Book Title: Dvadasharnaychakram Part 3
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 293
________________ ८६२ न्यायागमानुसारिणीव्याख्यासमेतम् [ उभयनियमारे रण्यं प्रतिपद्यते वृक्षः शिंशपेति तद्भवनविध्येकार्थीभावात्, तद्भवनभवनविधिविनाभावे तु न युज्यते, भवनविधिविनाभूतस्य भेदाक्षेपाभावात्, साधनमप्यत्र भवनविधिविनाभूतं भेदानाक्षेपि न समानाधिकरणं वृक्षः शिंशपेति त्वदभिमतं वस्तु स्यात्, अभावत्वात् वन्ध्यापुत्रवत् । यदि तु सोऽप्यपोहपर एव स्यादित्यादि, यदि तु सोऽपि वृक्षशब्दोऽपोह पर एवाभविष्यत 5 ततः सोऽवृक्षव्यावृत्तिवृत्तत्वाद्वृक्षभेदशिंशपादीन् [ नाक्षिपेत् ] आक्षिपतीति चेष्टम्, शिंशपादिसामानाधिकरण्यदर्शनात्, तथा नानुमन्येत, अनाक्षिप्तत्वात्तमर्थं, अनुमन्यते तु, न व्युदस्य [ त][T], अपोह एवेत्यभावमात्रार्थत्वात्, खपुष्पवत्, वक्ष्यति चोपसंहारे शून्यमात्रत्वात् किं कः केन कस्माद्वाऽपोहत इति, कुतोऽनाक्षेपाननुमत्यव्युदासा इति चेदुच्यते-अनर्थित्वात्-अनर्थी हि शिंशपादिना भेदेन वृक्षशब्दः, , तस्मान्नाक्षेपादीन् कुरुते, किमिव ? अवृक्षाभवनवत्, तद्व्याख्या अवृक्षो घटादीत्यादि गतार्था यावद्व्यापार एव नास्तीति, 10 यदसावित्यादि, विधिवादे त्वस्मत्पक्षे यस्मादसौ वृक्षशब्दो वृक्षार्थं घटादिभ्योऽन्यत्वेन शिंशपादिभेदात्मकं स्वार्थमनन्यत्वेनाक्षिपति, तस्मात्तेन सह सामानाधिकरण्यं प्रतिपद्यते वृक्षः शिंशपेति, तद्भवनविध्यैकार्थीभावात् तद्भवनभवनविधिविनाभावे तु न युज्यते तत्समानाधिकरणीभवनं भवनमस्य तद्भवनभवनं तस्य तद्भवनभवनस्य विधिरात्मलाभः स्थितिराचारः तेन विना भावे तद्विरहितत्वे न घटते-घंटां नापैति, भवनविधिविनाभूतस्य भेदाक्षेपाभावात्, न ह्यभवतो भेदा आक्षेपकत्वं वाऽस्ति यतः समानाधिकरणता स्यात्, 15 साधनमप्यत्र-भवनविधि [ विना ] भूतं भेदानाक्षेपि न समानाधिकरणं वृक्षः शिंशपेति त्वद्भिमतं वस्तु स्यात्, अभावत्वाद्वन्ध्यापुत्रवत्-अनुपपन्न सामानाधिकरण्यभेदाक्षेपानुमतं त्वदिष्टं वृक्षः शिंशपेति पदद्वयाभिधेयमभावत्वाद्वन्ध्यापुत्रवत् । www सामानाधिकरण्यम्, तच वृक्षशब्देन शिंशपादिप्रतीतौ स्यादेकार्थत्वात्, तत्र यदि वृक्षशब्दोऽवृक्षापोह एवाभविष्यत् नाक्षिपेद्दृक्षभेदं शिंशपादि, तत्रैव शब्दस्य प्रक्षीणशक्तित्वात्, भेदानामानन्त्यव्यभिचाराभ्याञ्च न च भिन्नार्थवाचकानां सामानाधिकरण्यं गवाश्वयो20 रिव दृष्टम्, इष्टश्चाक्षेपो मेदानाम्, सामानाधिकरण्यदर्शनादिति भावः । भेदार्थस्त्वया न स्वीकार्यः, व्यावृत्तिमात्रवृत्तत्वेन भेदानाक्षेपादित्याह-नानुमन्येतेति । अपोहमात्रार्थत्वेन भेदान्न व्युदस्येत वेत्याह-न व्युदस्येत वेति । एवञ्च मेदानामाक्षेपानुमतिव्युदासासम्भवेनाभावमात्रताप्रसङ्ग इत्याह-वक्ष्यति चेति, एवञ्च सर्वमिदं दृश्यादिवस्त्वित्याद्यग्रिमग्रन्थेनेति भावः । अनाक्षेपादौ निमित्तं दर्शयति- कुतोऽनाक्षेपेति, वृक्षशब्दो भेदान्नार्थयतेऽभीप्सत्यतो नाक्षेपादि विधत्त इति भावः । दृष्टान्तमाह-अवृक्षाभवनवदिति, वृक्षो घटादिभवनं तदभावोऽवृक्षाभवनम् तच्च न भेदानाक्षिपति अनर्थित्वात् एवं तद्वाचकशब्दोऽपि तस्य पो 25 चरितार्थस्य मेदाक्षेपे व्यापार एव नास्ति, अनर्थित्वादिति भावः । विधिपक्षे भेदाक्षेपमाह - विधिवादे त्विति, वृक्षशब्दो घटादिभ्योऽन्यत्वेन वृक्षार्थं वृक्षानन्यत्वेन शिंशपादिभेदात्मकं स्वार्थमाक्षिपति तस्मादेव च वृक्षः शिशपेति शिशपया साकं सामानाधिकरण्यं प्रतिपद्यत इति भावः । तत्र हेतुमाह-तद्भवनेति, शिंशपादिभवनेन सह वृक्षस्यैकार्थीभावात् - अभेदात् सामानाधिकरण्यादिति वाऽर्थः । तत्समानाधिकरणी भवन मिति, शिंशपादिना सह समानाधिकरणीभवनमेव वृक्षभवनम्, तदर्थ एव वृक्षस्यात्मलाभः स्थितिः आचारः - मर्यादा वा, एवञ्च शिंशपादिसमानाधिकर णीभवनभवनविधिं विना समानाधिकरणता न घटत एव तथाविध30 भवनविधिविनाभूतञ्च वस्तु न भेदानाक्षिपतीति भावः । तदेव समर्थयति - न ह्यभवत इति, तद्भवनभवनविधिरहितस्य न कश्चिद्भेदो न वा भेदाक्षेपकत्वं सम्भवति येन सामानाधिकरण्यं भवेदिति भावः । प्रयोगमाह-साधनमप्यत्रेति, भवनविधिविनाभूतं १ सि. छा. वृक्षव्यावृत्तिव्यावृत्तत्वात्, सि. वृक्षव्यावृत्तत्वात् । २ सि. क्ष. डे. 'विधिकार्थी ० । ३ सि.क्ष. छा. डे. भावेनुप्रयु० । ४ सि.क्ष. छा घटानोपेति । ५ सि. क्ष. छा. 'क्षेपानुमतित्वदि० । ६ सि. क्ष. छा. 'द्वयाविर्धय० । Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430