रन्थमेवोददिक्षत, [अ]सदसद्विशिष्टसन्मात्रभेदसत्तासम्बन्धसत्त्वपक्षाणां त्वदिष्टानां विधिरूपाणाञ्च परेष्टानामविशेषादिति, तद्यथा-न जातिशब्दो भेदानां वाचक इति वक्ष्यति, जातिशब्दस्तावत् सदादिरिति, यस्मात् सच्छब्दो जातिसम्बन्धिनो जातिमुपादायात्मरूपेण द्रव्यादीनभेदोपचारादाह, तस्मादभेदोपचारहेतुना व्यपदिश्यते जातिशब्द । इति, यथा सिंहो माणवक इति सिंहशब्दो माणवकगुणानुपादायाभेदोपचारहेतुप्रवृत्तेरभेदोपचारहेतुना व्यपदिश्यते गुणशब्द इति, कस्मान्न वाचक इति हेतुपरिप्रश्नः, यस्माद्वाङ्मात्रेण[न]श्रद्धीयते, उच्यते-आनन्त्यादिति हेतुः, कस्याऽऽनन्त्यात् ? भेदानाम् , यस्मात्ते पूर्व प्रकृताः, न चान्यः श्रयते, आनन्ये हि भेदानामशक्यः शब्देन सम्बन्धः कर्तुम् , न हि पाटलिपुत्रादिस्था द्रव्यादय इहस्थेन सच्छब्देन सहाख्यातुं शक्याः, कर्तु-आख्यातुं, करोतेरनेकार्थत्वात् , आनन्त्याद्वा द्रव्यादीनाम् , तथा हि ते घटपटरथादिभेदेना-10 नन्ताः, एवं तावत् सम्बन्धिभेदाद्भेदमभ्युपगम्येदमुच्यते, न तु तस्य वस्तुतः स्वगतो भेदोऽस्ति, तत्रेदमेव कारणं यत् सम्बन्ध्यन्तरविशिष्टाभिधायी शब्दः सम्बन्ध्यन्तरविशिष्टशब्दवाच्यमसमर्थो वक्तुम् , गवाश्वादिवत्तस्माद्भेदानामवाचकः, न च कृतसम्बन्ध इति-अनाख्यातसम्बन्धः शब्द इति, द्विष्ठत्वेऽपि सम्बन्धस्य शब्दस्यैवाविनाभावित्वादर्थप्रत्यायकत्वं दर्शयति, अत्र चानन्त्यं पारम्पर्येणाभिधानहेतुः, ततो हि सम्बन्धाशक्यता, सँम्बन्धाव्युत्पत्तेरनभिधानम्, स्वरूपमात्रप्रतीतेरिति, यत्र शब्दस्यार्थे न सम्बन्धः व्युत्पत्ती 16
मतानां परेष्टानां विधिरूपाणाञ्च पक्षाणामविशेषान्न जातिशब्द इत्यादिकारिकामेवोद्दिष्टवान् व्याख्यातुमित्याह-न जातिशब्द इत्यादीति। ननु किं सच्छब्दो जात्यभिधायी? उत भेदाभिधायी, तत्र न तावजातिस्तेनाभिधीयते सद्रव्यमिति मेदवाचिद्रव्यशब्देन सामानाधिकरण्यानुपपत्तेः, न वा भेदोऽभिधीयते भेदानामानन्त्यात् सम्बन्धाख्यानासम्भवात् , न चानाख्याते सम्बन्धे तेनार्थप्रतिपत्तियुक्तेति शङ्कायामाह-जातिशब्दस्तावदिति. आधारैर्भेदैः सह जातेः सोऽयमित्यभेदोपचारादभेदे सति शब्दैर्जातिविशिष्टप्रत्ययो भवति, तत्र जातिशब्देन द्रव्यं न खेन रूपेणाभिधीयते, अपि तु निमित्तभूतजातिस्वरूपेण, तथा च सच्छब्दो 20 आतिशब्द उच्यते, अभेदोपचारहेतुना प्रवृत्तेः, यथा गुणाभेदोपचारहेतुना प्रवृत्तेः सिंहशब्दो गुणशब्द उच्यत इति भावः । भेदानामवाचकत्वे हेतुं पृच्छति-कस्मान्नेति, अन्तरेण हेतुं वचोमात्रेण कस्याप्यपरितोषादिति भावः । साधनमाह-आनन्त्यादिति, अपरिमेयत्वादित्यर्थः । ननु भेदानामेवानन्यं कुतः, न हि कारिकायां तथोक्तमित्यत्राह-यस्मात्त इति । भवतु भेदानामानन्त्य. मवाचकत्वं कस्मादित्यत्राह-आनन्त्य इति, सच्छब्दस्यैकत्वाद्भेदानामानन्त्यान्नकस्यानेकेन सम्बन्धः शक्यः आख्यातुमिति भावः । निदर्शनमाह-नहीति । प्रकारान्तरेण वाचकभेदाद्वाच्यभेदमभ्युपगम्य व्याचष्टे-आनन्त्यावति, मेदानामनामनन्त-25 त्वात् प्रतिभेदं शब्दभेदः, सच्छब्दस्य स्वरूपतो भेदाभावेऽपि सम्बन्धिनो भेदस्य भेदाढ़ेदोऽभ्युपगम्यते, तथा च यावद्भेदानां परिज्ञानाभावेन तावच्छब्दानामप्यपरिज्ञानात् विशेषकूटपरिज्ञानाभावे सामान्यस्याप्यपरिज्ञानमेवेति सामान्येन सच्छब्दस्य भेदवाचकत्वं न सेत्स्यतीति भावः । सम्बन्धिभेदाढ़ेदं साधयति-तत्रेदमेवेति, एकसम्बन्धिवाचकः शब्दोऽन्यं सम्बन्धिनं न ब्रूते यथा गोवाचको गोशब्दो नाश्वम् , तस्मान्नैकः सच्छब्दो भेदानां वाचको नापि सम्बन्ध आख्यातुं शक्यते तस्मादनाख्यातसम्बन्धः शब्दः, यद्यपि सम्बन्धः शब्देऽर्थे च वर्तते द्विष्ठत्वात् , तथापि शब्दस्यैवार्थप्रत्यायकत्वं, तदविनाभावित्वादिति भावः । एतस्मिन् 30 पक्षे परम्परयाऽऽनन्त्यं हेतुरित्याह-अत्र चानन्त्यमिति, भेदानन्त्यात् सम्बन्धाशक्यता, ततश्च सम्बन्धापरिज्ञानादनभिधानम् , शब्दखरूपमात्रस्यैव केवलं प्रतीतेरित्यर्थः। यत्र सम्बन्धाशक्यता तत्र केवल शब्दखरूपमात्रमेव प्रतीयत इत्याह-यत्र शब्दस्येति ।
१ सि.क्ष. छा. न चाकृतः । २ सि.क्ष. छा. सम्बन्धे श.। ३ सि.क्ष. छा. चात्यन्त । ४ सि.क्ष. डे.छा. नास।
द्वा० ३० (१०७)
___Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org