Book Title: Dvadasharnaychakram Part 3
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 297
________________ ८६६ न्यायागमानुसारिणीव्याख्यासमेतम् [उभयनियमारे वेति चेदुच्यते शिंशपादिः, तत्सम्परिग्रहेण वृक्षादेः सत्त्वस्यानुवृत्तेः सामान्यस्य सम्परिग्रहेण तदभावावृक्षाद्यसदतघ्यावृत्त्यपोहपरिग्रहेण चात्यजन्नेवानुवृत्तिव्यावृत्ती। किं कारणं न ते त्यज्यतीति चेदुच्यतेयस्मात् तदुपसर्जनाशिंशपाऽभवनबीजतां यन् स्वार्थमभिधत्ते, गच्छन्-व्रजन्नित्यर्थः, स्वार्थानुवृत्ति सामान्योपसर्जनत्वस्याशिंशपायाः-घटादेः तत्राभवनलक्षणस्य च व्यावृत्तिसामान्यस्य स्वार्थ:"5 शिंशपाशब्दस्य शिंशपार्थः स बीजं तयोरनुवृत्तिव्यावृत्त्योः, इतरथा किमित्यसावपोहेत, अप्रतिपादयन् किञ्चित् ?, यदि तु सोऽपीत्यादि पूर्ववद्वन्थ ईषद्विशिष्टः प्रसङ्गो यावद्विशेषार्थविधिरित्युपनयः, तत्र विशेष उच्यते-वृक्षः शिंशपेत्यत्र शिंशपाशब्दो न विदध्यात् वृक्षार्थ, शिंशपाविशेषात्मापन्नव्यावृत्तत्वात् इति पूर्ववद्गमोऽर्थापत्त्या नानुमन्येत वा, अवृक्षो न भवतीत्युक्तेऽर्थादापन्नं वृक्षो भवतीत्ययमर्थो मा भूत् , इष्यते चासौ, कुतः ? उपात्तार्थाविरोधात्, उपात्तार्थाविरोध इत्यत्रेतिशब्दस्य हेत्वर्थत्वात् , अशिंशपाभवनवदि10 त्यादिरवृक्षाभवनवदित्यादितुल्यः, सामान्यगमविपर्ययेण तदविनाभाविविशेषार्थो गमनिकया नेयः, अभावत्वादवृक्षत्वादित्यादिहेतुकः, अभावमात्राभ्युपगमाच हेतुसिद्धिः, तद्विपर्ययेऽस्मत्पक्षापत्तिः, शेषग्रन्थ. भावना पूर्वग्रंथभावनातुल्या, एवं तावत् सामान्यभेदपर्यायशब्दार्थानपोहवत् सामान्यसामान्यशब्दार्थानपोहोऽन्तर्निविष्टविशेषाभिधायिसामान्यशब्दार्थविधिश्चोक्तः, विधेरेव शब्दार्थत्वात् । यत्त्वविरोधादित्युक्तं सोऽप्येवमेवाविरोधो घटते भवनविध्येकार्थीभूतत्वान्नान्यापोहे, 18 भावः, सत्त्वमनुवृत्तिश्च सामान्यपर्यायौ, असदभावावृक्षाद्यसदतद्व्यावृत्तिशब्दा अपोहपर्याया इति ध्येयम् । अनुवृत्तिव्यावृत्त्योरत्यागे कारणमाह-यस्मादिति । शिंशपादिशब्दो वृक्षसामान्योपसर्जनत्वमशिंशपाव्यावृत्तिञ्चोपगच्छन्तं स्वार्थ शिंशपां तेऽत एव शिंशपा वृक्षोपसर्जनत्वस्यानुवृत्तेः अशिंशपाऽभवनस्य व्यावृत्तिसामान्यस्य च बीजभूतेति भावः, गच्छन् ब्रजनिति यन्निति पदस्यार्थः । यदि शिंशपाशब्दः शिंशपां नाभिदधीत वृक्षादिः कस्य सामान्यं स्यात् , अपोहो वा कस्मादन्यस्य स्यात्तस्माच्छिशपा तयो/जमित्याशयेनाह-इतरथेति, तस्मात् विशेषशब्दः खार्थ वृक्षोपसर्जनं वक्तीति भावः । यदि तु स शब्दोऽशिंशपा20 व्यावृत्तिमात्रं ब्रवीति न तु वृक्षोपसर्जनशिंशपामित्युच्यते तर्हि वृक्षादिसामान्यशब्दस्यावृक्षो न भवतीत्यपोहमात्राभिधाने यदि तु सोऽप्यपोहपर एव स्यादित्यादिग्रन्थेनोक्ता दोषाः प्रसज्यन्त इत्याह-यदि तु सोऽपीत्यादीति । वृक्षः शिंशपेत्यत्र शिंशपाशब्दस्यापोहमात्रपरत्वे वृक्षविधिपरत्वं न स्यात् शिंशपाखरूपापत्तेावृत्तत्वात्, स्वसमानाधिकरणवृक्षशब्दार्थेनावृक्षो न भवतीत्येवंरूपेणार्थादापन्नं वृक्षार्थ वा नानुमन्येत शिंशपाशब्दः, अनुमन्यते तु, शिंशपाशब्दोपात्तार्थेनाविरो धादिति पूर्वग्रन्थतोऽत्र विशेषमादर्शयति-तत्र विशेष इति । शिशपाशब्दो वृक्षादिसामान्येनानर्थित्वादृक्षसामान्यं न विदधीत 25 नानुमन्येत नाप्यपोहेत वेत्यत्र दृष्टान्तं विशिष्टमाह-अशिंशपाभवनवदिति. शिंशपाशब्दस्य घटायशिंशपाव्यावृत्तिकरण एवोपक्षीणशक्तित्वेन वृक्षादिविधानादौ व्यापार एव नास्तीति भावः । यतश्च वृक्षादिसामान्यात्मकं शिंशपादि न विधत्तेऽत एव तद्भवनविध्येकार्थीभावे यत्सामानाधिकरण्यं भवति तद्भवनविधिविनाभावे न घटतेऽतः वृक्षः शिंशपेति तथा भवनविधिविनाभूतं ये न समानाधिकरणं त्वदभिमतं वस्तु स्यात् , अभावत्वादवृक्षत्वाद्वन्ध्यापुत्रवदिति साधकहेतुमादर्शयति पूर्वग्रन्थोकाद्विशिष्ट हेतुं दर्शयन्-अभावत्वादवृक्षत्वादिति । शेषभावना पूर्वभावनातुल्येल्याह-शेषति, उपसंहरति-एवं ताव30 दिति। अन्तर्निविष्टेति, अभ्यन्तरीकृतविशेषं सामान्य सामान्यशब्दो विधत्ते, विधेरेव शब्दार्थत्वादिति भावः । अथ वृक्षशब्दः सामान्यभेदपर्यायशब्दानामर्थं नापोहतेऽन्यत्वे तुल्येऽपि, अविरोधात् , विरोधात्तु घटादीनपोहत इति यदुच्यते तन्नाविरोधोऽपि विधिशब्दार्थतापक्ष एव घटते नान्यापोहपक्ष इत्याह-यत्त्वविरोधादित्युक्तमिति । व्याचष्टे-यदपि त्वयेति, वृक्षशब्द - सि.क्ष. छा.डे. पोहोतविशिष्टविशेषा। Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430