________________
न्यायागमानुसारिणीव्याख्यासमेतम् [उभयनियमारे भेदांशत्याज्जातिरित्यर्थः, किं तत्सन्मात्रमुच्यते ? सत्तामात्रं वा ? भेदनिरपेक्षा सत्तैव वा ? सत्तासम्बन्धो वा? सत्त्व[वन् ]मात्रं वा? सदनुवृत्त्यभिधानपक्षवदेते चत्वारो विकल्पा असैद्यावृत्तिमत्यपि पक्षे सम्भवे[युः] गत्यन्तराभावात् , स्यान्मतमसदसदित्यभावपक्षोऽपि सम्भवीति, तन्न, अभावस्य प्रतिषिद्धत्वात् ,
शब्दान्तरार्थापोहं हि स्वार्थ कुर्वती श्रुतिरभिधत्त इति त्वयैव स्वार्थवचनेनोक्तत्वात् , अस्माभिः स्वार्थ एवं 5 निर्धार्यते इत्यादिना यावदनन्त्यः प्रत्यक्ष इति ग्रन्थेन विचार्य[T]भा[व]स्य प्रतिषिद्धत्वात् परिशेषादेव तावन्त एव विकल्पा भवन्तो भवेयुरसदसन्मात्रमिति शब्दार्थस्य, तत्र सन्मात्रविधिवादिमतवदपोहवादिमतेऽपि चतुष्टये स्थिते समान एवात्रापि विचारो ग्रन्थश्चेति ।
तथैवाह
'नापोहशब्दो भेदानामानन्त्याव्यभिचारतः। वाचको नियमार्थोक्तेर्जातिमद्वदपोहवान् ॥ 10 न जातिशब्दो भेदानामानन्त्याव्यभिचारतः । वाचको नियमार्थोक्तेः सत्ताद्यर्थोऽप्यतोन सः॥'
इति, एवं सन्मात्रसत्ताधापादनवदिहापीति तुल्यदोषत्वविवक्षया भवन्तमन्यांश्च प्रति न जातिशब्द इत्यादिरारभ्यते, जातिशब्दस्तावत् सदादिः, सच्छब्दो हि जातिसम्बन्धिनो जातिमुपादाय द्रव्यादीनभेदोपचारादाह, तस्माद्यपदिश्यते जातिशब्द इति, यथा सिंहो माणवक इति, कस्मान्न वाचकः? आनन्त्याझेदानाम् , आनन्त्ये भेदानामशक्यः शब्देन 15 सम्बन्धः कर्तुम् , आनन्त्याद्वा द्रव्यादीनाम् , ते हि घटपटरथादिभेदेनानन्ताः, सम्बन्धान्तरविशिष्टाभिधायी शब्दः सम्बन्धान्तरविशिष्टशब्दवाच्यमसमर्थो वक्तुम् , गवाश्वादिवत् , न च कृतसम्बन्धः शब्दः ततो हि सम्बन्धाशक्यता, सम्बन्धाव्युत्पत्तेरनभिधानं स्वरूपमात्रप्रतीतेः यत्र शब्दस्यार्थेन न सम्बन्धो व्युत्पत्तौ यथा म्लेच्छशब्दानाम् तत्र शब्दमात्रमेव प्रतीयते नार्थ इत्यादिः सह टीकया भाष्यग्रन्थो द्रष्टव्यो यावत्............ 20 अगुणत्वादिव्यभिचारादिति, एतावच्च............स्वाधारो वा तवास्ति सम्भव इति ।
नापोहशब्दो भेदानामित्यादि श्लोकद्वयम् , अन्त्यपादे तूपसंहारे विशेषः सत्ताद्यर्थोऽन्यतो न स इति, मात्रशब्दलभ्यार्थे तावदेतच्छोकद्वयं व्याख्यातुकामः सम्बन्धयति-एवं सन्मात्रसत्ताधापादनवदि
तत्सम्बन्धतद्वत्त्वलक्षणचतुर्विकल्या यथा भवन्ति तथाऽसदसन्मात्रपक्षेऽपि क्रमेण तत्स्थानापन्नाश्चत्वारो विकल्पा इमे इति दर्शयति
सत्तामात्रं वेत्यादिना, भेदान्तर्गभिंतसत्त्वमात्रं वेत्यर्थः, विकल्पचतुष्टयाधिकविकल्पासम्भवाद्भेदानुवृत्तसदभिधानपक्षवत् तव 25 मतेऽप्येतावन्त एव विकल्पाः सम्भवन्तीति भावः । अपरं विकल्पमाशङ्कते-स्यान्मतमिति, असदभावविकल्पस्य त्वया तुच्छत्वेन
शब्दान्तरार्थापोहं खार्थे कुर्वतीति वाक्यघटकस्वार्थपदप्रयोजनाभिधानावसरे प्रतिषिद्धत्वादिति भावः । अस्माभिरपि प्रतिषिद्ध इत्याह-अस्माभिरिति । एवञ्च विकल्पानां तावतामेव सम्भवात् सन्मात्रपक्षवदसदसन्मात्रपक्षेऽपि समान एव विचारो निरासथेति भावः । एतदेव स्पष्टयति-नापोहशब्द इति । तदीयश्लोकद्वयं किञ्चिद्विशिष्टं दर्शयति-श्लोकद्वयमिति। असदसन्मात्र
शब्दलभ्यार्थे श्लोकद्वयमेतद्व्याख्यातुकामः सन्मात्रशब्दार्थमेदसत्तातत्सम्बन्धतद्वत्पक्षेषु ये दोषा आपादितास्तेऽसदसन्मात्रपक्षेऽपि 30 समाना इत्याह-मात्रशब्दलभ्यार्थ इति । असदसद्विशिष्टसन्मानं भेदः सत्तासम्बन्धः सत्ता चेति अन्यापोहवाद्यभि
.सि.क्ष. छा. ग्राति । २ सि.क्ष. छा. तदसदसन्मात्र। ३ सि. क्ष. छा. डे. असदसत्त्वविध्यावृत्तिमस्यपि । ४ सि.क्ष. तत एव ।५ सि. क्ष. छा. डे. तवासदसन्मात्र०। ६ सि.क्ष. मा. डे. लभ्यस्यार्थे तावत् ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org